मुद्राराक्षसम् (सटीक संस्कृत नाटक)
Mudrarakshasam Natakam with Hindi Commentary
महाकवि विशाखदत्त द्वारा
६० मुद्राराक्षसम्
चिन्तितेऽन्यस्मिन् तल्लिङ्गोऽन्य प्रयुज्यते । आगन्तुकेन भावेन पताकास्थानकं तु
तत् ॥ सहसैवार्थसम्पत्ति गुणवत्युपचारतः । पताकास्थानकमिदं प्रथमं परिकी-
तितम् ।।' साहित्यदर्पण ।
प्रतीहारी—अज्ज ! देवो चन्दसिरी सीसे कमलमउलाआरमञ्जलिं निवेसिअ अज्जं विष्णवेदि । इच्छामि अज्जेण अब्भणुण्णादो देवस्स पव्वदेसरस्स पारलोअं कारेदुम् । तेण अ धारिदपुव्वाइ आहरणाई बम्हाणाणं पडिवादेमि त्ति । ( आर्य ! देवश्चन्द्रश्रीः शीर्षे कमलमुकुलाकारमञ्जलिं निवेश्य आर्यं विज्ञापयति—'इच्छाम्यार्येणाभ्यनुज्ञात देवस्य पर्वतेश्वरस्य पारलौकिकं कर्तुम् । तेन च धारितपूर्वाण्याभरणानि ब्राह्मणानां प्रतिपादयामीति । )
चाणक्य—[ सहर्षमात्मगतम् ] साधु वृषल ! ममैव हृदयेन सह समन्त्र्य मन्दिष्टवानसि । [ प्रकाशम् ] शोणोत्तरे ! उच्यतामस्मद्वचनाद्वृषल—'साधु वत्स ! अभिज्ञ खल्वसि लोकव्यवहाराणां, तदनुष्ठीयतामात्मनोऽभिप्राय । किन्तु पर्वतेश्वरधृतपूर्वाणि गुणवन्ति भूषणानि गुणवद्भ्य एव ब्राह्मणेभ्य प्रतिपादनीयानि । तदह ऽवयमेव परीक्षितगुणान् ब्राह्मणान् प्रेषयामि' ।
प्रतीहारी—जं अज्जो आणवेदि ( यदार्य आज्ञापयति ) [ इति निष्क्रान्ता । ]
चाणक्य—शार्ङ्गरव ! उच्यतामस्मद्वचनाद्विश्वावसुप्रभृतय त्रयो भ्रातर —'वृषलात् प्रतिगृह्याभरणानि भवद्भिरह द्रष्टव्य' इति ।
शिष्य—यदाज्ञापयत्युपाध्याय । [ इति निष्क्रान्त । ]
व्याख्या—आर्य—आर्य !, चन्द्रश्री—चन्द्रस्य श्री इव श्री शोभा यस्य स तथाविध , देव—महाराज चन्द्रगुप्त इति यावत्, कमलमुकुलाकार—कमलस्य पद्मस्य मुकुल कलिका तस्य आकार इव आकार आकृति यस्य स तादृशम्, अञ्जलिं, शीर्षे—शिरसि, निवेश्य—निधाय, आर्यं—भवन्तं, विज्ञापयति—निवेदयति, आर्येण—भवता, अभ्यनुज्ञात—आदिष्ट ( सन् ), देवस्य—राज्ञ , पर्वतेश्वरस्य, पारलौकिक—परलोकसिद्धयर्थं वृत श्राद्धादिक कर्म, कर्तुं—विधातुम्, इच्छामि—वाञ्छामि । तेन—पर्वतेश्वरेण च, धारितपूर्वाणि—
प्रथमोऽङ्कः ६३
धिपसैन्यस्य, मध्यात्, प्रधानतमाः—अतिशयेन मुख्याः, पञ्च, राजानः—भूपाः, परया—उत्कृष्टया, सुहृत्तया—मित्रभावेण, राक्षसम्, अनुवर्तन्ते—अनुसरन्ति।
अन्वयः—कौलूतः चित्रवर्मा, नृसिंहो मलयनरपतिः सिंहनादः, काश्मीरः पुष्कराक्षः, क्षतरिपुमहिमा सैन्धवः सिन्धुषेणः, पृथुतुरगबलः पारसीकाधिराजः मेघाख्यः पञ्चमः, अस्मिन् अहं ध्रुवम् अधुना एषां नामानि लिखामि, चित्रगुप्तः प्रमार्ष्टु ॥२०॥
व्याख्या—कौलूतः—कुलूतदेशाधिपः, चित्रवर्मा नाम, नृसिंहः—नरश्रेष्ठः मलयनरपतिः—मलयगिरिसमीपवर्तिदेशाधिपः, सिंहनादो नाम, काश्मीरः—कश्मीरदेशाधिपः, पुष्कराक्षो नाम, क्षतरिपुमहिमा—क्षतः विनाशितः रिपूणाम् अरीणां महिमा प्रभावः येन तादृशः, सैन्धवः—सिन्धुदेशाधिपतिः, सिन्धुषेणो नाम, पृथुतुरगबलः—प्रभूताश्वादिसैन्यः, पारसीकाधिराजः—पारसीकानां वनायु-देशोद्भवानाम् अधिराजः अधिपतिः, मेघाख्यो नाम पञ्चमः राजेति शेषः। अस्मिन्—भेदपत्रे, अहम्, ध्रुवम्—निश्चितम्, अधुना—सम्प्रति, एषां—पञ्चराज्ञां, नामानि, लिखामि, चित्रगुप्तः—यममन्त्री, प्रमार्ष्टु—क्षालयतु निजलेखपत्रात् उत्सारयतु इति यावत् ॥२०॥
हिन्दी अनुवाद—चाणक्य—यह (आभूषण का समाचार) पत्र का अन्तिम विषय होगा। प्रारंभ का विषय क्या हो? [सोचकर] अच्छा, समझ गया। जैसा कि गुप्तचरो से पता चला है कि म्लेच्छराज की सेना मे से पाँच प्रमुख राजा अत्यन्त मित्र भाव से राक्षस का अनुसरण कर रहे है। वे ये है—
कुलूत (कुल्लू) देश का राजा चित्रवर्मा, मनुष्यो मे श्रेष्ठ मलय-नरेश सिंह-नाद, काश्मीर का राजा पुष्कराक्ष, सिन्धुदेश का राजा सिन्धुषेण और विशाल अश्व-सेना से युक्त पारसीक देश का मेघ नामक राजा पाँचवाँ है। सम्प्रति मै इस (पत्र) में निश्चित रूप से इन (राजाओं) के नाम लिखता हूँ। चित्रगुप्त (अपने यहाँ जीवितों की सूची में इनके नामों को) मिटा दे ॥२०॥
टिप्पणी—प्रणिधिभ्यः—गुप्तचरो से। अत्र अपादाने पञ्चमी। मध्यात्—अत्रापि अपादाने पञ्चमी। कौलूतः—कुलूतानां राजा इति कुलूत + अण् = कौलूतः। आधुनिक कुल्लू प्रदेश को कुलूत माना जाता है। नृसिंहः—श्रेष्ठ
६६ मुद्राराक्षसम्
सिद्धार्थक—[ हर्षपूर्वकं ] आर्य ! अनुगृहीतः हूँ । आर्य आज्ञा दें कि इस सेवक को क्या करना है ।
**टिप्पणी—पूर्वम्—**पत्र का पहला भाग । **अनभिव्यक्तम्—**अस्पष्ट । अभि—वि√अञ्ज्+क्त कर्मणि = अभिव्यक्तम् । न अभिव्यक्तम् अनभिव्यक्तम् नञ्तत्० । श्रोत्रियाक्षराणि पहले मौखिक अध्ययन-अध्यापन होते थे । लिखने की परिपाटी बहुत कम थी । इसलिए वैदिक ब्राह्मण शुद्ध लिखना जानते हुए भी सुन्दर अक्षर नहीं लिखते थे । सिद्धार्थक —यह चाणक्य का गुप्तचर था, जिसे शकटदास की गतिविधि का पता लगाने के लिए नियुक्त किया गया था । **अदत्तवाह्यनामानम्—**जिस पर बाहरी नाम न दिया गया हो अर्थात् बिना पते का । वहिर्भवं वाह्यम् बहिस्+यत्, टिलोप । वाह्यं च तत् नाम वाह्यनाम । अदत्तं वाह्यनाम अस्मिन् इति अदत्तवाह्यनामा, तम् । **उपतिष्ठस्व—**मिलो । उप √स्था+लोट्—स्व । अत्र 'उपाद्देवपूजा'—इति वार्त्तिकेन सङ्गतिकरणार्थे आत्मनेपदम् । **आख्ययेयम्—**कहना चाहिए । आ√ख्या+यत् कर्मणि । **हन्त—**यहाँ हर्षसूचक अव्यय है । 'हन्त हर्षेऽनुकम्पायां वाक्यारम्भाविषादयो ' इत्यमर । यहाँ 'हन्त जित' और 'जयतु आर्य' ऐसा कहने के कारण दूसरा गण्ड है । **अहो—**यहाँ विस्मयसूचक अव्यय है । 'अहो ही च विस्मये' इत्यमर । **अनया मुद्रया—**यह अगूठी राक्षस की है । **आप्तजनानुष्ठेये—**विश्वस्त व्यक्ति के करने योग्य । आप्त प्रत्ययित जन आप्तजन कर्मधारय न० । तेन अनुष्ठेयम् तृती-यातत्०, तस्मिन् । यह 'कर्मणि' का विशेषण है । **व्यापारयितुम्—**नियुक्त करने के लिए । वि—आ√पृ+णिच्+तुमुन् ।
**चाणक्य —**प्रथमं तावत् वध्यस्थानं गत्वा घातका सरोपदक्षिणा-क्षिक्रोचमज्ञा ग्राहयितव्या । ततस्तेषु गृहीतसञ्ज्ञेषु भयापदेशादितस्तत प्रद्रुतेषु शकटदासो वध्यस्थानादपनीय राक्षस प्रापयितव्य । तस्माच्च सुहृत्प्राणपरिरक्षणपरितुष्टात् पारितोषिक ग्राह्यम् । राक्षस एव कञ्चित् काल सेवितव्य । तत प्रत्यासन्नेषु परेषु प्रयोजनमिदमनुष्ठेयम् ।
[ कर्णे एवमिव ]
**व्याख्या—प्रथम—**पूर्वं, तावत् इति वाक्यालङ्कारे, **वध्यस्थान—**प्राणदण्ड-प्रदानभूमि, **गत्वा—**प्राप्य, **घातका —**हिंसका, **सरोपदक्षिणाक्षिक्रोचसज्ञा—**सकोपदक्षिणनयनेपनिमीलनात्मकसङ्केत, **ग्राहयितव्या —**प्रापयितव्या । तत —
• प्रथमोऽङ्कः ६७
पश्चात्, तेषु—घातकेषु, गृहीतसंज्ञेषु—ज्ञातसंकेतेषु, भयापदेशात्—भयव्याजात्, इतस्ततः—चतुर्दिक्षु, प्रद्रुतेषु,—पलायितेषु, ( सत्सु ) शकटदासः—तन्नामक-राक्षसमित्रं, वध्यस्थानात्, अपनीय—पृथक्कृत्य, राक्षसं—नन्दामात्यं, प्रापयितव्यः—नेतव्यः। सुहृत्प्राणपरिरक्षणपरितुष्टात्—सुहृदः मित्रस्य प्राणाः जीवनं तेषां परिरक्षणं सुरक्षा तेन परितुष्टः प्रसन्नः तथाविधात्, तस्मात्—राक्षसाच्च, पारितोषिकं—पुरस्कारः, ग्राह्यम्—स्वीकार्यम्। राक्षस एव, कञ्चित्कालं—कियत्समयं, सेवितव्यः—आश्रयितव्यः। ततः—सेवनानन्तरं, परेषु—शत्रुषु, प्रत्यासन्नेषु—समीपवर्तिषु, ( सत्सु ) इदं, प्रयोजनं—कार्यम्, अनुष्ठेयं—कर्तव्यम्।
हिन्दी अनुवाद—चाणक्य—पहले तो वध्य-भूमि पर वधिकों को क्रोध-पूर्वक ( अपनी ) दाहिनी आँख को दबाने का संकेत समझा दो। उसके बाद उनके संकेत समझ लेने तथा भय के बहाने इधर-उधर भाग जाने पर शकटदास को वध्य-स्थान से ले जाकर राक्षस के पास पहुँचा दो। मित्र के प्राणों की रक्षा से सन्तुष्ट उस ( राक्षस ) से पुरस्कार प्राप्त करो। कुछ समय तक राक्षस की ही सेवा में रहो। अनन्तर शत्रुओ के समीप आ जाने पर यह कार्य करना है। [ कान में इस तरह ]
टिप्पणी—घातकाः—वधिक, जल्लाद। घ्नन्ति इति घातकाः। √हन् + ण्वुल्—अक्, 'हनस्त च' इत्यनेन हकारस्य तकारः। सरोषदक्षिणाक्षिसङ्कोच-संज्ञाम्—क्रोध के साथ दाहिनी आँख को दबाने के इशारे को। रोषेण सह वर्तमानम् इति सरोषम् 'तेन सह'—इति बहुव्रीहि स०। दक्षिणाम् अक्षि दक्षिणाक्षि कर्मधारय स०। तस्य सङ्कोचः षष्ठीतत्०। सरोषं यथा तथा दक्षिणाक्षिसङ्कोचः सुप्सुपा स० । स एव संज्ञा मयूरव्यंसकादित्वात् स०, ताम्। ग्राहयितव्याः—ग्रहण कराने या समझाने चाहिए। √ग्रह् + णिच् + तव्य कर्मणि। अत्र अणि कर्तुः कर्मसंज्ञा। वाक्यबोधस्तु इत्थम्—'घातकाः संज्ञां ग्रहीष्यन्ति = त्वं घातकान् संज्ञां ग्राहयिष्यसि'। तेषु—अत्र भावे सप्तमी। भयापदेशात्—भय के छल से। अत्र ल्यब्लोपे पञ्चमी। भयापदेशमाश्रित्येत्यर्थः। सुहृत्—सुष्ठु हृदयस्य इति सुहृत् प्रादिबहुव्रीहि स०; सुहृद्दुर्हृदौ मित्रामित्रयोः' इत्यनेन हृदयस्य हृद्भावः। पारितोषिकम्—पुरस्कार, इनाम। परितोषः प्रयोजनमस्य इति परितोष + ठञ्—इक।
| ६८ | मुद्राराक्षसम् |
|---|
सिद्धार्थक — जं अज्जो आणवेदि । ( यदार्य आज्ञापयति । )
चाणक्य — शार्ङ्गरव ! शार्ङ्गरव !
[ प्रविश्य ]
शिष्य — उपाध्याय ! आज्ञापय ।
चाणक्य — उच्यतामस्मद्वचनात्कालपाशिको दण्डपाशिकश्च यथा वृषल समाज्ञापयति—'य एष क्षपणको जीवसिद्धिर्नाम राक्षसप्रयुक्तो विषकन्यया पर्वतकं घातितवान् स एनमेव दोषं प्रख्याप्य सन्निकारं नगरात्निर्वास्यताम्' इति ।
शिष्य — तथा । [ इति परिक्रामति । ]
चाणक्य — वत्स ! तिष्ठ तिष्ठ—'योऽयमपर कायस्थ शकटदासो नाम राक्षसप्रयुक्तो नित्यमस्मच्छरीरमभिद्रोग्धुमिह प्रयतते स चाप्येनं दोषं प्रख्याप्य शूलमारोप्यताम् गृहजनश्चास्य वन्धनागार प्रवेश्यताम्' इति ।
शिष्य — तथा । [ इति निष्क्रान्त । ]
व्याख्या—आर्य—भवान्, यत्, आज्ञापयति—आदेशं करोति । अस्मद्वचनात्—मद्वचनानुसारेण, कालपाशिक—एतन्नामकः, दण्डपाशिकश्च—एतन्नामकश्च दूतः, उच्यताम्—कथ्यताम्, यथा, वृषल—चन्द्रगुप्त, समाज्ञापयति—निर्देशं करोति, य एष, क्षपणक—बौद्धसन्यासी, जीवसिद्धिर्नाम—तदाख्यश्चाणक्यप्रणिधिः, राक्षसप्रयुक्त—राक्षसेन नन्दामात्येन प्रयुक्त नियुक्त, ( सन् ) विषकन्यया, पर्वतेश्वर—तदाख्यराजानं, घातितवान्—विनाशितवान्, स—जीवसिद्धिः, एनमेव, दोषम्—अपवादं, प्रख्याप्य—घोषयित्वा, सन्निकारम्—अवज्ञामहितं, नगरात्—पुरा, निर्वास्यताम्—निःसार्यताम् । तिष्ठ तिष्ठ—यावत्पुनराज्ञापयामि तावदास्तामित्यर्थः, योऽयम्, अपर—द्वितीयः, शकटदासो नाम—एतदभिधानः, कायस्थ—चित्रगुप्तसजातीयः, राक्षसप्रयुक्त—नन्दामात्यप्रेरितः, (सन्) नित्यम्—अनवरतम्, अस्मच्छरीर—मन्त्राद्यामिव-वृषलम्, अभिद्रोग्धुं—विनाशयितुम्, इह—अत्र, प्रयतते—उद्योगम् करोति, स चापि—शकटदासोऽपि, एनं, दोषम्—अपराधं,
प्रथमोऽङ्कः ६६।
प्रख्याप्य—संकीर्त्य, -शूलम्—तदाख्यं शस्त्रविशेषम्, आरोप्यताम्—आरोप्यताम्,। अस्य—शकटदासस्य, गृहजनश्च—परिवारश्च, बन्धनागारं—कारागृहे,। प्रवेश्यताम्—निक्षिप्यताम् ।
हिन्दी अनुवाद—सिद्धार्थक—जो आर्य की आज्ञा ।
चाणक्य—शार्ङ्गरव—शार्ङ्गरव !
[ प्रवेश करके ]
शिष्य—आचार्य ! आज्ञा दीजिये ।
चाणक्य—मेरी ओर से कालपाशिक और दण्डपाशिक से कहो कि चन्द्रगुप्त की आज्ञा है कि जीवसिद्धि नामक जिस क्षपणक ने राक्षस की प्रेरणा से विष-कन्या के द्वारा पर्वतक की हत्या करवायी है, उसे इसी अपराध की घोषणा करके अपमान के साथ नगर से निकाल दिया जाय ।
शिष्य—जो आज्ञा । [ चलने लगता है । ]
चाणक्य—वत्स ! ठहरो ठहरो । और जो यह दूसरा शकटदास नाम का कायस्थ राक्षस की प्रेरणा से हमारे शरीर ( चन्द्रगुप्त ) से द्रोह करने के लिये यहाँ ( पाटलिपुत्र में ) सतत प्रयत्न करता रहता है, उसको भी इस अपराध की घोषणा करके शूली पर चढ़ा दिया जाय और उसके परिवार को जेल में डाल दिया जाय ।
शिष्य—जो आज्ञा । [ चला जाता है । ]
टिप्पणी—कालपाशिकः, दण्डपाशिकः—ये दोनो बधिक है। कालपाशः प्रहरणमस्य, दण्डपाशौ प्रहरणो अस्य इति कालपाश, दण्डपाश + ठञ्—इक् । प्रख्याप्य—प्रख्यात या घोषित करके । प्र √ख्या + णिच्, पुक् + क्त्वा—ल्यप् । सनिकारम्—तिरस्कार के साथ । नि √कृ + घञ् भावे = निकारः । तेन सह यथा तथा सनिकारम् क्रियाविशेषणत्वात् द्वितीया । अस्मच्छरीरम्—इसका तात्पर्य चन्द्रगुप्त से है। यहाँ ‘क्रुधद्रुहोरुपसृष्टयोः कर्म’ सूत्र से कर्मसंज्ञा—द्वितीया हुई । अभिद्रोग्धुम्—द्रोह करने के लिये । अभि √द्रुह् + तुमुन् । आरोप्यताम्—आ √रुह् = णिच्, हस्य पः + लोट् कर्मणि—ताम् । गृहजनश्चास्य······प्रवेश्यताम्—इसका फल आगे चौथे अंक में यह दिखाया गया है कि ‘तव च पुत्रदारैः सह समागमः’ ऐसा राक्षस
७० मुद्राराक्षसम्
के कहने पर मलयकेतु के मन मे और 'स्मृत स्यात् पुत्रदारस्य' ऐसा राक्षस के मन मे भी सन्देह उत्पन्न हुआ है ।
चाणक्य—[ चिन्ता नाटयित्वा आत्मगतम ] अपि नाम दुरात्मा राक्षसो गृह्येत ।
सिद्धार्थक—अज्ज ! गहीदो । ( आर्य ! गृहीत ।)
चाणक्य—[ सहर्षमात्मगतम् ] हन्त ! गृहीतो राक्षस । [प्रकाशम्] भद्र ! कोऽय गृहीत ?
सिद्धार्थक—गहीदो मए अज्जस्स सन्देसो, ता गमिस्स अह कज्जसिद्धीए । ( गृहीतो मया आर्यस्य सन्देश । तद्गमिष्याम्यह कार्यसिद्धये । )
चाणक्य—[ साङ्गुलिमुद्र लेखमर्पयित्वा ] गम्यताम् । अस्तु ते कार्यसिद्धि ।
सिद्धार्थक—तह । ( तथा । ) [ इति निष्क्रान्त । ]
[ प्रविश्य ]
शिष्य—उपाध्याय ! कालपाशिको दण्डपाशिकश्च उपाध्याय विज्ञापयत—'इदमनुष्ठीयते देवस्य चन्द्रगुप्तस्य शासनम्' इति ।
चाणक्य—शोभनम् । वत्स ! मणिकारश्रेष्ठिन चन्दनदासमिदानी द्रष्टुमिच्छामि ।
शिष्य—तथा । [ इति निष्क्रम्य चन्दनदासेन सह पुन प्रविश्य ] इत इत श्रेष्ठिन् !
हिन्दी अनुवाद—चाणक्य—[ चिन्ता का अभिनय करके मन में ] क्या दुष्ट राक्षस पकडा जाएगा ?
सिद्धार्थक—आर्य ! पकड लिया ।
चाणक्य—[ हर्ष के साथ मन में ] बस ! ( अब ) राक्षस पकड लिया गया । [ प्रकट ] भद्र ! यह कौन गृहीत हुआ ?
सिद्धार्थक—मैंने आर्य का सदेश ग्रहण कर लिया । इसलिए मैं कार्य सिद्ध करने के लिए जाता हूँ ।
| प्रथमोऽङ्कः | ७१ |
|---|
चाणक्य—[अंगूठी की छाप से युक्त पत्र सौंपकर] जाओ। तुम्हें कार्य में सफलता मिले।
सिद्धार्थक—जो आज्ञा। [चला जाता है।]
[प्रवेश करके]
शिष्य—आचार्य! कालपाशिक और दण्डपाशिक आप से निवेदन करते हैं कि महाराज चन्द्रगुप्त की इस आज्ञा का पालन किया जा रहा है।
चाणक्य—बहुत ठीक। वत्स! अब मैं सेठ जौहरी चन्दनदास को देखना चाहता हूँ।
शिष्य—जो आज्ञा। [निकलकर पुनः चन्दनदास के साथ प्रवेश करके] सेठ जी, इधर से आइए, इधर से।
टिप्पणी—अपि—यहाँ सम्भावनार्थक अव्यय है। 'गर्हासमुच्चयप्रश्नशङ्का-सम्भावनास्वपि' इत्यमरः। गृह्येत—वशीभूतो भवेत्। अत्र सम्भावनायां लिङ्। √ग्रह्+लिङ्—इत कर्मणि = गृह्येत। गृहीतः—यह तीसरा गण्ड या पताकास्थान हैं। सहर्षम्, आत्मगतम्—ये दोनों क्रियाविशेषण हैं। हन्त—यहाँ हर्षसूचक अव्यय है। साङ्गुलिमुद्रम्—अङ्गुलिमुद्रया सह वर्तमानः—साङ्गुलिमुद्रः 'तेन सह'—इति बहुव्रीहि स०, तम्। यह 'लेखम्' का विशेषण है।
चन्दनदासः—[स्वगतम्]
चाणक्कम्मि अअरुणे सहसा सद्दायिदस्स लोअस्स।
णिद्दोसस्स वि सङ्का किं उण मह जाददोसस्स ॥२१॥
ता भणिदा मए घणसेणप्पमुहा णिअणिवेससंठिआ—कदावि चाणक्कहदओ गेहं विचिण्णावेदि। ता अवहिदा णिव्वहध भट्टिणो अमच्चरक्खसस्स घरअणम्। मह दाव जं होदि तं होदु त्ति।
(चाणक्येऽस्मिन्नकरुणे सहसा शब्दायितस्य लोकस्य।
निर्दोषस्यापि शङ्का किं पुनर्मम जातदोषस्य ॥
तस्माद्भणिता [....]खाः निजनिवेशसंस्थिताः-
७२ | मुद्राराक्षसम्
चाणक्यहतको गेहं विचिनोति । तस्मादवहिता निर्वहत भर्तुरमात्यराक्ष- सस्य गृहजनम् । मम तावत् यद्भवति तद्भवतु इति ।) : शिष्य —भो श्रेष्ठिन् ! इत इत । चन्दनदास —अअं आअच्छामि । ( अयमागच्छामि ।)
[ उभौ परिक्रामतः । ]
शिष्य —[ उपसृत्य ] उपाध्याय, अय श्रेष्ठो चन्दनदास । चन्दनदास —जेदु अज्जो । ( जयत्वाय ) । चाणक्य —[ नाट्येनावलोक्य ] श्रेष्ठिन् ! स्वागतम् । इदमासन- मास्यताम् ।
अन्वय —अकरुणे अस्मिन् चाणक्ये सहसा शब्दायितस्य निर्दोषस्यापि लोकस्य शङ्का, जातदोषस्य मम पुन किम् ? ॥२१॥
व्याख्या—अकरुणे—दयाहीने, अस्मिन्, चाणक्ये—कौटिल्ये, (सति तेन) सहसा—अकस्मात्, शब्दायितस्य—आहूतस्य, निर्दोषस्यापि—निरपराधस्यापि, लोकस्य—जनस्य, शङ्का—भय (जायते), जातदोषस्य—(राक्षसपरिवाररक्षणेन) सापराधस्य, मम—मे, पुन किं—का कथा ? ॥२१॥
तस्मात्—अतएव, मया—चन्दनदासेन, निजनिवेशमस्थिता—निजनिवेशे मद्गृहे संस्थिता वृत्तवान्मा, धनसेनप्रमुखा—धनसेन प्रमुख आदि येषा ते धनसेनप्रभृतय, (जना) भणिता—उक्ता, कदापि—कस्मिंश्चिदपि समये, चाणक्यहतक—नीचचाणक्य, गेह—गृह, विचिनोति—निरूपयति । तस्मात्—तत्, भर्तु—स्वामिन, अमात्यराक्षसस्य, गृहजन—परिवारम्, अवहिता—सावधाना मन्त यूयमिति शेष, निर्वहत—अपनयत । मम—मे, यद्भवति—यदस्ति, तद्भवतु—तदस्त्वित्यर्थ ।
हिंदी अनुवाद—चन्दनदास—[ मन में ] इस चाणक्य के दयाहीन होने पर (उसके द्वारा) अचानक बुलाये गये निर्दोष व्यक्ति को भी भय लगता है, अपराध करने वाले मेरा तो फिर क्या कहना ? ॥२१॥ इसीलिए मैंने अपने घर मे रहने वाले धनसेन आदि को बता दिया कि
प्रथमोऽङ्कः ७३
दुष्ट चाणक्य कभी भी ( हमारे ) घर की तलाशी ले सकता है । इसलिए सावधान होकर स्वामी अमात्य राक्षस के परिवार को हटा दो । मेरा तो जो होना है सो हो ।
शिष्य—सेठ जी ! इधर से आइये इधर से ।
चन्दनदास—यह आया ।
[ दोनों घूमते हैं । ]
शिष्य—[ समीप जाकर ] आचार्य ! ये सेठ चन्दनदास हैं ।
चन्दनदास—आर्य की जय हो ।
चाणक्य—[ अभिनय के साथ देखकर ] सेठ जी ! स्वागत है । इस आसन पर बैठिये ।
टिप्पणी—अकरुणे—निर्दय । अविद्यमाना करुणा यस्य स अकरुणः नञ्बहुव्रीहि स०, तस्मिन् । शब्दायितस्य—बुलाये गये । शब्दं कारितः इति शब्द + क्यङ् 'शब्दवैरकलह'—इत्यनेन, ततो हेतुमण्णिजन्तात् कर्मणि क्तः = शब्दायितः, तस्य । यह 'लोकस्य' का विशेषण है । इस पद्य में अर्थापत्ति अलंकार है और आर्या छन्द है ॥२१॥
चाणक्यहतकः—नीच चाणक्य । चाणक्यो हतकः इति चाणक्यहतकः 'कुत्सितानि कुत्सनैः' इति सूत्रेण तत्पुरुषसमासः । विचिनोति—यहाँ 'विचारयति' रूप होना चाहिये; क्योंकि प्राकृत में 'विचिण्णावेदि' यह ण्यन्त प्रयोग आया है । स्वागतम्—यहाँ पूर्ण वाक्य है—'ते स्वागतं भवतु' । आसनम्—आस्यते अस्मिन् इति √आस् + ल्युट्—अन । आस्यताम्—√आस् + लोट्—ताम् भावे ।
चन्दनदासः—[ प्रणम्य ] किं ण जाणादि अज्जो जहा अणुचिदो उवआरो हिअअस्स परिहवादोवि दुःखमुप्पादेदि । ता इहज्जेव उच्चिदाए भूमीए उवविसामि । ( किं न जानात्यार्यः यथानुचित उपचारो हृदयस्य परिभवादपि दुःखमुत्पादयति । तस्मादिहैवोचितायां भूमावुपविशामि ।)
चाणक्यः—भोः श्रेष्ठिन् ! मा मैवम् । उचितेमेवैतत् अस्मद्विधैः भवतः । तदुपविश्यतामासन एव ।
७४ मुद्राराक्षसम्
चन्दनदास—[ स्वगतम् ] उपलक्खिदमणेण दुट्टेण किवि। ( उप- लक्षितमनेन दुष्टेन किमपि । ) [प्रकाशम्] ज अज्जो आणवेदि त्ति। (यदार्य आज्ञापयति ।)[उपविष्ट ।]
चाणक्य—भो श्रेष्ठिन् चन्दनदास ! अपि प्रचीयन्ते संव्यवहाराणां वृद्धिलाभा ।
चन्दनदास—[स्वगतम्] अच्छादरो सकणीओ । ( अत्यादर शङ्क- नीय । [प्रकाशम्] अह इं । अज्जस्स प्पसाएण अखण्डिदा मे वणिज्जा । ( अथ किम् । आर्यस्य प्रसादेन अखण्डिता मे वणिज्या ।)
चाणक्य—न खलु चन्द्रगुप्तदोषा अतिक्रान्तपार्थिवगुणानधुना स्मा- रयन्ति प्रकृती ?
चन्दनदास—[ कर्णौ विधाय ] सन्त पावम् । सारअणिसासमुग्गएण विअ पुण्णिमाचन्देण चन्दसिरिणा अहिअ णन्दन्ति पकिदिओ । ( शान्तं पापम् । शारदनिशासमुद्गतेनेव पूर्णमाचन्द्रेण चन्द्रश्रियाधिक नन्दन्ति प्रकृतय ।)
हिन्दी अनुवाद—चन्दनदास—[प्रणाम करके] क्या आर्य नहीं जानते हैं कि अनुचित सत्कार तिरस्कार से भी बढकर हृदय में दुःख उत्पन्न करता है । इसलिये यही उपयुक्त भूमि पर बैठ जाता हूँ ।
चाणक्य—सेठ जी ! नहीं, ऐसी बात नहीं है । हम जैसे ( व्यक्तियों ) के द्वारा आपका यह ( सत्कार करना ) उचित ही है। इसलिये आसन पर ही बैठिय ।
चन्दनदास—[ मन में ] इस दुष्ट ने कुछ ताड़ लिया है । [ प्रकट ] जो आर्य की आज्ञा ।
चाणक्य—सेठ चन्दनदास जी ! ( आपका ) व्यवसाय तो बढ़ती पर है न ?
चन्दनदास—[ मन में ] बहुत आदर अनिष्टसूचक होता है। [ प्रकट ] और क्या । आपकी कृपा से मेरा व्यवसाय निर्विघ्न चल रहा है ।
प्रथमोऽङ्कः ७५
चाणक्य— क्या इस समय चन्द्रगुप्त के दोष प्रजाओ को बीते हुए राजा ( .नन्द ) के गुणों का स्मरण नही कराते है ?
चन्दनदास— [ कानों को बन्द करके ] पाप शान्त हो। शरद ऋतु की रात्रि में उदित हुए पूर्णिमा के चन्द्र के समान चन्द्रगुप्त से प्रजाएँ अत्यन्त प्रसन्न है।
**टिप्पणी—उपचार:—**सम्मान, सत्कार। उपचर्यते अनेन इति उप√चर् + घञ् करणे। परिभवात्—तिरस्कार से। परि√भू + अप् भावे = 'परिभवः, तस्मात्। अपादाने पञ्चमी। अस्मद्विधै:—मादृशैः जनैः, भवतः सम्बन्धे, एतत्—आसनदानम्, उचितमेव—उपयुक्तमेव। 'उचितमेव' की जगह 'सम्भावितमेव' इस पाठान्तर की व्याख्या है—'योग्यतया अध्यवसितमेव' अर्थात् वस्तुतः आप हमारे सामने आसन पर बैठने के अधिकारी हैं। यहाँ गूढ़ अर्थ है—'इदं परिभवकरणं सम्भावितमेव' किन्तु बाह्य अर्थ होता है—'इदम् उपचारकरणं सम्भावितमेव'। अपि—यहाँ प्रश्नवाची अव्यय है। प्रचीयन्ते—बढ़ रहे है। प्र√चि + लट्—अन्ते कर्मकर्तरि। संव्यवहाराणाम्—क्रयविक्रयात्मकवाणिज्यानाम्। खरीद-बिक्री के व्यापार मे। सम्—वि—अव√हृ + घञ् भावे = संव्यवहाराः, तेषाम्। वृद्धिलाभा:—सूद और लाभ (व्यापार में)। वणिज्या—वणिक्व्यापार। 'वाणिज्यं तु वणिज्या स्यात्' इत्यमरः। वणिजः कर्म भावो वा इति वणिज्या वणिज् + यत् भावे + टाप् स्त्रियाम्। 'ब्राह्मणादित्वात् ष्यञ् वाणिज्यम्' इति दीक्षितः। माधवस्तु 'वणिज्याशब्दः स्वभावात् स्त्रीलिंगः। भावे एव चात्र प्रत्ययो न तु कर्मणि' इत्याह। अतिक्रान्तपार्थिवगुणान्—राजाओ के बीते हुए गुणों को। पार्थिवानां गुणाः षष्ठीतत्०। अतिक्रान्ताः पार्थिवगुणाः कर्मधारय स०, तान्। प्रकृतयः अतिक्रान्तपार्थिवगुणान् स्मरन्ति—चन्द्रगुप्तदोषाः प्रकृतीः अतिक्रान्तपार्थिवगुणान् स्मारयन्ति। पिधाय—बंद करके। अपि√धा+क्त्वा—ल्यप् 'वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः। आपं चैव हलन्तानां यथा वाचा निशा दिशा ।।' इति कारिकाबलात् अपेः अकारलोपः। शान्तं पापम्—नाटक में न सुनने योग्य बात के सुनने पर इसका प्रयोग किया जाता है—'शान्तं पापमनिर्देश्ये'। शारदनिशासमुद्गतेन—शरद् ऋतु की रात्रि में उदित। शरदि भवा शारदी शरद् + अण् + ङीप् स्त्रियाम्। शारदी निशा
७८ मुद्राराक्षसम्
चन्दनदास —अज्ज ! अलीअ एदं । केणावि अणभिण्णेण अज्जस्स णिवेदितम् । ( आर्य ! अलोकमेतत् । केनाप्यनभिज्ञेन आर्यस्य निवेदितम् । )
चाणक्य —भो श्रेष्ठिन् ! अलमाशङ्कया । भीता पूर्वराजपुरुषा पौराणामनिच्छतामपि गृहेषु गृहजन निक्षिप्य देशान्तर व्रजन्ति । ततस्तत्प्रच्छादन दोषमुत्पादयति ।
चन्दनदास —एव णेदम् । तम्मि समए आमि अह्मघरे अमच्चरक्खसस्म घरअणो त्ति । ( एव नु इदम् । तस्मिन् समये आसीदस्मद्गृहे अमात्यराक्षसस्य गृहजन इति । )
चाणक्य —पूर्वमनृतमिदानीमासीदिति परस्परविरोधिनी वचने ।
चन्दनदास —एत्तिअ ज्जेव अत्थि मे वाआच्छलम् । ( एतावदेवास्ति मे वाक्छलम् ।)
चाणक्य —भो श्रेष्ठिन् ! चन्द्रगुप्ते राजनि अपरिग्रहश्छलानाम् । तत् समर्पय राक्षसस्य गृहजनम् । अच्छल भवतु भवत ।
हिन्दी अनुवाद—चाणक्य—सबसे पहले तो आप ही ( हैं ) ।
चन्दनदास—[ कानों को बन्द करके ] पाप शान्त हो, पाप शान्त हो । तिनको का आग से कैसा विरोध ?
चाणक्य—यह ऐसा विरोध है कि आप आज भी राजा के अहित करने वाले अमात्यराक्षस के परिवार को अपने घर मे लाकर रख रहे हैं ।
चन्दनदास—आर्य ! यह मिथ्या है । किसी अनजान ( व्यक्ति ) ने आप से कह दिया है ।
चाणक्य—सेठजी ! डरिए मत । डरे हुए पहले के राजसेवक न चाहते हुए भी नागरिकों के घरों म ( अपन ) परिवारों को रखकर दूसरे देश मे चले गए हैं । इसलिए उनको छिपाना अपराध ( उत्पन्न करता ) है ।
चन्दनदास—यह ऐसा है । ( कि ) उस समय हमारे घर मे अमात्यराक्षस का परिवार था ।
प्रथमोऽङ्कः ७६
चाणक्य—पहले ( यह ) मिथ्या ( है ) और अब 'था' ये बातें परस्पर विरोधी हैं ।
चन्दनदास—इतना ही मेरी बातों मे छल ( दोष ) है ।
चाणक्य—सेठजी ! चन्द्रगुप्त के राजा रहते छलो की गुंजाइश नही है । इसलिए राक्षस के परिवार को सौप दीजिए । ( ताकि ) आपके छल का पूर्ण अभाव हो जाय ।
टिप्पणी—राजापथ्यकारिणः—भूपानिष्टविधायिनः । राजा का अनिष्ट करने वाले । पथोऽनपेतं पथ्यम् पथिन् + यत् । न पथ्यम् अपथ्यम् नञ्तत्० । राज्ञः अपथ्यम् षष्ठीतत्० । तत् करोति तच्छीलः राजापथ्य √ कृ + णिनि = राजापथ्यकारी, तस्य । अभिनीय—लाकर इस अर्थ मे इसका प्रयोग क्वाचित्क है । वैसे इसका अर्थ होता है नाट्य या अभिनय करके । अभि √ नी + क्त्वा—ल्यप् । अलीकम्—मिथ्या । आर्यस्य निवेदितम्—यहाँ शेषत्व की विवक्षा से षष्ठी हुई है; अन्यथा चतुर्थी होनी चाहिए था । अलमाशङ्कया—अत्र 'गम्यमानापि क्रिया कारकविभक्तौ प्रयोजिका' इत्यनेन तृतीया । आशङ्कया = भयेन, अलम् = व्यर्थम् असाध्यमिति यावत् । पूर्वराजपुरुषाः—पहले के राजाओं के कर्मचारी, पूर्वाश्च ते राजानः पूर्वराजाः कर्मधारय स०, समासान्त टच् । तेषा पुरुषाः षष्ठीतत्० । अनिच्छताम्—इससे यह सकेत किया गया है कि इसमे आपका दोष नही है, क्योकि आपके न चाहते हुए भी राक्षस ने अपने परिवार को आपके घर में रख छोड़ा । अतएव भयभीत होने की कोई आवश्यकता नही है । तत्प्रच्छादनम्—तस्य गृहजनस्य प्रच्छादनम् गोपनम् । इससे यह बताया गया है कि छिपाना आपका कार्य है, इसलिए दोष है । परस्परविरोधिनी—एक दूसरे के विरोधी ( वचन ) । क्योकि पहले तो चन्दनदास ने कहा कि हमारे घर में अमात्य राक्षस के परिवार के रहने की सूचना ही गलत है और अब कहता है कि पहले हमारे घर में अमात्य का परिवार था । इन दोनों बातो मे स्पष्टतः विरोध है । परेण परेण विरुध्यते इति परस्परेण विरुध्यते = परस्पर-वि √ रुध् + णिनि साधुकारिणि कर्तरि । परस्पर शब्द की सिद्धि इस प्रकार की जाती है—'कर्मव्यतिहारे सर्वनाम्नो द्वे वाच्ये समासवच्च बहुलम्' इत्यनेन परशब्दस्य द्वित्वम्, बहुलग्रहणात् समासवद्भावस्य अभावः, 'असमासवद्भावे पूर्वपदस्य सुपः
८० मुद्राराक्षसम्
मुर्वत्तञ्च' इत्यनेन नादेश । वाक्छलम्—वाणी का छल या बहाना। वाचि छलम् सुप्सुपान०। इसका लक्षण यह है—'अविशेषाभिहितेऽर्थे वक्तुरभिप्रायादर्थान्तरकल्पन वाक्छलम्' न्याय सूत्र। अच्छलम्—छलस्य अभाव इति 'अव्यय विभक्ति'—इत्यादि सूत्रेण अव्ययीभाव स०।
चन्दनदास — अज्ज ! ण विण्णवेमि तस्सिं समए आसि अह्माघर अमच्चरक्खसस्स घरअणो त्ति । (आर्य ! ननु विज्ञापयामि तस्मिन् समये जानीदस्मद्गृहे अमात्यराक्षसस्य गृहजन इति ।)
चाणक्य — अथेेदानीं क्व गत ?
चन्दनदास — ण जाणामि । ( न जानामि । )
चाणक्य — [ स्मित कृत्वा ] कथ न ज्ञायते नाम ? भो श्रेष्ठिन् ! शिरसि भयमतिदूरे तत्प्रतीकार ।
चन्दनदास — [ स्वगतम ]
उवरि घण घणरडिअ दूर दइदा किमेददावडिअम् । हिमवदि दिव्वोमहिओ सीसे सप्पो समाविट्ठो ॥२२॥ (उपरि घन घनरटित दूरे दयिता किमेतदापतितम् । हिमवति दिव्याौषधय शीर्षे सर्प समाविष्ट ॥)
व्याख्या—स्मित कृत्वा—ईषद्विहस्य । कथ—केन प्रकारेण, न ज्ञायते—न अवगम्यते । भो श्रेष्ठिन्—चन्दनदास !, शिरसि—मस्तके भयम्—भीति ( अस्ति ), तत्प्रतीकार —तस्य भयस्य प्रतीकार निवृत्त्युपाय, अतिदूरे — विप्रकृष्ट ( वर्तते )।
अन्वय — एतत् किम् आपतितम् ? उपरि घन घनरटितम् दूरे दयिता, हिमवति दिव्योपधय शीर्षे सर्प समाविष्टः ॥२२॥
व्याख्या—एतत्—इदम्, किम्, आपतित—प्राप्तम् ? ( अनेन व्याकुलीभूतोऽह कर्तव्य न स्थिरीकरोमि । प्रवासस्थस्य जनस्य यथा ) उपरि—मस्तकाग्रे, घन—गम्भीर, घनरटित—मेघगर्जन, दूरे—असन्निहितप्रदेशे, दयिता—प्रिया ( एतदपि `तयैव । यद्वा) हिमवति—हिमालये, दिव्योपधय —उत्तमभेषजानि,
•प्रथमोऽङ्कः• ८१
शीर्षे—शिरसि, सर्पः—अहिः, समाविष्टः—दंशनार्थं समु पागतः (इति यादृशम् एतदपि तादृशमेव ) ॥२२॥
**हिन्दी अनुवाद—चन्दनदास—**आर्य ! मैं निवेदन कर रहा हूँ कि उस समय हमारे घर मे अमात्य राक्षस का परिवार था ।
**चाणक्य—**अव इस समय कहाँ गया ?
**चन्दनदास—**नही जानता हूँ ।
चाणक्य—[ मुस्कुराकर ] क्यों नहीं जानते हैं ? सेठ जी ! सिर पर भय ओर उससे बचने का उपाय अत्यन्त दूर !
चन्दनदास—[ मन में ]
यह क्या आ पड़ा ? ( यह तो ऐसा ही है कि जैसा किसी परदेशी के सिर के ) ऊपर तो मेघों का गंभीर गर्जन हो रहा है और प्रिया पड़ी है दूर में ( अथवा ) साँप सिर पर चढ़ आया है और दिव्य ओषधियां हिमालय पर हैं ॥२२॥
**टिप्पणी—शिरसि भयम्......**यहाँ तात्पर्य यह है कि आपको भय है राजा से, जो बिलकुल नजदीक है और प्रतीकार की आशा है राक्षस से, जो अत्यन्त दूर है । यहाँ अप्रस्तुत सिर पर भय के प्रतिपादन से प्रस्तुत समीपवर्ती राजदण्डरूप अर्थ के वोध होने के कारण अप्रस्तुतप्रशंसा अलंकार है । उपरि घनं घनरटितं......इस पद्य में अप्रस्तुतप्रशंसा अलंकार दृष्टान्त अलंकार से संकीर्ण है ॥२२॥
**चाणक्यः—**अन्यच्च । नन्दमिव विष्णुगुप्तः—[ इत्यर्धोक्ते लज्जां नाटयित्वा ] चन्द्रगुप्तममात्यराक्षसः समुच्छेत्स्यतीति मैवं मंस्थाः ।
पश्य—
विक्रान्तैर्नयशालिभिः सुसचिवैः श्रीवक्रणासादिभिः
नन्दे जीवति या तदा न गमिता स्थैर्यं चलन्ती मुहुः ।
तामेकत्वमुपागतां द्युतिमिव प्रह्लादयन्ती जगत् ।
कश्चन्द्रादिव चन्द्रगुप्तनृपतेः कर्तुं व्यवस्येत् पृथक् ॥२३॥
मु० रा०—६
८२ मुद्राराक्षसम्
अपि च । [ ‘आस्वादितद्विरदशोणितशोणशोभाम्’—इति पूर्वोक्तं पठति । ]
चन्दनदास — [ स्वगतम् [ फलेण संवादिदं से विकत्थियदम् । ( फलेन संवादितमस्य विकत्थितम् । )
[ नेपथ्ये कलकलः । ]
व्याख्या—अन्यच्च—अपि च । विष्णुगुप्तः—चाणक्यः, नन्दमिव—यथा नव नन्दान् ( हतवान् तथैव चन्द्रगुप्तः त्वामित्याशयः । ) इति—इयति, अर्धोक्ते—अर्धकथने, लज्जा—त्रपा, नाटयित्वा—अभिनय । अमात्यराक्षस, चन्द्रगुप्तम्—वृषल, समुच्छेत्स्यति—समुन्मूलयिष्यति, इति मैवं मंस्थाः—मैवं जानीहि ।
अन्वय—तदा नन्दे जीवति मुहुः चलन्ती या श्रीः विक्रान्तैः नयशा- लिभिः वक्रणासादिभिः सुसचिवैः स्थैर्यं न गमिता, द्युतिमिव एकत्रमुपा- गता जगत् प्रह्लादयन्ती ताम् चन्द्रादिव चन्द्रगुप्तनृपतेः पृथक् कर्तुं कः व्यवस्येत् ॥ २३ ॥
व्याख्या—तदा—तस्मिन् समये, नन्दे—तदाख्ये राजनि, जीवति—विद्यमाने सति, मुहुः—वारंवार, चलन्ती—कम्पमाना, या, श्रीः—राजलक्ष्मीः, विक्रान्तैः—शूरैः, नयशालिभिः—नीतिज्ञैः, वक्रणासादिभिः—वक्रणासप्रभृतिभिः, सुसचिवैः—सुमन्त्रिभिः, स्थैर्य—स्थिरता, न गमिता—न प्रापिता, द्युतिमिव—कान्तिमिव, एकत्रमुपागताम्—अभिन्नतामापन्नाम्, जगत्—लोकं, प्रह्लादयन्तीम्—आनन्दयन्तीम्, ताम्—श्रियं, चन्द्रादिव—इन्दोरिव, चन्द्रगुप्तनृपतेः—मौर्यभूपतेः, पृथक्, कर्तुं—वियोजयितुं, कः व्यवस्येत्—यतेत न कोऽपीत्यर्थः ॥२३॥
अस्य—चाणक्यस्य, विकत्थितम्—आत्मश्लाघा, फलेन—नन्दविनाशरूपेण, ( सह ) संवादितम्—सामञ्जस्यं प्रापितम् ।
हिन्दी अनुवाद—चाणक्य—और भी । नन्द को चाणक्य की तरह [ ऐसा आधा कहने पर लज्जा का अभिनय करके ] चन्द्रगुप्त को अमात्य राक्षस समूल नष्ट कर देगा—ऐसा मत समझो । देखो—
प्रथमोऽङ्कः ८३
उस समय नन्द के जीवित रहने पर बार-बार चलायमान होती हुई जो राज्यलक्ष्मी पराक्रमी एवं नीतिनिपुण वक्रणास आदि अच्छे मंत्रियों के द्वारा स्थिरता को प्राप्त नही कराई गई और जो (अब) ( चन्द्रिका पक्ष में चन्द्रमा से और राज्यलक्ष्मी पक्ष में चन्द्रगुप्त से ) अभिन्नता को प्राप्त एवम् संसार को आनन्दित करने वाली है, उसको चन्द्रमा के समान राजा चन्द्रगुप्त से अलग करने का प्रयत्न कौन करेगा ? ॥२३॥
और भी। ['आस्वादितद्विरदशोणितशोणशोभाम्'—इस पूर्वोक्त (श्लोक) को पढ़ता है।]
चन्दनदास—[ मन में ] इसकी आत्मप्रशंसा ( दंभ ) तो ( नन्दविनाश-रूप ) फल के अनुरूप ( शोभित होता ) है।
[ नेपथ्य में कोलाहल मचता है। ]
टिप्पणी—मा मस्थाः—मत समझो। √मन् + लुङ्—थास् 'माङि लुङ्' इत्यनेन भविष्यति लुङ्, 'न माङ्योगे' इत्यनेन अडागमप्रतिषेधः। इसका कर्ता 'त्वम्' लुप्त है। नन्दे—नवनन्देषु। अत्र जातावेकवचनम्। विक्रान्तैः—पराक्रमी। वि√क्रम् + क्त वर्तमाने। यह 'सुसचिवैः' का विशेषण है। नय-शालिभिः—नीतिज्ञ। नीयते अनेन इति √नी + अच् करणे बाहुलकात् अथवा नयति राजानम् इति √नी + अच् कर्तरि = नयः = नीतिः। तेन शालन्ते शोभन्ते इति नयशालिनः नय √शाल् + णिनि 'सुप्याजातौ'··· इत्यनेन। तैः। यह भी 'सुसचिवैः' का विशेषण है। वक्रणासादिभिः—वक्रणास आदि—वक्रा नासा यस्य स वक्रणासः बहुव्रीहि स०; 'अज्नासिकायाः संज्ञायाम्'—इत्यनेन अच्प्रत्ययः नासिकायाः नसादेशश्च, ततः 'पूर्वपदात् संज्ञायामगः' इत्यनेन णत्वम्। वक्रणासः आदौ येषां ते वक्रणासादयः; तैः। यह भी 'सुसचिवैः' का विशेषण है। चन्द्रात्—अत्र 'पृथग्विनानाना'—इति सूत्रेण पृथकयोगे पञ्चमी अथवा 'ध्रुवमपाये'—इत्यनेन अपादाने पञ्चमी। चन्द्रगुप्तनृपतेः—चन्द्रगुप्तश्चासौ नृपतिश्च कर्मधारय स०, तस्मात्। यहाँ भी 'चन्द्रात्' की तरह पञ्चमी हुई है। इस श्लोक मे श्रौती पूर्णोपमा अलंकार है। लाटी रीति है, ओज गुण है, वीर रस है और शार्दूलविक्रीडित छन्द है। छन्द का लक्षण श्लोक १२ में दे०। व्यवस्येत्—यत्न करे। वि—अव √सो + लिङ्—यात् सम्भावनायाम्। संवादितम्—