भारतकोश
मुद्राराक्षसम् (सटीक संस्कृत नाटक)

मुद्राराक्षसम् (सटीक संस्कृत नाटक)

Mudrarakshasam Natakam with Hindi Commentary

महाकवि विशाखदत्त द्वारा

DevanagariSanskritpublished488 पृष्ठ

पृष्ठ 254, कुल 488 में से

संदर्भ में पढ़ें
पृष्ठ 254

तृतीयोऽङ्कः १६५

जराया जरसन्यतरस्याम्' इति सूत्रेण जरसादेशस्य विकल्पपक्षे रूपमेतत् । इस पद्य में विभावना अलंकार और शार्दूलविक्रीडित छन्द है । इस छन्द का लक्षण १, १२ में देखिए ॥ १ ॥

[ परिक्रम्याकाशे ] भो भोः सुगाङ्गप्रासादाधिकृताः पुरुषाः ! सुगृहीतनामा देवश्चन्द्रगुप्तो वः समाज्ञापयति । यथा—'प्रवृत्तकौमुदीमहोत्सव-रमणीयतरं कुसुमपुरमवलोकयितुमिच्छामि, तत् संस्क्रियन्तामस्मद्दर्शनयोग्याः सुगाङ्गप्रासादस्योपरिभूमयः' इति । तत् किं चिरयन्ति भवन्तः ? [ आकाशे आकर्ण्य ] किं ब्रूथ 'आर्य ! किमविदित एवाय देवस्य चन्द्रगुप्तस्य कौमुदीमहोत्सवप्रतिषेधः' इति ? आः दैवोपहताः ! किमनेन वः प्राणहरेण कथोद्घातेन ? शीघ्रमिदानीम्—

आलिङ्गन्तु गृहीतधूपसुरभीन् स्तम्भान् पिनद्धस्रजः सम्पूर्णेन्दुमुखसंहतिरुचां सच्चामराणां श्रियः । सिंहाङ्गासनधारणाच्च सुचिरं सञ्जातमूर्च्छामिव क्षिप्रं चन्दनवारिणा सकुसुमः सेकोऽनुगृह्णातु गाम् ॥२॥

व्याख्या—परिक्रम्य—भ्रमणं कृत्वा, आकाशे—गगने, दत्तदृष्टिः सन् आहेति शेषः । सुगाङ्गप्रासादाधिकृताः—सुगाङ्गाख्ये भवने अधिकृता नियुक्ताः, पुरुषाः—जनाः !, सुगृहीतनामा—प्रातःस्मरणीयाभिधानः, देवः—महाराजः, चन्द्रगुप्तः, वः—युष्मान्, समाज्ञापयति—आदिशति, प्रवृत्तकौमुदीमहोत्सव-रमणीयतरं—प्रवृत्तः आरब्धः यः कौमुदीमहोत्सवः शरदपूर्णिमासाध्यव्रतविशेषः तेन रमणीयतरम् अधिकमनोहरं, कुसुमपुरम्—पाटलिपुत्रम्, अवलोकयितुम्—द्रष्टुम्, इच्छामि—अभिलषामि । तत्—तस्मात्, अस्मद्दर्शनयोग्याः—मदवलोकनीयाः, सुगाङ्गप्रासादस्य, उपरिभूमयः—उपारिष्टातप्रदेशाः, संस्क्रियन्ताम्—अलंक्रीयन्ताम् । तत्—तस्मात्, भवन्तः—यूयं, किं—कथं, चिरयन्ति—विलम्बन्ते ? आकर्ण्य—श्रुत्वा, आर्य—मान्य ! [ यूयं ] किं—कथं, ब्रूथ—कथयथ । अयं—चाणक्येनं विधीयमानः, कौमुदीमहोत्सवप्रतिषेधः—शारद-पूर्णेन्दुपुजनात्मकोत्सवनिषेधः, देवस्य—चन्द्रगुप्तस्य, किम्, अविदित एव—अज्ञात एव ? दैवोपहताः—दैवेन भाग्येन उपहताः विनष्टा इत्यर्थः । अनेन—एतेन, प्राणहरेण—जीवविनाशकेन, कथोद्घातेन—वार्ताप्रसंगेन, वः—युष्माकम्, किम्—न किमपीत्यर्थः । इदानीम्—अधुना, शीघ्रम्—सत्वरम् ।