भारतकोश
मुद्राराक्षसम् (सटीक संस्कृत नाटक)

मुद्राराक्षसम् (सटीक संस्कृत नाटक)

Mudrarakshasam Natakam with Hindi Commentary

महाकवि विशाखदत्त द्वारा

DevanagariSanskritpublished488 पृष्ठ

पृष्ठ 256, कुल 488 में से

संदर्भ में पढ़ें
पृष्ठ 256

१६७

तृतीयोऽङ्कः

कुमुद + अण् स्त्रियां = कौमुदी । आश्विन और कार्तिक दोनों मासों की पूर्णिमा को कौमुदी कहते हैं। दोनों के लिए क्रमशः श्लोक देखिए—'आश्विने पौर्णमास्यां तु चरेज्जागरणं निशि। कौमुदी सा समाख्याता कार्या लोक-विभूतये ॥ कुशब्देन मही ज्ञेया मुद हर्षे ततो द्वयम् । धातुर्जैनियनैश्चैव तेन सा कौमुदी-स्मृता ॥' अविदित एवायं देवस्य—√विद् + क्त वर्तमाने 'मतिबुद्धि'—इत्यनेन = विदितः। न विदितः अविदितः। 'देवस्य' इत्यत्र 'क्तस्य च वर्तमाने' इत्यनेन अनुक्ते कर्तरि षष्ठी । दैवोपहताः—उप √हन् + क्त कर्मणि = उपहताः । दैवेन उपहताः तृतीयात० । कथोद्घातेन—उद् √हन् + घञ् भावे = उद्घातः = प्रसंगः । कथायाः उद्घातः, तेन । करणे तृतीया । पिनद्धस्रजः—बांधी या लपेटी हुई मालाओं वाले । अपि √नह् + क्त कर्मणि = अपिनद्ध वा पिनद्ध 'वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः । आपञ्चैव हलन्तानां यथा वाचा निशा दिशा ॥' इति कारिकाबलात् विकल्पेन अपेः अकारलोपः । सम्पूर्णेन्दुमयूसंहतिः—सम् √हन् + क्तिन् भावे = संहतिः । सम्पूर्णेन्दुमयूरखानां संहतिः = संहताः सम्पूर्णेन्दुयूखाः 'भावानयने द्रव्यानयनम्' इति नियमात् । चन्दनवारिणा—चन्दनेन संश्लिष्टं वारि चन्दनवारि मध्यमपद-लोपी स०, तेन । सिंहाङ्गासनधारणात्—सिंहासन के धारण करने से अथवा सिंह के द्वारा ( अपनी ) गोद रूप आसन पर धारण किये जाने से । सिंहेन अङ्गासने निजक्रोडरुपासने धारणात् स्थापनात् । यहाँ तात्पर्य यह है कि जैसे सिंह की गोद में पड़ने से मूर्च्छित गाय पानी के छींटे से आश्वस्त की जाती है उसी तरह अत्यन्त भारी राजसिंहासन को धारण करने से थकी हुई पृथ्वी को श्रीखण्ड-मिश्रित जल के सिञ्चन से आश्वस्त करो । इस श्लोक के पूर्वार्ध में समासोक्ति अलंकार है और उत्तरार्ध मे उत्प्रेक्षा अलकार श्लेष अलंकार से संसृष्ट है । इसमें भी शार्दूलविक्रीडित छन्द है ॥२॥

[ आकाशे ] किं कथयन्ति भवन्तः 'एते त्वरामह' इति ? भद्राः ! त्वरध्वम्, अयमागत एव देवश्चन्द्रगुप्तः । य एषः,—

सुविश्रब्धैरङ्गैः पथिषु विषमेष्वप्यचलता
चिरं धुर्येणोढा गुरुरपि भुवो याऽस्य गुरुणा ।
धुरं तामेवोच्चैर्नववयसि वोढुं व्यवसितो
मनस्वी दम्यत्वात् स्खलति न च दुःखं वहति च ॥३॥