मुद्राराक्षसम् (सटीक संस्कृत नाटक)
Mudrarakshasam Natakam with Hindi Commentary
महाकवि विशाखदत्त द्वारा
पृष्ठ 190, कुल 488 में से
संदर्भ में पढ़ेंप्रथमोऽङ्कः ६३
सेनाओं से अधिक तथा नन्दो के विनाश करने में अतिशय प्रभाव दिखाने वाली मेरी बुद्धि केवल न जाय ॥२६॥
टिप्पणी—शिवाः—कल्याणयुक्त । शिवं कल्याणम् अस्ति एषाम् इति शिव+अच् अर्शआदित्वात् । किमपि—( मेरा इष्ट या अनिष्ट ) कुछ भी । प्रकामोद्यमाः—अत्यन्त उद्योगशील । प्रकामः उद्यमः येषां ते प्रकामोद्यमाः बहुव्रीहि स० । अर्थसाधनविधौ—प्रयोजन सिद्ध करने के विषय मे । अर्थस्य साधनं निष्पादनं तस्य विधिः, तस्मिन् । सेनाशतेभ्यः—सेनानां शतानि, तेभ्यः । अधिकयोगे पञ्चमी । यहाँ शत शब्द बहुत्ववाचक है; अन्यथा 'विंशत्याद्याः सदैकत्वे' इस कोशप्रामाण्य से एकवचन हो जाता । नन्दोन्मूलनदृष्टवीर्यमहिमा—नन्दों के उन्मूलन में जिसके पराक्रम का माहात्म्य देखा जा चुका है । यहाँ 'महिमा' मे 'डाबुभाभ्यामन्यतरस्याम् सूत्र से डाप् प्रत्यय हुआ है । मा गात्—अत्र 'माङि लुङ्' इत्यनेन लुङ्लकारः तथा 'न माङ्योगे' इत्यनेन अडागमप्रतिषेधः । इस श्लोक मे काव्यलिग तथा व्यतिरेक अलंकारो की संसृष्टि है । इसमे लाटी रीति है, ओज गुण है और शार्दूलविक्रीडित छन्द है। छन्द का लक्षण १, १२ में देखिए ॥२६॥
[ उत्थाय प्रत्यक्षवदाकाशे लक्ष्यं बद्ध्वा ] एष खलु दुरात्मनो भद्रभटप्रभृतीनाहरामि । [आत्मगतम्] दुरात्मन् राक्षस ! क्वेदानीं यास्यसि ? एषोऽहमचिरात् भवन्तं,—
स्वच्छन्दमेकचरमुज्ज्वलदानशक्ति- मुत्सेकिना मदबलेन विगाहमानम् । बुद्ध्या निगृह्य वृषलस्य कृते क्रियाया- मारण्यकं गजमिव प्रगुणीकरोमि ॥२७॥
[ इति निष्क्रान्ताः सर्वे । ]
॥ इति मुद्रालाभो नाम प्रथमोऽङ्कः ॥
अन्वयः—उज्ज्वलदानशक्तिम् एकचरम् उत्सेकिना मदबलेन स्वच्छन्दं विगाहमानम् आरण्यकं गजमिव बुद्ध्या निगृह्य वृषलस्य कृते क्रियायां प्रगुणी-करोमि ॥२७॥