मुद्राराक्षसम् (सटीक संस्कृत नाटक)
Mudrarakshasam Natakam with Hindi Commentary
महाकवि विशाखदत्त द्वारा
पृष्ठ 214, कुल 488 में से
संदर्भ में पढ़ेंद्वितीयोऽङ्कः ११६
इस पद्य में अप्रस्तुतप्रशंसा अलंकार है, वैदर्भी रीति है, प्रसाद गुण है और आर्या छन्द है । आर्या का लक्षण १,५ में देखिए ॥ ११ ॥
राक्षसः— [ आत्मगतम् ] अये ! कुसुमपुरवृत्तान्तज्ञः अहं भवत्प्रणिधिश्चेति गाथार्थः । आः कार्यव्यग्रत्वात् मनसः प्रभूतत्वाच्च प्रणिधीनां विस्मृतम्, इदानीं स्मृतिरुपलब्धा । व्यक्तम् आहितुण्डिकच्छद्मना कुसुमपुरादागतेन विराधगुप्तेनानेन भवितव्यम् । [ प्रकाशम् ] प्रियंवदक ! प्रवेशय एनं, सुकविः एषः श्रोतव्यमस्मात् सुभाषितम् ।
प्रियंवदकः— जं अज्जो आणवेदि त्ति । [ आहितुण्डिकमुपसृत्य ] उपसप्पदु अज्जो । ( यदार्य आज्ञापयतीति । उपसर्पत्वार्यः ) ।
आहितुण्डिकः— [ नाट्येनोपसृत्यावलोक्य च संस्कृतमाश्रित्य स्वगतम् । ]
अये ! अयममात्यराक्षसस्तिष्ठति । स एषः—
वामां बाहुलतां निवेश्य शिथिलं कण्ठे निवृत्तानना
स्कन्धे दक्षिणया बलान्निहितयाप्यङ्के पतन्त्या मुहुः ।
गाढालिङ्गनसङ्गपीडितमुखं यस्योद्यमाशङ्किनी
मौर्यस्योरसि नाधुनाऽपि कुरुते वामेतरं श्रीः स्तनम् ॥ १२ ॥
व्याख्या— कुसुमपुरवृत्तान्तज्ञः—पाटलिपुत्रवृत्तान्तज्ञाता, अहं, भवत्प्रणिधिः—भवतः तव प्रणिधिः दूतः, इति, गाथार्थः—गाथायाः आर्याछन्दसा परिणद्धाया गीतिकाया अर्थः तात्पर्यम् । मनसः—चित्तस्य, कार्यव्यग्रत्वात्—कार्येषु कृत्येषु व्यग्रः आकुलः तस्य भावः तस्मात्, प्रणिधीना—चराणां, प्रभूतत्वाच्च—आधिक्याच्च, विस्मृतम् । इदानीम्—अधुना, स्मृतिः—स्मरणम्, उपलब्धा—प्राप्ता । व्यक्तम्—स्पष्टम्, आहितुण्डिकच्छद्मना—व्यालोपजीविमिषेण, विराधगुप्तेन, अनेन—चरेण, भवितव्यम्—भाव्यम् । एषः, सुकविः—सुपण्डितः, अस्मात्—सुकवेः, सुभाषितं—सुवाक्यं, श्रोतव्यम्—आकर्णनीयम् ।
अन्वयः— यस्य उद्यमाशङ्किनी श्रीः वामां बाहुलतां कण्ठे शिथिलं निवेश्य निवृत्तानना बलात् स्कन्धे निहितया अपि मुहुः अङ्के पतन्त्या दक्षिणया गाढालिङ्गनसङ्गपीडितमुखं वामेतरं स्तनम् अधुनापि मौर्यस्य उरसि न कुरुते ॥ १२॥
व्याख्या— यस्य—राक्षसस्य, उद्यमाशङ्किनी—उद्योगभीता, ( सती ),