मुद्राराक्षसम् (सटीक संस्कृत नाटक)
Mudrarakshasam Natakam with Hindi Commentary
महाकवि विशाखदत्त द्वारा
पृष्ठ 189, कुल 488 में से
संदर्भ में पढ़ें६२ मुद्राराक्षसम्
माधव इति गूढार्थ । यह भी बिन्दु है । सविषादम्—विषादेन सह इति सविषादम् यथा स्यात् तथा । क्रियाविशेषणमेतत् । हा धिक् कष्टम्—हाय कष्ट को धिक्कार है अर्थात् महान् दुःख की बात है । तन्त्रम्—राष्ट्र । 'तन्त्रं सिद्धान्ते राष्ट्रे च परिच्छदप्रधानयो' इति हैम । आकुलीभूतम्—अस्त व्यस्त या व्याकुल हो गया । आकुल + च्वि, इत्व, दीर्घ √भू + क्त । प्रथमतराम्—बहुत पहले । अतिशयेन प्रथम यथा तथा इति प्रथम + तरप् ।
चाणक्य —[स्वगतम्] सर्वेषामेव शिवाः पन्थानः सन्तु । [ प्रकाशम् ] वत्स ! अलं विषादेन । पश्य—
ये याताः किमपि प्रधार्य हृदये पूर्वं गता एव ते ये तिष्ठन्ति भवन्तु तेऽपि गमने कामं प्रकामोद्यमाः । एका केवलमर्थसाधनविधौ सेनाशतेभ्योऽधिका नन्दोन्मूलनदृष्टवीर्यमहिमा बुद्धिस्तु मा गान्मम ॥२६॥
अन्वय —ये हृदये किमपि प्रधार्य याताः ते पूर्वम् एव गताः । ये तिष्ठन्ति ते अपि कामं गमने प्रकामोद्यमाः भवन्तु । अर्थसाधनविधौ एका सेना-शतेभ्यः अधिका नन्दोन्मूलनदृष्टवीर्यमहिमा मम बुद्धिस्तु केवलं मा गात् ॥२६॥
व्याख्या—ये—भागुरायणप्रभृतयः जनाः, हृदये—मनसि, किमपि—अनभिव्यक्तस्वरूपं वस्तु, प्रधार्य—अनुध्याय, याताः —( मलयसमीपं ) गताः, ते, पूर्वं—प्रागेव, गताः । ये—तदतिरिक्ता जनाः, तिष्ठन्ति—इह वर्तन्ते, ते अपि, कामं—यथेच्छं, गमने—इतः प्रयाणे, प्रकामोद्यमाः प्रयत्नवन्तः, भवन्तु—सन्तु। अर्थसाधनविधौ—प्रयोजनसिद्धौ, एका—असहाया, सेनाशतेभ्यः —बहुसेनाभ्यः, अधिका—बहुला, नन्दोन्मूलनदृष्टवीर्यमहिमा—नन्दानाम् उन्मूलने उत्पादने दृष्टं अवलोकितं वीर्यमहिमा प्रभावातिशयः यस्याः तादृशी, मम—मे, बुद्धिः —धीः, तु, केवलं, मा गात्—न गच्छतु ॥२६॥
हिन्दी अनुवाद—चाणक्य—[मन में] सभी के मार्ग कल्याणकारी हों । [प्रकट] वत्स ! दुःख करना व्यर्थ है । देखो—
जो मन में कुछ सोचकर गये हैं, वे पहले ही चले गए । जो ठहरे हुए हैं, वे भी स्वेच्छानुसार जाने के लिए प्रयत्नशील हों । प्रयोजन को सिद्ध करने में सैकड़ों