मुद्राराक्षसम् (सटीक संस्कृत नाटक)
Mudrarakshasam Natakam with Hindi Commentary
महाकवि विशाखदत्त द्वारा
पृष्ठ 252, कुल 488 में से
संदर्भ में पढ़ेंतृतीयोऽङ्कः | १६३
भूतलं भुञ्जन्ति रक्षन्ति इति भूतल-√भुज् + क्विप् कर्तरि = भूतलभुजः । सर्वे च ते भूतलभुजः सर्वभूतलभुजः, तेषाम् कृद्योगे कर्मणि षष्ठी । आज्ञापकः—आज्ञा देने वाला, शासन करने वाला । आ-√ज्ञा + णिच्, पुक् आगम + ण्वुल्—अक । कृतकृत्यता—कृतार्थता, निरपेक्षता । कृतं कृत्यम् अनेन इति कृतकृत्यः । तस्य भावः इति कृतकृत्य + तल्—टाप् । सौहार्दात्—शोभनं हृदयमस्य इति सुहृत् । सुहृदो भावः इति सुहृद् + अण् 'हायनान्तयुवादिभ्योऽण्' इत्यनेन ततः 'हृद्भगसिन्ध्वन्ते पूर्वपदस्य च' इत्यनेन उभयपदवृद्धिः = सौहार्दम्, तस्मात् । इस श्लोक मे यथासंख्य नामक अलंकार है और शार्दूलविक्रीडित छन्द है । इस छन्द का लक्षण १, १२ में देखिए ॥ २३ ॥
इस प्रकार 'प्राप्त्याशा' अवस्था और 'पताका' अर्थप्रकृति के बीच की स्थिति रूप गर्भसन्धि के बारह अंगो का निरूपण हुआ और गर्भसन्धि समाप्त हुई ।
तृतीयोऽङ्कः
[ ततः प्रविशति कञ्चुकी ]
कञ्चुकी— [ सनिर्वेदम् ]
रूपादीन् विषयान् निरूप्य करणैर्यैरात्मलाभस्त्वया लब्धस्तेष्वपि चक्षुरादिषु हताः स्वार्थावबोधक्रियाः । अङ्गानि प्रसभं त्यजन्ति पटुतामाज्ञाविधेयानि ते न्यस्तं मूर्ध्नि पदं तवैव जरया तृष्णे ! मुधा माद्यसि ॥१॥
**अन्वयः—**तृष्णे ! मुधा माद्यसि । आज्ञाविधेयानि ते अङ्गानि प्रसभं पटुतां त्यजन्ति । यैः करणैः रूपादीन् विषयान् निरूप्य त्वया आत्मलाभो लब्धः तेषु चक्षुरादिषु अपि स्वार्थावबोधक्रियाः हताः । जरया तव मूर्ध्नि एव पदं न्यस्तम् ॥ १ ॥
**व्याख्या—**तृष्णे—स्पृहे ! मुधा—व्यर्थं, माद्यसि—वर्धसे, (यतो हि) आज्ञाविधेयानि—निर्देशवर्त्तीनि, ते—तव, अङ्गानि—करचरणादीनि कर्मेन्द्रिय-