मुद्राराक्षसम् (सटीक संस्कृत नाटक)
Mudrarakshasam Natakam with Hindi Commentary
महाकवि विशाखदत्त द्वारा
पृष्ठ 238, कुल 488 में से
संदर्भ में पढ़ेंद्वितीयोऽङ्कः १४७
तथा । क्रियाविशेषणमेतत् । अन्विष्य—संगृह्य । निगृहीतवान्—दण्डितवान् । युष्मदीयान्—युष्माकम् इमे इति युष्मद्+छ—ईय=युष्मदीयाः, तान् । आप्तपुरुषान्—विश्वस्तजनान् । निष्परिग्रहम्—विषयभोग या परिवार से रहित । परिगृह्यते इति परि√ग्रह्+अप् कर्मणि=परिग्रहः । निरस्तः परिग्रहः अनेन इति निष्परिग्रहः बहुव्रीहि स०, ‘इदुदुपधस्य’ इत्यनेन षत्वम् । अर्धराज्य-हरः—आधा राज्य पाने वाला । अर्धञ्च तत् राज्यम् अर्धराज्यम् कर्मधारय स० । हरतीति हरः √हृ+अच् कर्तरि । अर्धराज्यस्य हरः षष्ठीतत् ० । बहुफलताम्—बहूनि फलानि यस्य स बहुफलः बहुव्रीहि स० । तस्य भावः तत्ता, ताम् । अत्र चाणक्यस्य नीतिबीजेन फलत्रय समुत्पादितम्—(१) अर्धराज्यहरः घातितः, (२) अयशः परिहृतम्, (३) अयशः अस्मासु पातितम् । यस्य तव—यहाँ ‘यस्य’ का अन्वय ठीक नही बैठ रहा है । अतएव इसके पूर्व चूर्णाक के पद—साधु कौटिल्य ! साधु—का अध्याहार कर लेना चाहिए । इस श्लोक में काव्यलिंग अलंकार है, वैदर्भी रीति है, प्रसाद गुण है और आर्या छन्द है । आर्या का लक्षण १, ५ में देखिए ॥ १६ ॥
[ प्रकाशम् ] ततस्ततः ?
विराधगुप्तः—ततश्चन्द्रगुप्तशरीरमभिद्रोग्धुमनेन व्यापारिता दारु-वर्मादय इति नगरे प्रख्याप्य शकटदासः शूलमारोपितः ।
राक्षसः—[ सास्रम् ] हा सखे ! शकटदास ! अयुक्तस्तवायमीदृशो मृत्युः !! अथवा, स्वाम्यर्थमुपरतो न शोच्यस्त्वमसि; वयमेवात्र शोच्याः,—ये नन्दकुलविनाशेऽपि जीवितुमिच्छामः ।
विराधगुप्तः—अमात्य ! स्वाम्यर्थ एव साधयितव्य इति प्रयतसे ।
राक्षसः—सखे !—
अस्माभिरमुमेवार्थमालम्ब्य न जिजीविषाम् ।
परलोकगतो देवः कृतघ्नैर्नानुगम्यते ॥ २० ॥
अन्वयः—अमुमेव अर्थं न जिजीविषाम् आलम्ब्य कृतघ्नैः अस्माभिः परलोक-गतो देवो न अनुगम्यते ॥ २० ॥
व्याख्या—अमुमेव—उक्तरूपमेव, अर्थ—प्रयोजनम्, न जिजीविषाम्—