भारतकोश
संग्रह पर लौटें

मुद्राराक्षसम् (सटीक संस्कृत नाटक)

Mudrarakshasam Natakam with Hindi Commentary

महाकवि विशाखदत्त द्वारा

DevanagariSanskritpublished488 पृष्ठ

तृतीयोऽङ्कः १६६

अङ्गैः—स्वामी, अमात्य, सुहृद्, कोष, राष्ट्र, दुर्ग और बल। वृषभ-पक्ष में अवयव। अत्र करणे तृतीया। व्यवसितः—उद्यत। वि-अव √ सो + क्त कर्तरि। मनस्वी—महामना, उत्साही। प्रशस्तं मनः अस्य इति मनस् + विनि मत्वर्थे। दम्यत्वात्—जिसका शिक्षण अभी समाप्त नहीं हुआ है। √ दम् + यत् कर्मणि = दम्यः। तस्य भावः इति दम्य + त्व, तस्मात् हेतौ पञ्चमी। यहाँ चन्द्रगुप्त को दम्य कहा गया है; क्योंकि उसकी शिक्षा अभी समाप्त नहीं हुई है। इस श्लोक में समासोक्ति अलंकार है, वैदर्भी रीति है और शिखरिणी छन्द है। शिखरिणी का लक्षण १, १३ में देखिए ॥३॥

[ नेपथ्ये ] इत इतो देवः।

[ ततः प्रविशति राजा प्रतीहारी च ]

राजा—[स्वगतम्] राज्यं हि नाम राजधर्मानुवृत्तिपरस्य नृपतेर्महदप्रीतिस्थानम्। कुतः—

परार्थानुष्ठाने रहयति नृपं स्वार्थपरता
परित्यक्तस्वार्थो नियतमयथार्थ. क्षितिपतिः।
परार्थश्चेत् स्वार्थादभिमततरो हन्त परवान्
परायत्तः प्रीतेः कथमिव रसं वेत्ति पुरुषः ॥४॥

अन्वयः—परार्थानुष्ठाने स्वार्थपरता नृपं रहयति। परित्यक्तस्वार्थः क्षितिपतिः नियतम् अयथार्थः। परार्थः स्वार्थात् अभिमततरश्चेत् हन्त परवान्। परायत्तः पुरुषः प्रीतेः रसं कथमिव वेत्ति ॥४॥

व्याख्यापरार्थानुष्ठाने—परस्य स्वेतरस्य पुरुषस्य यः अर्थः प्रयोजनं तस्य अनुष्ठाने साधनकर्मणि, स्वार्थपरता—स्वातन्त्र्यं, नृपं—राजानं, रहयति—त्यजति। परित्यक्तस्वार्थः—परित्यक्तः उत्सृष्टः स्वार्थः आत्मप्रयोजनं येन तादृशः, क्षितिपतिः—भूपः, नियतम्—निश्चितम्, अयथार्थः—अयथा मिथ्या अर्थः अभिधेयः यस्य तादृशः (भवति)। परार्थः परस्य अन्यस्य अर्थः प्रयोजनं, स्वार्थात्—आत्मप्रयोजनात्, अभिमततरः—ईप्सिततरः, चेत्—यदि, हन्त—कष्टम्!, परवान्—[पराधी]नः (नृपतिः)। परायत्तः—पराधीनः, पुरुषः—जनः, [प्रीतेः]—सुखस्य [रसं]—आस्वादम्, कथमिव—केन प्रकारेण, वेत्ति—जानाति ?

१७२ मुद्राराक्षसम्

अस्त्या इति दुःखोरचर्या बहुव्रीहि स०। इस श्लोक में काव्यलिंग अलंकार है, वैदर्भी रीति है, ओज गुण है और शार्दूलविक्रीडित छन्द है। इस छन्द का लक्षण १, १२ में देखिए ॥ ५ ॥

अन्यच्च, कृतककलहं कृत्वा स्वतनन्त्रेण त्वया कञ्चित् काल व्यवहर्त- व्यमित्यार्योपदेशः । स च कथमपि मया पातकमिवाभ्युपगतः । अथवा शश्वदार्योपदेशमन्त्रियमाणतय सदैंव स्वतन्त्रा वयम् । कुतः?—

इह हि रचयन् साध्वीं शिष्यः क्रिया न निवार्यते त्यजति तु यदा मार्गं मोहाद् तदा गुरुरङ्कुशः । विनयरुचयस्तस्मात् सन्तः सदैव निरङ्कुशाः परतरमतः स्वातन्त्र्येभ्यो वयं हि पराङ्मुखाः ॥ ६ ॥

अन्वय —इह हि शिष्यः साध्वीं क्रिया रचयन् न निवार्यते, यदा तु मोहात् ( स ) मार्गं त्यजति तदा गुरुः अङ्कुशः । तस्मात् विनयरुचयः सन्तः सदैव निरङ्कुशाः । अतः स्वातन्त्र्येभ्यः वयं परतरं हि पराङ्मुखाः ॥ ६ ॥

व्याख्या—इह हि—अस्मिन् संसारे खलु, शिष्यः—छात्रः, साध्वी—साध्व्या, क्रिया—कार्यं, रचयन्—कुर्वन्, न—नहि, निवार्यते—निषिध्यते । यदा तु—यस्मिन् काले पुनः, मोहात्—अविवेकात्, ( स ) मार्गं त्यजति—सदाचारमतिक्रामति, तदा गुरुः—शिक्षकः, अङ्कुशः—निवारकः ( भवति ) । तस्मात्—ततः, विनयरुचयः—विनये सुशिक्षायां रुचिः स्पृहा येषां तादृशाः, सन्तः—साधवः सदैव—सर्वस्मिन्नेव काले, निरङ्कुशाः—अनिवार्याः स्वतन्त्राः इति यावत् ( भवन्ति ) । अतः अस्मात्, स्वातन्त्र्येभ्यः—स्वेच्छाचारेभ्यः, वयम्, परतरं हि—नितान्तमेव, पराङ्मुखाः—वितृष्णाः ( स्मः ) ॥ ६ ॥

हिन्दी अनुवाद—और भी, आर्य ( चाणक्य ) का उपदेश है कि बनावटी झगड़ा करके उह कुछ समय तक स्वतंत्र रूप से व्यवहार करना चाहिए । उस ( उपदेश ) को मैंने पातक के समान किसी तरह स्वीकार किया । अथवा आर्य के उपदेश से निरन्तर संस्कार की जाति हुई बुद्धि वाले हम सदा ही स्वतंत्र हैं । क्योकि—

यहाँ ( संसार में ) शिष्य उचित कार्य करता हुआ ( गुरु के द्वारा ) रोका नहीं जाता है। किन्तु जब मोहवश ( वह उचित ) मार्ग को छोड़ता है

तृतीयोऽङ्कः । १७३

तब गुरु अंकुश (निवारक) होता है। इसलिए विनय (सुशिक्षा) में रुचि रखने वाले सज्जन सदा ही स्वतन्त्र हैं। अतएव स्वेच्छाचारियों से हम अत्यंत ही पराङ्मुख हैं ॥ ६ ॥

टिप्पणी—कृतककलहम्—कृत्रिमविवादम् । कृत एव कृतकः । तादृशः कलहः, तम् । स्वतन्त्रेण—अनायत्तेन । स्वः आत्मा तन्त्रं प्रधानं यस्य स स्वतन्त्रः, तेन । कञ्चित् कालम्—अत्र व्याप्त्यर्थे द्वितीया । व्यवहर्तव्यम्—वर्तितव्यम् । वि-अव√हृ+तव्य भावे । शश्वदार्योपदेशसंस्क्रियमाणमतयः—अनवरतचाणक्यनिदेशविशोध्यमानबुद्धयः । अतः—इदमतीत्य इति यावत् । अत्र ल्यब्लोपे पञ्चमी । स्वातन्त्र्येभ्यः—स्वतन्त्रस्य भावाः इति स्वतन्त्र+ष्यञ्=स्वातन्त्र्याणि, तेभ्यः । 'ध्रुवमपाये'—इति पञ्चमी । पराङ्मुखाः—मुंह मोड़े हुए, विमुख । परा अञ्चति इति परा√अञ्च्+क्विन् कर्तरि=पराक् । पराक् मुखमेषाम् इति पराङ्मुखाः । इस श्लोक में परिणाम अलंकार है, वैदर्भी रीति है, प्रसाद गुण है और हरिणी छन्द है। इस छन्द का लक्षण यह है—'नसमरसलागः षड्वेदैर्हयैर्हरिणी मता' ॥ ६ ॥

[ प्रकाशम् ] आर्य वैहीनरे ! सुगाङ्गप्रासादमार्गमादेशय ।

कञ्चुकी—इत इतो देवः ।

राजा—[ परिक्रामति ]

कञ्चुकी—[ परिक्रम्य ] अयं सुगाङ्गप्रासादः । शनैरारोढुमर्हत्यार्यः ।

राजा—[ नाट्येणारुह्य दिशोऽवलोक्य ] अहो ! शरत्समयसम्भूतशोभाविभूतीना दिशामतिरमणीयता !! कुतः ?—

शनैः शान्ता भूताः सितजलधरच्छेदपुलिनाः
समन्तादाकीर्णाः कलविरुतिभिः सारसकुलैः ।
चिताश्चित्राकारैर्निशि विकचनक्षत्रकुमुदै-
र्नभस्तः स्यन्दन्ते सरित इव दीर्घा दश दिशः ॥ ७ ॥

अन्वयः—शनैः शान्ताः भूताः सितजलधरच्छेदपुलिनाः कलविरुतिभिः सारसकुलैः समन्तात् आकीर्णाः दश दिशः निशि चित्राकारैः विकचनक्षत्रकुमुदैः चिताः ( सत्यः ) दीर्घाः सरित इव नभस्तः स्यन्दन्ते ॥ ७ ॥

१७४ | मुद्राराक्षसम्


व्याख्या—शनैः—क्रमेण, शान्ता—निर्मला, भूता—जाता, सितजलधरच्छेदपुलिना—सिता धवला जलधरच्छेदा मेघखण्डा पुलिनानि इव सैकतानि इव सन्ति यासां ताः, कलविरुतिभिः—अव्यक्तमधुरशब्दैः, सारसकुलैः—क्रौञ्चपङ्क्तिभिः, समन्तात्—सर्वतः, आकीर्णाः—व्याप्ताः, दश, दिशः—आशाः, निशि—रात्रौ, चित्राकारे—अनेकविधे, विकचनक्षत्रकुमुद—निकचे विकसितैः कुमुदसदृशैः नक्षत्रैः, चिता—व्याप्ता, (सत्यः) दीर्घा—आयता, सरित इव—नद्य इव, नभस्तः—आकाशात्, स्यन्दन्ते—प्रसरन्ति ॥ ७ ॥

हिन्दी अनुवाद—[ प्रकट ] आर्य वैहीनरे ! सुगाङ्ग भवन का मार्ग बताओ ।

कञ्चुकी—इधर से महाराज ( आवें ) इधर से ।

राजा—[ घूमता है । ]

कञ्चुकी—[ घूमकर ] यह सुगाङ्ग भवन है । धीरे-धीरे आप चढ़ें ।

राजा—[ अभिनय के साथ चढ़कर और दिशाओं को देखकर ] अहा ! शरत्काल में बढ़ी हुई शोभा की विभूतियों से सम्पन्न दिशाओं की अतिशय सुन्दरता है । क्योंकि—

क्रमशः निर्मल बनी हुई, रेतीले किनारे के समान शुभ्र मेघ-खण्डों से युक्त, अव्यक्त मधुर शब्द करने वाले क्रौञ्च पक्षियों के समूहों से, सभी ओर से व्याप्त और अनेक प्रकार के विकसित कुमुदों के समान नक्षत्रों से युक्त दसों दिशायें लम्बी नदियों के समान आकाश से प्रवाहित हो रही हैं ॥ ७ ॥

टिप्पणीवैहीनरे—यह कञ्चुकी का नाम है । विहीनो नरः कामभोगाभ्याम् इति विहोनरः पृषोदरादित्वात् नलोपः । विहीनोरस्य अपत्यं वैहीनरिः विहीनूर + इञ्, तत्सम्बुद्धौ हे वैहीनरे इति । शरत्समयसम्भृतशोभाविभूतीनाम्—शरद् समय के कारण बढ़ी हुई शोभा के ऐश्वर्य से सम्पन्न । शरदव समयः, तेन सम्भृता उपचिता, तादृशी शोभा विभूतिर्यासां ताः ॰ शोभाविभूतयः तासाम् । किसी पुस्तक में 'शान्ता भूता' के स्थान में 'श्यानीभूता' पाठ मिलती है । उसकी व्याख्या होगी—'श्यानीभूता' । √श्यै + क्त कर्तरि = श्याना 'संयोगादेरातो धातोर्यण्वतः' इति सूत्रेण तस्य न । अश्याना श्याना भूता इति

तृतीयोऽङ्कः १७५

श्यान + च्वि, ईत्व √ भू + क्त कर्तरि । सितजलधरच्छेदपुलिनाः—बालुकामय तट के समान उज्ज्वल मेघ-खंडों से युक्त। जलानां धराः जलधराः-तेषां छेदाः । सिताः जलधरच्छेदाः कर्मधारय स० । ते पुलिनानि इव इति सितजल-धरच्छेदपुलिनानि उपमित स० । तानि सन्ति आसाम् इति सितजलधरच्छेद-पुलिन + अच् मत्वर्थे । यह 'दिशः' का विशेषण है। विकचनक्षत्रकुमुदः—विगताः कचाः एषाम् इति विकचानि । तादृशानि नक्षत्राणि । तानि कुमुदानि इव इति विकचनक्षत्रकुमुदानि, तैः । नभस्तः—आकाश से, नदीपक्ष में—श्रावणमास से । स्यन्दन्ते—प्रवाहित हो रही है या फैल रही है । इस श्लोक में श्लेष अलंकार से अनुप्राणित उपमेयोपमा नामक अलंकार है, पाञ्चाली रीति है, प्रसाद गुण है और शिखरिणी छन्द है । शिखरिणी का लक्षण १, १३ मे देखिए ॥ ७ ॥

अपि च—

अपामुद्वृत्तानां निजमुपदिशन्त्या स्थितिपद दधत्या शालीनामवनतिमुदारे सति फले । मयूराणामुग्रं विषमिव हरन्त्या मदमहो कृतः कृत्स्नस्यायं विनय इव लोकस्य शरदा ॥ ८ ॥

**अन्वयः—**अहो ! उद्वृत्तानाम् अपां निजं स्थितिपदम् उपदिशन्त्या शालीनां फले उदारे सति अवनतिं दधत्या मयूराणां विषमिव उग्रं मदं हरन्त्या शरदा कृत्स्नस्य लोकस्य अयं विनयः कृत इव ॥ ८ ॥

**व्याख्या—**अहो—आश्चर्यम्, उद्वृत्तानाम्—उपचितानाम् लङ्घिततटानामिति यावत्, अपां—जलानाम्, निजं—स्वाभाविकं, स्थितिपदं—स्थानम्, उपदिशन्त्या—बोधयन्त्या, शालीनां—धान्यविशेषाणां, फले—प्रसवे, उदारे—परिणते, सति, अवनतिं—नम्रतां, दधत्या धारयन्त्या, मयूराणां—बर्हिणां, विषमिव—गरलमिव, उग्रम्—असह्यम्, मदं—गर्वं, हरन्त्या—अपनयन्त्या, शरदा—शरदृतुना, कृत्स्नस्य—समग्रस्य, लोकस्य—भुवनस्य, अयम्—एषः, विनयः—उपदेशः, कृत इव—विहित इव ॥ ८ ॥

**हिन्दी अनुवाद—**और भी—आश्चर्य है कि तटों का अतिक्रमण करने वाले जलों को स्वाभाविक स्थान का बोध कराती हुई, साठी धानों

१७६ मुद्राराक्षसम्

के पक जाने पर नम्र बनाती हुई और मयूरों के विष के समान असह्य मद का अपहरण करती हुई शरद् ऋतु ने मानो सम्पूर्ण संसार को यह विनय सिखाया है॥ ८ ॥

टिप्पणीउद्वृत्तानाम्—तट या मर्यादा को लाँघे हुए। उद्+√वृत्+क्त कर्तरि=उद्वृत्ता। उत्क्रान्ता वृत्तम् इति उद्वृत्ता 'अत्यादयः क्रान्ताद्यर्थे द्वितीया' इत्यनेन प्रादिसमासः। स्थितिपदम्—ठहरने का स्थान। स्थितेः पदम्। उपदिशन्त्या—उप+√दिश्+शतृ+ङीप्=उपदिशन्ती, तया। यह 'शरदा' का विधेयात्मक विशेषण है। यहाँ स्पष्टार्थ यह है कि वर्षा ऋतु में नदियों का जल तट को लाँघकर बहने लगता है, किन्तु शरद् ऋतु में वह अपने स्वाभाविक स्थान पर पहुँच जाता है, अतएव शरद् ऋतु मानो जल को विनीत होने का उपदेश देती हुई कह रही है कि अपनी मर्यादा को न छोड़ो। इसी तरह आगे साठी धान को झुकाती हुई और मयूरों का मद दूर करती हुई उन्हें भी मानो विनीत होने की शिक्षा दे रही है। यहाँ समासोक्ति अलंकार द्वारा तीन बातों की ओर संकेत किया गया है—( १ ) अत्यन्त उद्धत मलयकेतु के भावी निग्रह की ओर, ( २ ) राक्षस के विष के समान अत्यन्त उग्र पराक्रम और नीतिविषयक गर्व के दूर होने की ओर और ( ३ )-साम्राज्य-रूपी फल से युक्त परम उन्नतिशील चन्द्रगुप्त के विनय की ओर। इस श्लोक में पूर्णोपमा अलंकार, वाच्योत्प्रेक्षा अलंकार और काव्यलिंग अलंकार का योग है। इसमें वैदर्भी रीति है, प्रसादगुण है और शिखरिणी छन्द है॥ ८ ॥

अपि च—

भर्तुस्तथा कलुषिता बहुवल्लभस्य मार्गे कथञ्चिदवतार्य तनूभवन्तीम् । सर्वात्मना रतिकथाचतुरैव दूती गङ्गां शरन्नयति सिन्धुपतिं प्रसन्नाम् ॥९॥

अन्वय —तथा कलुषिता तनूभवन्ती सर्वात्मना प्रसन्ना गङ्गा रतिकथा-चतुरा दूती इव शरत् बहुवल्लभस्य भर्तुर्मार्गे कथञ्चित् अवतार्य सिन्धुपतिं नयति ॥९॥

तृतीयोऽङ्कः । १७७

व्याख्या—तथा—तेन प्रकारेण, कलुषितां—प्रावृषि पङ्काधिक्यात् निर्मलां (पक्षान्तरे भर्तुरनेकभार्यत्वेन दोषोत्वात्सेर्ष्यामित्यर्थः), तनूभवन्तीं—वर्षापगमेना- तिक्षीणां (पक्षान्तरे प्रियवियोगेन कृशशरीराम्) सर्वात्मना—सर्वप्रकारेण, प्रसन्नां—स्वच्छसलिलां (पक्षान्तरे प्रसन्नहृदयां), गङ्गां—भागीरथीं (पक्षान्तरे रमणी), रतिकथाचतुरा—रतिकथायां सरसालापे चतुरा दक्षा, दूती इव—सञ्चारिकेव, शरत्, बहुवल्लभस्य—अनेकभार्यस्य, भर्तुः—स्वामिनः, मार्गे—तत्प्रापरार्थे, कथञ्चित्—क्लेशतः, अवतार्य—नीत्वा, सिन्धुपति—सागरं (पक्षान्तरे सिन्धुरिव पतिस्तं सिन्धुसदृशगाम्भीर्यशालिनं पतिमित्यर्थः), नयति—प्रापयति ॥६॥

हिन्दी अनुवाद—उस प्रकार से (वर्षा ऋतु के कीचड़ के कारण) गँदली (नायिका-पक्ष मे ईर्ष्यायुक्त), शरद् ऋतु में वर्षा के बीत जाने से अत्यन्त क्षीण (प्रवाह वाली) (नायिका-पक्ष में वियोग के कारण कृश) होती हुई तथा पूर्ण रूप से निर्मल (नायिका-पक्ष में प्रसन्न चित्त वाली) गङ्गा को प्रेम की कथाओं में दक्ष दूती के समान् शरद् ऋतु अनेक (नदी रूपी) पत्नियो वाले स्वामी (समुद्र) के मार्ग में किसी तरह उतारकर सागर (नायिका-पक्ष में सिन्धु सदृश गाम्भीर्यशाली पति) के पास ले जा रही है ॥६॥

टिप्पणी—तनूभवन्तीम्—अतनुः तनुः भवन्ती इति तनु+च्वि, दीर्घ √भू+शतृ स्त्रियाम् ङीप् । सिन्धुपतिम्—सिन्धूनां नदीना पतिः=समुद्रः । 'देशे नदविशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियाम्' इत्यमरः । अथवा सिन्धुरिव पतिः उपमित स० । अथवा सिन्धुनामा पतिः सिन्धुपतिः मध्यमपदलोपी स०, तम् । इस श्लोक मे भी ध्वन्यर्थ यह है कि चतुर दूती के समान अत्यंत गंभीर चाणक्य की नीति राक्षस की बुद्धि की वशीभूत होने के कारण कलुषित नन्दकुल की लक्ष्मी को समुद्र के समान अत्यन्त गंभीर हृदय वाले चन्द्रगुप्त के पास सब प्रकार से पहुँचा रही है। इस पद्य मे अर्थश्लेष से अनुप्रमाणित पूर्णोपमा अलंकार है और वसन्ततिलका छन्द है। इस छन्द का लक्षण १, ८ में देखिए ॥६॥

[समन्तान्नाट्येनावलोक्य] अये ! कथमप्रवृत्तकौमुदीमहोत्सवं कुसुमपुरम् ? आर्य ! वैहीनरे ! अथोस्मद्वचनादाघोषितः कुसुमपुरे कौमुदी-महोत्सवः ?

मु० रा०—१२

१७८ मुद्राराक्षसम्

**कञ्चुकी—**देव ! अथ किम् ?

**राजा—**आर्य ! तदेव किं न परिगृहीतमस्मद्वचनं पौरजनेन ?

कञ्चुकी—[कर्णौ पिधाय] देव ! शान्तं पापं, शान्तं पापं, पृथिव्या-मस्खलितपूर्वं देवस्य शासनं कथं पौरेषु स्खलितुमर्हति ?

**राजा—**आर्य वैहीनरे ! तत् कथमप्रवृत्तकौमुदीमहोत्सवमधुनाऽपि कुसुमपुरं पश्यामि ? पश्य—

धूर्तैरन्वीयमाना स्फुटचतुरकथाकोविदैर्वेशनार्यो नालङ्कुर्वन्ति रथ्या पृथुजघनभराक्रान्तिमन्दैः प्रयातैः । अन्योन्यं स्पर्धमाना न च गृहविभवैः स्वामिनो मुक्तशङ्का साकं स्त्रीभिर्भजन्ते विधिमभिलषितं पार्वणं पौरमुख्याः ॥१०॥

**अन्वय—**स्फुटचतुरकथाकोविदै धूर्तै अन्वीयमाना वेशनार्य पृथुजघनभरा-क्रान्तिमन्दै प्रयाते रथ्या न अलङ्कुर्वन्ति । स्वामिनो मुक्तशङ्का पौरमुख्याश्च गृहविभवे अन्योन्य स्पर्धमाना (सन्त ) स्त्रीभि साकम् अभिलषित पार्वण विधि न भजन्ते ॥१०॥

**व्याख्या—**स्फुटचतुरकथाकोविदै—स्फुटा स्पष्टा चतुरा कुशला या कथा वाच तासु कोविदै विचक्षणै, धूर्तै—विटै, अन्वीयमाना—अनुयाय-माना, वेशनार्य—वाराङ्गणा, पृथुजघनभराक्रान्तिमन्दै—पृथू विशाले च त जघने पृथुजघन तयोर्भरौ भारस्तस्य आक्रान्त्या आरोपेण मन्दे सालसे, प्रयातै—पादचारै, रथ्या—राजमार्गान्, न अलङ्कुर्वन्ति—न शोभयन्ति । स्वामिन—भूपात्, मुक्तशङ्का—निर्भया, पौरमुख्याश्च—नागरिकवर्या अपि, गृहविभवे—गृहसम्पत्तिमि, अन्योन्य—परस्पर, स्पर्धमाना—विजयैषिण, (सन्त ), स्त्रीभि—ललनाभि, साकम्—सह, अभिलषित—वाञ्छित, पार्वण विधि—पूर्णिमा-चार कौमुदीमहोत्सवमित्यर्थ, न भजन्ते—न सेवन्ते ॥१०॥

हिंदी अनुवाद—[चारों ओर अभिनयपूर्वक देखकर] अरे ! कुसुमपुर में कौमुदीमहोत्सव क्यो नही मनाया जा रहा है ? आर्य वैहीनरि ! क्या मेरी आज्ञा से कुसुमपुर में कौमुदीमहोत्सव घोषित कर दिया गया था ?

**कञ्चुकी—**महाराज ! और क्या ?

तृतीयोऽङ्कः १७६

राजा—आर्य ! तो इस प्रकार नागरिकों ने मेरी आज्ञा को क्यों नहीं माना ?

कंचुकी—[कानों को बन्द करके] महाराज ! पाप शान्त हो, पाप शान्त हो। पृथिवी पर पहले (कभी) खाली न जाने वाली महाराज की आज्ञा नागरिकों में कैसे खाली जाएगी ?

राजा—आर्य वैहिनरि ! तो क्यो अभी भी कौमुदीमहोत्सव के प्रारंभ से शून्य कुसुमपुर को मै देख रहा हूँ ? देखो—

स्पष्ट एवं चातुर्यपूर्ण वार्तालाप में प्रवीण धूर्तों से अनुकरण की जाती हुई वेश्याये (अपने) विशाल नितम्बों के भार के आक्रमण के कारण धीमी चालों से राज-मार्गों को सुशोभित नही कर रही है । और राजा से निर्भय तथा घर की सम्पत्तियो के बल पर परस्पर स्पर्धा रखते हुए श्रेष्ठ नागरिक स्त्रियों के साथ शारदीय पूर्णिमा के उत्सव को नही मना रहे है ॥१०॥

टिप्पणीअप्रवृत्तकौमुदीमहोत्सवम्—कौमुदीमहोत्सव के प्रारंभ से शून्य। अप्रवृत्तः अनारब्धः कौमुदीमहोत्सवः शारदपूर्णचन्द्रपर्वोद्भवः यस्मिन् सः बहुव्रीहि स०। अस्खलितपूर्वम्—पहले (कभी) स्खलित न होने वाली ।√स्खल् + क्त कर्तरि = स्खलितम्। पूर्वं स्खलितम् सुप्सुपा स०, 'भूतपूर्वे चरट्' इति निर्देशात् पूर्वशब्दस्य परनिपातः। न स्खलितपूर्वम् अस्खलितपूर्वम् नञ्तत्०। स्फुटचतुरकथाकोविदैः—स्पष्ट तथा चतुरता भरी बाते करने मे पटु। कौति इति √कु (शब्दे) + विच् कर्तरि = कोः = वेदः। वेत्ति इति √विद् + क कर्तरि = विदः। कोः विदः षष्ठीतत्० = कोविदः = पण्डितः अतएव पटुः। धूर्तैः—विटों के द्वारा। अन्वीयमानाः—अनुसरण की जाती हुई। अनु√इ + शानच् कर्मणि = अन्वीयमानाः। वेशनार्यः—वेश्या। वेश्यालय को वेश कहते है। वेशस्य नार्यः वेशनार्यः। स्वामिनो मुक्तशङ्काः—स्वं धनमस्य अस्तीति स्व + आमिन् मत्वर्थे = स्वामी, तस्मात् 'भीत्रार्थानां भयहेतुः' इत्यनेन पञ्चमी। नन्द के राज्य में प्रजा को अर्थलोलुप नन्द से अपना धन छीने जाने का भय बना रहता था। अब चन्द्रगुप्त के शासन में प्रजा को ऐसा कोई भय नही है; फलतः वे मुक्तशंक = निर्भय हैं। पार्वणम्—अमावास्या और पूर्णिमा को पर्व तिथि कहते है। यहाँ पूर्णिमा से तात्पर्य है। पर्वणि भवः इति पार्वणः पर्वन् + अण्,

१८०मुद्राराक्षसम्

तम् । इस श्लोक में स्वभावोक्ति नामक अलङ्कार है और स्रग्धरा छन्द है । इस छन्द का लक्षण १, १ मे देखिए ॥१०॥

कञ्चुकी—देव ! एवमेतत् ।

राजा—किमेतत् ?

कञ्चुकी—देव ! अत इदम्—।

राजा—आर्य ! स्फुटमभिधीयताम् ।

कञ्चुकी—देव ! प्रतिषिद्ध कौमुदीमहोत्सव ।

राजा—[सक्रोधम्] आ केन ?

कञ्चुकी—नात परमस्माभिर्देवो विज्ञापयितु शक्यते ।

राजा—न खल्वार्येण चाणक्येनापहृत प्रेक्षकाणामतिशयरमणीय-श्चक्षुषो विषय ?

कञ्चुकी—देव ! कोऽन्यो जीवितुकामो देवस्य शासनमतिवर्तेत ?

राजा—शोणोत्तरे ! उपवेष्टुमिच्छामि ।

प्रतीहारी—देव ! एदं सिहामणं । उपविसदु देवो । (देव ! एतत् सिंहासनम् । उपविशतु देव ।)

राजा—[ नाट्येनोपविश्य ] आर्य वैहीनरे ! आर्यचाणक्य द्रष्टुमिच्छामि ।

कञ्चुकी—यदाज्ञापयति देव । [इति निष्क्रान्त ]

[ तत प्रविशतपासनस्थ स्वभवनगत कोपानुविद्धा चिन्ता नाटयन् चाणक्य ।]

चाणक्य —[आत्मगतम्] कथ स्पर्धते मया सह दुरात्मा राक्षस-हतक ! कुत ?—

हिन्दी अनुवादकंचुकी—महाराज ! यह ऐसा (ही) है ।

राजा—यह क्या है ?

कंचुकी—महाराज ? इसलिए यह—

राजा—आर्य ! स्पष्ट बतलाइए ।

तृतीयोऽङ्कः १८१

कंचुकी—महाराज ! कौमुदीमहोत्सव रोक दिया गया ।
राजा—[क्रोध के साथ] ऐं, किसके द्वारा ?
कंचुकी—मैं इससे अधिक निवेदन महाराज से नही कर सकता हूँ ।
राजा—(क्या) आर्य चाणक्य ने तो देखने वालों की आँखों का (यह) अत्यन्त सुन्दर दृश्य नही लूट लिया ?
कंचुकी—महाराज ! दूसरा कौन जीवन चाहने वाला महाराज की आज्ञा का उल्लंघन करेगा ?
राजा—शोणोत्तरा ! मैं बैठना चाहता हूँ ।
प्रतीहारी—महाराज ! यह सिंहासन है, आप विराजें ।
राजा—[अभिनयपूर्वक बैठकर] आर्य वैहीनरि ! मैं आर्य चाणक्य को देखना चाहता हूँ ।
कंचुकी—महाराज की जो आज्ञा । [बाहर चला जाता है ।]
[तब अपने भवन में आसन पर विराजमान, क्रोधपूर्वक चिन्ता का अभिनय करते हुए चाणक्य का प्रवेश]
चाणक्य—[ मन में ] दुष्ट राक्षस मेरे साथ क्यों स्पर्धा कर रहा है ? क्योंकि—

टिप्पणीविज्ञापयितुम्—बोधयितुम्, निवेदन करने के लिए । वि√ज्ञा + णिच्, पुक् + तुमुन् । प्रेक्षकाणाम्—दर्शकानाम् । चक्षुषः विषयः—नेत्रस्य विषयः दृश्यपदार्थ इत्यर्थः । अपहृतः—प्रतिषिद्धः । जीवितुकामः—जीवनाभिलाषी । जीवितुं कामः अस्य इति जीवितुकामः बहुव्रीहि स०, ‘लुम्पेदवश्यमः कृत्ये तुंकाममनसोरपि’ इति कारिकाबलात् मलोपः । अतिवर्तेत—उल्लङ्घयेत् । कोपानुविद्धाम्—कोपेन क्रोधेन अनुविद्धा सम्बद्धा क्रोधसहितामित्यर्थः, ताम् । राक्षसह्रतकः—कुत्सितः राक्षसः इति राक्षसह्रतकः ‘कुत्सितानि कुत्सनैः’ इत्यनेन समासः ।

कृतागाः कौटिल्यो भुजग इव निर्याय नगराद्
यथा नन्दान् हत्वा नृपतिमकरोन्मौर्यवृषलम् ।
तथाऽहं मौर्येन्दोः श्रियमपहरामीति कृतधीः
प्रभावं मद्बुद्धेरतिशयितुमेष व्यवसितः ॥११॥

१८२मुद्राराक्षसम्

**अन्वय—**यथा कृतागा कौटिल्य भुजग इव नगरात् निर्याय नन्दान् हत्वा मौर्यवृषल नृपतिम् अकरोत् तथा अह मौर्यन्दो श्रियम् अपहरामि इति कृतधी एष मद्बुद्धे प्रभावम् अतिशयितु व्यवसित ॥११॥

**व्याख्या—**यथा—येन प्रकारेण, कृतागा—कृतम् आचरितम् आग अपराध यस्मिन् तादृश, कौटिल्य—चाणक्य, भुजग इव—सर्प इव, नगरात्—कुसुमपुरात्, निर्याय—निःसृत्य, नन्दान्—एतदाख्यनृपतीन्, हत्वा—विनाश्य, मौर्यवृषल—चन्द्रगुप्तम्, नृपतिम्—राजानम्, अकरोत्—व्यदधात्, तथा—तेन प्रकारेण, अह—राक्षस, मौर्यन्दो—चन्द्रगुप्तस्य, श्रियम्—राज-लक्ष्मीम्, अपहरामि—अपनयामि, इति—इत्थम्, कृतधी—कृता कल्पिता धी बुद्धि येन तादृश कृतसङ्कल्प इत्यर्थ, एष—राक्षस, मद्बुद्धे—मदीयाया, मते, प्रभावम्—प्रकर्षम्, अतिशयितुम्—अतिवर्तितुम्, व्यवसित—समुद्यत ( अस्ति ) ॥ ११ ॥

**हिन्दी अनुवाद—**जिस प्रकार अपराध किये जाने पर चाणक्य ने सांप की तरह नगर से बाहर जाकर नन्दो का विनाश करके चन्द्रगुप्त को राजा बना दिया उसी प्रकार मैं चन्द्रगुप्त की लक्ष्मी का अपहरण कर लूंगा—ऐसा निश्चय करने वाला यह ( राक्षस ) मेरी बुद्धि के प्रभाव को नीचा दिखाने के लिए प्रयत्नशील है ॥ ११ ॥

**टिप्पणी—**कृतगा—जिसका अनिष्ट किया गया हो। भुजग इव—सांप की तरह। भुजेन कुटिलगत्या गच्छतीति भुज् √गम् + कतरि = भुजग, खच्प्रत्यये तु भुजङ्गम। जैसे सांप आघात पहुँचाने वाले से समय पाकर बदला ले लेता है, उसी तरह चाणक्य ने भी अपने अपमानकर्ता नन्द से बदला लिया था। इसीलिए यहाँ भुजग की उपमा दी गई है। अतिशयितुम्—अति क्रमण करने के लिए। अति √शी + तुमुन्। यद्यपि शी धातु अकर्मक है, किन्तु यहाँ उपसर्ग के कारण सकर्मक हो गई है। व्यवसित—उद्यत, कटिबद्ध। वि-अव √सो + क्त कर्तरि। इसका कर्ता 'एष' है, जो राक्षस के लिए आया है। इस श्लोक में उपमा अलकार है और और शिखरिणी छन्द है। शिखरिणी का लक्षण १,१३ मे देखिए ॥ ११ ॥

[प्रत्यक्षवदाकाशे लक्ष्यं बद्ध्वा] राक्षस ! राक्षस ! विरम्यतामस्माद्-दुर्व्यवसितात् ।

तृतीयोऽङ्कः१८३

उत्सिक्तः कुसचिवदृष्टराज्यतन्त्रो
नन्दोऽसौ न भवति चन्द्रगुप्त एषः।
चाणक्यस्त्वमपि च नैव केवलं ते
साधर्म्यं मदनुकृतेः प्रधानवैरम् ॥ १२ ॥

अन्वय—एषः चन्द्रगुप्तः उत्सिक्तः कुसचिवदृष्टराज्यतन्त्रः असौ नन्दः न भवति । त्वमपि च नैव चाणक्यः । केवलं प्रधानवैरं ते मदनुकृतेः साधर्म्यम् ॥ १२ ॥

व्याख्या—एषः—अयम्, चन्द्रगुप्तः—मौर्यः (भवति), उत्सिक्तः—गर्वितः, कुसचिवदृष्टराज्यतन्त्रः—कुसचिवैः कुत्सितामात्यैः दृष्टम् अवलोकितम् राज्यतन्त्रम् राज्यभारः यस्य तादृशः, असौ—अयं, नन्दः—तदाख्यः नृपः, न भवति—नास्ति । त्वमपि च—भवानपि, नैव—नह्येव, चाणक्यः—कौटिल्यः (असि) । केवलम्—एकम्, प्रधानवैरम्—मुख्यशत्रुता, ते—तव, मदनुकृतेः—ममानुकरणस्य, साधर्म्यम् (अस्ति) ॥ १२ ॥

हिन्दी अनुवाद—[आकाश में प्रत्यक्ष (देखते हुए) की तरह दृष्टि बाँधकर] राक्षस ! राक्षस ! इस दुष्प्रयत्न से विरत हो जाओ ।

यह चन्द्रगुप्त है, गर्वित तथा बुरे मंत्रियों को राज्य-भार सौंपने वाला नन्द यह नहीं है और तुम भी चाणक्य नहीं ही हो । केवल मुख्य शत्रुता तुम्हारे मेरे अनुकरण की समानता रखती है ॥ १२ ॥

टिप्पणी—राक्षस राक्षस !—यहाँ कार्य का नैरन्तर्य सूचित करने के लिए शब्द की आवृत्ति की गई है । विरम्यताम्—निवृत्यताम् । दुर्व्यवसितात् — दुः दुष्टं व्यवसितं व्यापारः, तस्मात् । अत्र 'जुगुप्साविरामप्रमादार्थानामुपसंख्यानम्' इति वार्तिकेन अपादानसंज्ञा—पञ्चमी । प्रधानवैरम्—यहाँ चाणक्य कहना चाहता है कि हे राक्षस ! तुम बुद्धिप्रकर्षादि मे मेरी बराबरी नहीं कर सकते हो । केवल प्रमुख राजा के साथ वैर करने में मेरे साथ तुम्हारी समानता है । क्योकि जैसे मैने नन्दों को समूल नष्ट कर दिया वैसे तुम भी चन्द्रगुप्त को समूल नष्ट करना चाहते हो; किन्तु न तो चन्द्रगुप्त के समान पराक्रमी राजा नन्द था और न मेरे जैसे बुद्धिमान् मंत्री तुम हो । साधर्म्यम्—समानता । समानो धर्मः सधर्मः कर्मधारय स०, समान इत्यस्य सादेशः । स एव इति

२८४ मुद्राराक्षसम्

सधर्म+ष्यञ् स्वार्थे । अथवा समानो धर्म अस्य इति सधर्मा बहुव्रीहि स०, सादेश, 'धर्मादनिच् केवलात्' इति सूत्रेण अनिच् प्रत्यय । सधर्मणो भावः इति सधर्मन् + ष्यञ् = साधर्म्यम् । इस श्लोक मे परिकर तथा व्यतिरेक अल- कारो की ससृष्टि है । इसमें प्रहर्षिणी छन्द है। प्रहर्षिणी का लक्षण १, ७ मे देखिए ॥ १२ ॥

[विचिन्त्य] अथवा नातिमात्रमस्मिन् वस्तुनि मया मन खेदयित- व्यम्। कुत ?—

मद्भूत्यै किल सोऽपि पर्वतसुतो व्याप्त प्रविष्टान्तरै- सद्युक्ताश्च नियोगसाधनविधौ सिद्धार्थकाद्या स्पशा । कृत्वा सम्प्रति कैतवेन कलह मौर्येन्दुना राक्षसं भेत्स्यामि स्वमतेन भेदकुशलो ह्येष प्रतीप द्विप ॥ १३ ॥

अन्वय—स पर्वतसुत अपि प्रविष्टान्तरे मद्भूत्यै व्याप्त किल च सिद्धार्थकाद्या स्पशा नियोगसाधनविधौ उद्युक्ता । सम्प्रति भेदकुशल- ( अहम् ) कैतवेन मौर्येन्दुना कलह कृत्वा प्रतीप राक्षसम् एष स्वमतेन द्विप- भेत्स्यामि ॥ १३ ॥

व्याख्या—स —प्रसिद्ध, पर्वतसुत —मलयकेतु, अपि, प्रविष्टान्तरे — प्रविष्टम् आयत्तीकृतम् अन्त अन्त करण ये तादृशे, मद्भूत्यै —मत्सेवकै- भागुरायणादिभिरित्यर्थ, व्याप्त किल—परिवृत एव वश्यता प्रापित एवेत्यर्थ, च—पुन सिद्धार्थकाद्या —सिद्धार्थकप्रमुखा, स्पशा —चरा, नियोगसाधन- विधौ—नियोगस्य निदेशन्य साधन सम्पादन तदेव विधि व्यापार तस्मिन्, उद्युक्ता —तत्परा ( सन्ति ) । सम्प्रति—अधुना, भेदकुशल —भेदे पार्थक्ये कुशल निपुण ( अह ), कैतवेन—छलेन, मौर्येन्दुना—चन्द्रगुप्तेन ( सह ), कलह कृत्वा—विवाद प्रस्तुत्य, प्रतीप—प्रतिकूल, राक्षसम्, एष —अचिरात्, स्वमतेन—आत्मच्छन्देन, द्विप —शत्रो मलयकेतोरित्यर्थ, भेत्स्यामि— पृथक्करिष्यामि ॥ १३ ॥

हिन्दी अनुवाद—[सोचकर] अथवा इस विषय मे मुझे ( अपने ) मन को अत्यन्त खिन्न नही करना चाहिए । क्योकि—

यह मलयकेतु भी हृदय मे बैठे हुए ( अर्थात् शत्रु के हृदय पर अधिकार

तृतीयोऽङ्कः १०५

किये हुए ), मेरे अनुचरों से घिरा हुआ है, और सिद्धार्थक आदि गुप्तचर भी निर्दिष्ट कार्यों के सम्पादन में लगे हुए हैं । सम्प्रति फूट डालने में कुशल ( मैं ) चन्द्रगुप्त के साथ बनावटी रूप से झगड़ा करके प्रतिकूल राक्षस को शीघ्र ही अपनी बुद्धि के अनुसार शत्रु ( मलयकेतु ) से अलग कर दूंगा ॥ १२ ॥

टिप्पणीअतिमात्रम्—अतिशयम् । अतिक्रान्ता मात्रा प्रमाणं यस्मिन् कर्मणि तत् अतिमात्रम् प्रादिबहुव्रीहि स० । क्रियाविशेषणमेतत् । उद्युक्ताः—तत्पर । युज् समाधौ दिवादिःकर्मकः । उद्√युज्+क्त कर्तरि वर्तमाने । प्रतीपम्—प्रतिकूल । प्रतिगताः आपः अस्मिन् इति प्रतीपः प्रादिबहुव्रीहि स०, समासान्तः अप्रत्ययः, 'द्व्यन्तरुपसर्गेभ्योऽप ईत्' इत्यनेन ईत्वम् । इसका अभिधार्थ है—वह स्थान जहाँ से धारा मुड़ती है, किन्तु लक्षणार्थ है—प्रतिकूल । तम्। यह 'राक्षसम्' का विशेषण है। स्वमतेन—यथारुचि । अत्र करणे हेतौ वा तृतीया । इस श्लोक के 'मौर्येन्दु' पद मे कर्मधारय तथा उपमित दोनों समासों की संभावना है, इसलिए उपमा या रूपक अलंकार समझना चाहिए । इसमें गौड़ी रीति है, ओज गुण है और शार्दूलविक्रीडित छन्द है ॥ १३ ॥

कञ्चुकी—[प्रविश्य] कष्टं खलु सेवा नाम ! कुतः ?—

भेतव्यं नृपतेस्ततः सचिवतो राज्ञस्ततो वल्लभा- दन्येभ्यश्च वसन्ति येऽस्य भवने लब्धप्रसादा विटाः । दैन्यादुन्मुखदर्शनापलपनैः पिण्डार्थमायस्यतः सेवां लाघवकारिणीं कृतधियः स्थाने श्ववृत्तिं विदुः ॥ १४ ॥

अन्वयः—नृपतेः भेतव्यम्, ततः सचिवतः, ततो राज्ञो वल्लभात्, अन्येभ्यश्च ये लब्धप्रसादा विटा अस्य भवने वसन्ति । स्थाने कृतधियः दैन्यात् उन्मुखदर्शनापलपनैः पिण्डार्थम् आयस्यतः लाघवकारिणीं सेवां श्ववृत्तिं विदुः ॥ १४ ॥

व्याख्या—नृपतेः—भूपात्, भेतव्यम् — शङ्कितव्यम्, ततः—तदनन्तरं, सचिवतः—अमात्यात्, ततः—तत्पश्चात्, राज्ञः नृपतेः, वल्लभात्—प्रियजनात्, अन्येभ्यश्च—इतरेभ्यश्च ये, लब्धप्रसादाः—प्राप्तानुग्रहाः, विटाः—धूर्ताः, अस्य—राज्ञः, भवने—गृहे, वसन्ति—तिष्ठन्ति । स्थाने—युक्तम् (एव यत्), कृतधियः—कृता शिक्षिता धीः बुद्धिः येषां ते पण्डिता इत्यर्थः, दैन्यात्—दरिद्रतया हेतुना,

१८६ मुद्राराक्षसम्

उन्मुखदर्शनापलपने — उत् ऊर्ध्वं मुखं यस्मिन् कर्मणि तत् उन्मुखम् उद्ग्रीव यथा स्यात् तथा दर्शनानि वीक्षितानि अपलपनानि मिथ्याभाषनानि च तैः, पिण्डार्थम्—भोज्यार्थम्, आयस्यत —क्लिश्यमानस्य, (सेवकस्य) लाघवकारिणी—लघुतासम्पादिनी, सेवा—शुश्रूषा, श्ववृत्ति—कुक्कुरलीला, विदु —मन्यन्ते ॥ १४ ॥

हिन्दी अनुवाद—कञ्चुकी—[प्रवेश करके] सेवा दुःखद (वस्तु) है। क्योंकि—

राजा से डरना चाहिए, उसके बाद मंत्री से, तत्पश्चात् राजा के प्रियपात्र से, (फिर उन) इतर व्यक्तियो से, जो कृपापात्र धूर्त इस (राजा) के घर में रहते हैं। ठीक (ही है कि) विद्वानों ने दीनता के कारण ऊपर मुख करके देखने और मिथ्या भाषणों से जीविका के लिए कष्ट उठाते हुए (सेवक) की तुच्छ बनाने वाली सेवा को कुत्ते की वृत्ति माना है ॥ १४ ॥

टिप्पणीकष्टम्—अत्र सामान्ये नपुंसकम्। उन्मुखदर्शनापलपनै — अप √ लप् + ल्युट् भावे = अपलपनम् = मिथ्या भाषण, झूठमूठ की प्रशंसा। कुत्ते के पक्ष में—पीटे जाने के भय से शरीर को सिकोडना। श्ववृत्तिम्—शुनो वृत्तिमिव वृत्तिम्। जैसे कुत्ता उदरपूर्ति के लिए स्वामी को देखकर ऊपर को मुंह उठाता है, भूकता है और पिटाई के डर से देह को सिकोडता है, उसी तरह सेवक भी राजा और उनके कृपापात्रवर्ग के साथ बरतता हुआ कालयापन करता है। इसीलिए अन्यत्र भी कहा गया है—'सेवा श्ववृत्तिराख्याता'। इस श्लोक में कंचुकी का निर्वेद दिखाया गया है और उसे निर्वेद इसलिए हुआ है कि वह चाणक्य और चन्द्रगुप्त के कपटवैमनस्य को यथार्थ समझ रहा है। इस पद्य में काव्यलिंग अलंकार है, वैदर्भी रीति है, प्रसाद गुण है और शार्दूलविक्रीडित छंद है। उस छंद का लक्षण १, १२ में देखिए ॥ १४ ॥

[परिक्रम्यावलोक्य च] इदमार्यचाणक्यस्य गृहं, यावत् प्रविशामि। [नाट्येन प्रविश्यावलोक्य च] अहो ! राजाधिराजमन्त्रिणो गृहभूतिः! कुतः ?—

उपलशकलमेतद् भेदकं गोमयानां
वटुभिरुपहृतानां बर्हिषां स्तोम एष

तृतीयोऽङ्कः १८७

शरणमपि समिद्भिः शुष्यमाणाभिराभि-
र्विनमितपटलान्तं दृश्यते जीर्णकुड्यम् ॥ १५ ॥

अन्वय—गोमयानां भेदकम् एतत् उपलशकलम, वटुभिः उपहृतानां बर्हिषाम् एषः स्तोमः, शुष्यमाणाभिः समिद्भिः विनमितपटलान्तं जीर्णकुड्यं शरणमपि दृश्यते ॥ १५ ॥

व्याख्या—गोमयानां करीषाणां शुष्काणामिति शेषः, भेदकम्—पेषकम्, एतत्—दृश्यमानम्, उपलशकलम्—प्रस्तरखण्डं (दृश्यते), वटुभिः—छात्रभूतैः विप्रकुमारैः, उपहृतानां—समानीतानां, बर्हिषां—कुशानाम्, एषः—अयम्, स्तोमः—समूहः (दृश्यते), शुष्यमाणाभिः—आतपे शोषं गच्छन्तीभिः, आभिः—दृश्यमानाभिः, समिद्भिः—काष्ठैः, विनमितपटलान्तं—विनमितः नम्रीभूतः पटलान्तः छदिप्रान्तः यस्य तादृशम्, जीर्णकुड्यं—जीर्णं विशीर्णं कुड्यं भित्तिः यस्य तादृशं, शरणमपि—गृहञ्च, दृश्यते—अवलोक्यते ॥ १५ ॥

हिन्दी अनुवाद—[घूमकर और देखकर] यह आर्य चाणक्य का घर है, भीतर चलूँ। [अभिनय के साथ भीतर जाकर और देखकर] अरे ! (यह है) चक्रवर्ती राजा के मंत्री की गृह-विभूति !! क्योंकि—

(सूखे) गोबरों को तोड़ने वाला यह पत्थर का टुकड़ा (दिखाई दे रहा) है, ब्रह्मचारियों द्वारा लाये हुए कुशों का यह ढेर (दिखाई दे रहा) है। और सूखती हुई समिधाओं (के भार) से झुकी हुई ओलती वाला तथा पुरानी दीवारों वाला घर भी दिखाई दे रहा है।

टिप्पणीराजाधिराजमन्त्रिणः—अधिको राजा अधिराजः प्रादितत्०, समासान्तः टचप्रत्ययः, राज्ञाम् अधिराजः षष्ठीतत्०, तस्य मन्त्री षष्ठीतत्०, तस्य। राजाओं के भी विशेष राजा अर्थात् चक्रवर्ती के मंत्री की। गृहभूतिः—घर का ऐश्वर्य। गोमयानाम्—गोबरों या उपलों का। गोः पुरीषम् इति गो + मयट् = गोमयानि, तेषाम् कृद्योगे कर्मणि षष्ठी। स्तोमः—ढेर। कही ‘कूटमेतत्’ पाठ है। कूट का भी अर्थ ढेर होता है। ‘कूतोऽस्त्री निश्चले राशौ’ इति मेदिनी। समिद्भिः—लकडियो से। समिध्यते आभिः इति सम् √ इन्ध् + क्विप् करणे = समिधः, ताभिः। अनुक्ते कर्तरि तृतीया। विनमितपटलान्तम्—जिसके छप्पर की ओलती झुक गई हो। वि √ नम् + क्त कर्मणि—विनमितः।

१८८ मुद्राराक्षसम्

तादृश पटलान्तं यस्य तत् । यह 'शरणम्' का विशेषण है । शरणम्—घर, कुटी । 'शरण गृहरक्षितो ' इत्यमर । इस श्लोक मे स्वभावोक्ति नामक अलकार है, वैदर्भी रीति है, प्रसाद गुण है और मालिनी छन्द है । मालिनी का लक्षण यह है—'ननमयययुतेय मालिनी भोगिलोकै ' ॥ १५ ॥

तत् स्थाने खल्वस्य वृषलो देवश्चन्द्रगुप्त इति । कुत —

स्तुवन्त्यश्रान्तास्या क्षितिपतिमभूतैरपि गुणै प्रवाच कार्पण्याद् यदवितथवाचोऽपि कृतिन । प्रभावस्तृष्णाया म खलु सकल स्यादितरथा निरीहाणामीशस्तृणमिव तिरस्कारविषय ॥ १६ ॥

**अन्वय—**अवितथवाच कृतिन अपि यत् कार्पण्यात् प्रवाच ( सन्त ) अश्रान्तास्या ( भूत्वा ) अभूतैरपि गुणै क्षितिपतिं स्तुवन्ति स खलु तृष्णाया सकल प्रभाव । इतरथा निरीहाणाम् ईश तृणमिव तिरस्कारविषय स्यात् ॥ १६ ॥

**व्याख्या—**अवितथवाच —अवितथा सत्या वाक् वाणी येषा तादृशा , कृतिन अपि—विद्वांस अपि, यत्, कार्पण्यात्—दैन्यात् हेतो , प्रवाच —वाचाला ( सन्त ), अश्रान्तास्या —अश्रान्त श्रमरहितम् आस्य मुख येषा तादृशा ( भूत्वा ), अभूतै अपि—अविद्यमाने अपि, गुणै —दयादाक्षिण्यादिभि , क्षितिपति—राजान, स्तुवन्ति—उपश्लोकयन्ति, स , खलु—निश्चितम्, तृष्णाया —लोभस्य, सकल —सम्पूर्ण, प्रभाव —माहात्म्यम् । इतरथा—अन्यथा, निरीहाणाम्—कामनारहितानाम् ( जनाना सम्बन्धे ), ईश —प्रभु राजा इत्यर्थ , तृणमिव—शष्पमिव, तिरस्कारविषय —अनादरपात्र, स्यात्—भवेत् ॥ १६ ॥

**हिन्दी अनुवाद—**इसलिए इस ( चाणक्य ) का महाराज चन्द्रगुप्त को वृषल (शूद्र) कहना उचित है । क्योकि—

सत्य वाणी बोलने वाले विद्वान् भी जो दीनता के कारण वाचाल तथा अश्रान्तमुख होकर अविद्यमान गुणो से भी राजा की स्तुति करते हैं, वह निश्चित रूप से तृष्णा का पूरा प्रभाव है, अन्यथा निरीह व्यक्तियो के लिए प्रभु (राजा) तृण के समान तिरस्कार का विषय (अर्थात् तुच्छ) होता है ॥ १६ ॥

तृतीयोऽङ्कः १८६

**टिप्पणी—अवितथवाचः—**जिनकी वाणी असत्य नही होती अर्थात् सत्यवक्ता । तथा = सत्य । विगतं तथा अस्याः इति वितथा बहुव्रीहि स० । न वितथा अवितथा नञ्तत्० तादृशी वाक् येषां बहुव्रीहि स० । **प्रवाचः—**बहुत बोलने वाले । प्रभूता वाक् एषाम् प्रादिवहुव्रीहि स० । **अश्रान्तास्याः—**न थके हुए मुख वाले । यह ‘कृतिनः’ का विशेषण है । किसी पुस्तक मे ‘श्रान्तास्याः’ पाठ है । उसका अर्थ होगा—थके हुए मुख वाले अर्थात् जब तक मुख थक नही जाता तब तक । **प्रभावः—**प्रकृष्टो भावः प्रभावः प्रादितत्०। यहाँ 'प्र√भू+घञ्' ऐसा नही कर सकते; क्योकि 'श्रिणीभुवोऽनुपसर्गे' सूत्र से उपसर्ग में घञ् नही होता । **निरीहाणाम्—**निःस्पृहों का । कहा भी है—'निःस्पृहस्य तृण जगत्' । ईहायाः निष्क्रान्ता इति निरीहाः 'निरादयः क्रान्ताद्यर्थे पञ्चम्या' इत्यनेन तत्पुरुषसमासः । **तिरस्कारविषयः—**तिरस्कार करने की वस्तु । तिरस्√कृ+घञ् भावे = तिरस्कार वा तिरःकारः 'तिरसोऽन्यतरस्याम्' इत्यनेन सत्वस्य विकल्पात् । तिरस्कारस्य विषयः षष्ठीतत्० । इस श्लोक में विरोधाभास नामक अलकार उपमा अलंकार से संसृष्ट है । इसमे वैदर्भी रीति है, प्रसाद गुण है और शिखरिणी छन्द है । इस छन्द का लक्षण १, १३ में देखिए ॥ १६ ॥

[अवलोक्य सभयम्] तदयमार्यचाणक्यस्तिष्ठति ।

यो नन्दमौर्यनृपयोः परिभूय लोक- मस्तोदयौ प्रतिदिशन्नविभिन्नकालम् । पर्यायपातितहिमोष्णमसर्वगामि धाम्नातिशाययति धाम सहस्रधाम्नः ॥ १७ ॥

**अन्वय—**यः लोकं परिभूय अविभिन्नकालं नन्दमौर्यनृपयोः अस्तोदयौ प्रतिदिशन् सहस्रधाम्नः असर्वगामि पर्यायपातितहिमोष्णं धाम धाम्ना अतिशाययति ॥ १७ ॥

**व्याख्या—**यः—चाणक्यः, लोकं—भुवनं, परिभूय—अवमत्य, अविभिन्नकालं—युगपत्, नन्दमौर्यनृपयोः—नृपस्य नन्दस्य नृपस्य मौर्यस्य च, अस्तोदयौ, ह्रासोपचयौ, प्रतिदिशन्—यच्छन्, सहस्रधाम्नः—सूर्यस्य, असर्वगामि—सर्वं निखिलं भुवनं न गच्छति न व्याप्नोति यत् तादृशं, पर्यायपातितहिमोष्णं—

१६० | मुद्राराक्षसम्

पर्यायेण कालक्रमेण पातितम् अवतारितं हिमं शीतम् उष्णम् आतपञ्च येन तादृश, धाम—तेज , धाम्ना—स्वतेजसा, अतिशाययति—अतिक्रामयति ॥१७॥

हिन्दी अनुवाद—[ देख कर भय के साथ ] वे ये आप चाणक्य विराजमान हैं ।

जो विश्व को पराजित करके ( अर्थात् नन्द और उसके अमात्य आदि को नीति से मोहित करके ) एक ही समय नन्दराज और मौर्यराज को ( क्रमशः ) अस्त और उदय देते हुए सूर्य के सर्वत्र न जाने वाले तथा कालक्रम से सर्दी और गर्मी को गिराने वाले तेज को अपने तेज से अतिक्रान्त कर रहा है ॥ १७ ॥

टिप्पणीलोकम्—संसार या लोगों को । सूर्य-पक्ष में लोक का तात्पर्य है लोकालोक नामक पर्वत से । पर्यायपातितहिमोष्णम्—कालक्रम से सर्दी और गर्मी को उतारने वाले । परि—आ√इ+अच् वा √अय्+घञ् भावे = पर्याय । हिमञ्च उष्णञ्च इति हिमोष्णम् वा हिमोष्णे 'विप्रतिषिद्धं चानधिकरणवाचि' इत्यनेन एकवद्भावस्य विकल्पात् । अतिशाययति—अतिक्रमण कर रहा है, नीचा दिखा रहा है । अति√शी+णिच्+लट्—तिप् । यहाँ भाव यह है कि सूर्य सहस्रधाम होते हुए भी क्रमशः सर्दी और गर्मी देते हैं, किन्तु ये चाणक्य तो एक ही काल में नन्द के लिए शीत और मौर्य के लिए उष्ण हो गए । इसलिए ये सूर्य से भी अधिक प्रतापशाली हैं । इस श्लोक में अतिशयोक्ति अलंकार व्यतिरेक अलंकार से संकीर्ण है । इसमें पाञ्चाली रीति है, ओज गुण है और वसन्ततिलका छन्द है । इस छन्द का लक्षण १, ८ में देखिए ॥ १७ ॥

[ जानुभ्यां भूमौ निपत्य ] जयतु जयत्वार्य ।

चाणक्य—[ नाट्येनावलोक्य ] वैहीनरे ! किमागमनप्रयोजनम् ।

कञ्चुकी—आर्य ! प्रणतसम्भ्रमसमुच्चलितभूमिपालमौलिमाला-माणिक्यशकलशिखापिशङ्गीकृतपादपद्मयुगल सुगृहीतनामधेयो देवश्च-न्द्रगुप्त आर्यं शिरसा प्रणिपत्य विज्ञापयति—'अकृतक्रियान्तरायमार्यं द्रष्टुमिच्छामि इति ।