भारतकोश
मुद्राराक्षसम् (सटीक संस्कृत नाटक)

मुद्राराक्षसम् (सटीक संस्कृत नाटक)

Mudrarakshasam Natakam with Hindi Commentary

महाकवि विशाखदत्त द्वारा

DevanagariSanskritpublished488 पृष्ठ

पृष्ठ 238, कुल 488 में से

संदर्भ में पढ़ें
पृष्ठ 238

द्वितीयोऽङ्कः १४७

तथा । क्रियाविशेषणमेतत् । अन्विष्य—संगृह्य । निगृहीतवान्—दण्डितवान् । युष्मदीयान्—युष्माकम् इमे इति युष्मद्+छ—ईय=युष्मदीयाः, तान् । आप्तपुरुषान्—विश्वस्तजनान् । निष्परिग्रहम्—विषयभोग या परिवार से रहित । परिगृह्यते इति परि√ग्रह्+अप् कर्मणि=परिग्रहः । निरस्तः परिग्रहः अनेन इति निष्परिग्रहः बहुव्रीहि स०, ‘इदुदुपधस्य’ इत्यनेन षत्वम् । अर्धराज्य-हरः—आधा राज्य पाने वाला । अर्धञ्च तत् राज्यम् अर्धराज्यम् कर्मधारय स० । हरतीति हरः √हृ+अच् कर्तरि । अर्धराज्यस्य हरः षष्ठीतत् ० । बहुफलताम्—बहूनि फलानि यस्य स बहुफलः बहुव्रीहि स० । तस्य भावः तत्ता, ताम् । अत्र चाणक्यस्य नीतिबीजेन फलत्रय समुत्पादितम्—(१) अर्धराज्यहरः घातितः, (२) अयशः परिहृतम्, (३) अयशः अस्मासु पातितम् । यस्य तव—यहाँ ‘यस्य’ का अन्वय ठीक नही बैठ रहा है । अतएव इसके पूर्व चूर्णाक के पद—साधु कौटिल्य ! साधु—का अध्याहार कर लेना चाहिए । इस श्लोक में काव्यलिंग अलंकार है, वैदर्भी रीति है, प्रसाद गुण है और आर्या छन्द है । आर्या का लक्षण १, ५ में देखिए ॥ १६ ॥

[ प्रकाशम् ] ततस्ततः ?

विराधगुप्तः—ततश्चन्द्रगुप्तशरीरमभिद्रोग्धुमनेन व्यापारिता दारु-वर्मादय इति नगरे प्रख्याप्य शकटदासः शूलमारोपितः ।

राक्षसः—[ सास्रम् ] हा सखे ! शकटदास ! अयुक्तस्तवायमीदृशो मृत्युः !! अथवा, स्वाम्यर्थमुपरतो न शोच्यस्त्वमसि; वयमेवात्र शोच्याः,—ये नन्दकुलविनाशेऽपि जीवितुमिच्छामः ।

विराधगुप्तः—अमात्य ! स्वाम्यर्थ एव साधयितव्य इति प्रयतसे ।

राक्षसः—सखे !—

अस्माभिरमुमेवार्थमालम्ब्य न जिजीविषाम् ।
परलोकगतो देवः कृतघ्नैर्नानुगम्यते ॥ २० ॥

अन्वयः—अमुमेव अर्थं न जिजीविषाम् आलम्ब्य कृतघ्नैः अस्माभिः परलोक-गतो देवो न अनुगम्यते ॥ २० ॥

व्याख्या—अमुमेव—उक्तरूपमेव, अर्थ—प्रयोजनम्, न जिजीविषाम्—

मुद्राराक्षसम् (सटीक संस्कृत नाटक) · पृष्ठ 238, कुल 488 में से · BharatKosha