भारतकोश
मुद्राराक्षसम् (सटीक संस्कृत नाटक)

मुद्राराक्षसम् (सटीक संस्कृत नाटक)

Mudrarakshasam Natakam with Hindi Commentary

महाकवि विशाखदत्त द्वारा

DevanagariSanskritpublished488 पृष्ठ

पृष्ठ 163, कुल 488 में से

संदर्भ में पढ़ें
पृष्ठ 163

६० मुद्राराक्षसम्

चिन्तितेऽन्यस्मिन् तल्लिङ्गोऽन्य प्रयुज्यते । आगन्तुकेन भावेन पताकास्थानकं तु
तत् ॥ सहसैवार्थसम्पत्ति गुणवत्युपचारतः । पताकास्थानकमिदं प्रथमं परिकी-
तितम् ।।' साहित्यदर्पण ।

प्रतीहारी—अज्ज ! देवो चन्दसिरी सीसे कमलमउलाआरमञ्जलिं निवेसिअ अज्जं विष्णवेदि । इच्छामि अज्जेण अब्भणुण्णादो देवस्स पव्वदेसरस्स पारलोअं कारेदुम् । तेण अ धारिदपुव्वाइ आहरणाई बम्हाणाणं पडिवादेमि त्ति । ( आर्य ! देवश्चन्द्रश्रीः शीर्षे कमलमुकुलाकारमञ्जलिं निवेश्य आर्यं विज्ञापयति—'इच्छाम्यार्येणाभ्यनुज्ञात देवस्य पर्वतेश्वरस्य पारलौकिकं कर्तुम् । तेन च धारितपूर्वाण्याभरणानि ब्राह्मणानां प्रतिपादयामीति । )

चाणक्य—[ सहर्षमात्मगतम् ] साधु वृषल ! ममैव हृदयेन सह समन्त्र्य मन्दिष्टवानसि । [ प्रकाशम् ] शोणोत्तरे ! उच्यतामस्मद्वचनाद्वृषल—'साधु वत्स ! अभिज्ञ खल्वसि लोकव्यवहाराणां, तदनुष्ठीयतामात्मनोऽभिप्राय । किन्तु पर्वतेश्वरधृतपूर्वाणि गुणवन्ति भूषणानि गुणवद्भ्य एव ब्राह्मणेभ्य प्रतिपादनीयानि । तदह ऽवयमेव परीक्षितगुणान् ब्राह्मणान् प्रेषयामि' ।

प्रतीहारी—जं अज्जो आणवेदि ( यदार्य आज्ञापयति ) [ इति निष्क्रान्ता । ]

चाणक्य—शार्ङ्गरव ! उच्यतामस्मद्वचनाद्विश्वावसुप्रभृतय त्रयो भ्रातर —'वृषलात् प्रतिगृह्याभरणानि भवद्भिरह द्रष्टव्य' इति ।

शिष्य—यदाज्ञापयत्युपाध्याय । [ इति निष्क्रान्त । ]

व्याख्याआर्य—आर्य !, चन्द्रश्री—चन्द्रस्य श्री इव श्री शोभा यस्य स तथाविध , देव—महाराज चन्द्रगुप्त इति यावत्, कमलमुकुलाकार—कमलस्य पद्मस्य मुकुल कलिका तस्य आकार इव आकार आकृति यस्य स तादृशम्, अञ्जलिं, शीर्षे—शिरसि, निवेश्य—निधाय, आर्यं—भवन्तं, विज्ञापयति—निवेदयति, आर्येण—भवता, अभ्यनुज्ञात—आदिष्ट ( सन् ), देवस्य—राज्ञ , पर्वतेश्वरस्य, पारलौकिक—परलोकसिद्धयर्थं वृत श्राद्धादिक कर्म, कर्तुं—विधातुम्, इच्छामि—वाञ्छामि । तेन—पर्वतेश्वरेण च, धारितपूर्वाणि