भारतकोश
मुद्राराक्षसम् (सटीक संस्कृत नाटक)

मुद्राराक्षसम् (सटीक संस्कृत नाटक)

Mudrarakshasam Natakam with Hindi Commentary

महाकवि विशाखदत्त द्वारा

DevanagariSanskritpublished488 पृष्ठ

पृष्ठ 258, कुल 488 में से

संदर्भ में पढ़ें
पृष्ठ 258

तृतीयोऽङ्कः १६६

अङ्गैः—स्वामी, अमात्य, सुहृद्, कोष, राष्ट्र, दुर्ग और बल। वृषभ-पक्ष में अवयव। अत्र करणे तृतीया। व्यवसितः—उद्यत। वि-अव √ सो + क्त कर्तरि। मनस्वी—महामना, उत्साही। प्रशस्तं मनः अस्य इति मनस् + विनि मत्वर्थे। दम्यत्वात्—जिसका शिक्षण अभी समाप्त नहीं हुआ है। √ दम् + यत् कर्मणि = दम्यः। तस्य भावः इति दम्य + त्व, तस्मात् हेतौ पञ्चमी। यहाँ चन्द्रगुप्त को दम्य कहा गया है; क्योंकि उसकी शिक्षा अभी समाप्त नहीं हुई है। इस श्लोक में समासोक्ति अलंकार है, वैदर्भी रीति है और शिखरिणी छन्द है। शिखरिणी का लक्षण १, १३ में देखिए ॥३॥

[ नेपथ्ये ] इत इतो देवः।

[ ततः प्रविशति राजा प्रतीहारी च ]

राजा—[स्वगतम्] राज्यं हि नाम राजधर्मानुवृत्तिपरस्य नृपतेर्महदप्रीतिस्थानम्। कुतः—

परार्थानुष्ठाने रहयति नृपं स्वार्थपरता
परित्यक्तस्वार्थो नियतमयथार्थ. क्षितिपतिः।
परार्थश्चेत् स्वार्थादभिमततरो हन्त परवान्
परायत्तः प्रीतेः कथमिव रसं वेत्ति पुरुषः ॥४॥

अन्वयः—परार्थानुष्ठाने स्वार्थपरता नृपं रहयति। परित्यक्तस्वार्थः क्षितिपतिः नियतम् अयथार्थः। परार्थः स्वार्थात् अभिमततरश्चेत् हन्त परवान्। परायत्तः पुरुषः प्रीतेः रसं कथमिव वेत्ति ॥४॥

व्याख्यापरार्थानुष्ठाने—परस्य स्वेतरस्य पुरुषस्य यः अर्थः प्रयोजनं तस्य अनुष्ठाने साधनकर्मणि, स्वार्थपरता—स्वातन्त्र्यं, नृपं—राजानं, रहयति—त्यजति। परित्यक्तस्वार्थः—परित्यक्तः उत्सृष्टः स्वार्थः आत्मप्रयोजनं येन तादृशः, क्षितिपतिः—भूपः, नियतम्—निश्चितम्, अयथार्थः—अयथा मिथ्या अर्थः अभिधेयः यस्य तादृशः (भवति)। परार्थः परस्य अन्यस्य अर्थः प्रयोजनं, स्वार्थात्—आत्मप्रयोजनात्, अभिमततरः—ईप्सिततरः, चेत्—यदि, हन्त—कष्टम्!, परवान्—[पराधी]नः (नृपतिः)। परायत्तः—पराधीनः, पुरुषः—जनः, [प्रीतेः]—सुखस्य [रसं]—आस्वादम्, कथमिव—केन प्रकारेण, वेत्ति—जानाति ?