भारतकोश
मुद्राराक्षसम् (सटीक संस्कृत नाटक)

मुद्राराक्षसम् (सटीक संस्कृत नाटक)

Mudrarakshasam Natakam with Hindi Commentary

महाकवि विशाखदत्त द्वारा

DevanagariSanskritpublished488 पृष्ठ

पृष्ठ 272, कुल 488 में से

संदर्भ में पढ़ें
पृष्ठ 272

तृतीयोऽङ्कः १०५

किये हुए ), मेरे अनुचरों से घिरा हुआ है, और सिद्धार्थक आदि गुप्तचर भी निर्दिष्ट कार्यों के सम्पादन में लगे हुए हैं । सम्प्रति फूट डालने में कुशल ( मैं ) चन्द्रगुप्त के साथ बनावटी रूप से झगड़ा करके प्रतिकूल राक्षस को शीघ्र ही अपनी बुद्धि के अनुसार शत्रु ( मलयकेतु ) से अलग कर दूंगा ॥ १२ ॥

टिप्पणीअतिमात्रम्—अतिशयम् । अतिक्रान्ता मात्रा प्रमाणं यस्मिन् कर्मणि तत् अतिमात्रम् प्रादिबहुव्रीहि स० । क्रियाविशेषणमेतत् । उद्युक्ताः—तत्पर । युज् समाधौ दिवादिःकर्मकः । उद्√युज्+क्त कर्तरि वर्तमाने । प्रतीपम्—प्रतिकूल । प्रतिगताः आपः अस्मिन् इति प्रतीपः प्रादिबहुव्रीहि स०, समासान्तः अप्रत्ययः, 'द्व्यन्तरुपसर्गेभ्योऽप ईत्' इत्यनेन ईत्वम् । इसका अभिधार्थ है—वह स्थान जहाँ से धारा मुड़ती है, किन्तु लक्षणार्थ है—प्रतिकूल । तम्। यह 'राक्षसम्' का विशेषण है। स्वमतेन—यथारुचि । अत्र करणे हेतौ वा तृतीया । इस श्लोक के 'मौर्येन्दु' पद मे कर्मधारय तथा उपमित दोनों समासों की संभावना है, इसलिए उपमा या रूपक अलंकार समझना चाहिए । इसमें गौड़ी रीति है, ओज गुण है और शार्दूलविक्रीडित छन्द है ॥ १३ ॥

कञ्चुकी—[प्रविश्य] कष्टं खलु सेवा नाम ! कुतः ?—

भेतव्यं नृपतेस्ततः सचिवतो राज्ञस्ततो वल्लभा- दन्येभ्यश्च वसन्ति येऽस्य भवने लब्धप्रसादा विटाः । दैन्यादुन्मुखदर्शनापलपनैः पिण्डार्थमायस्यतः सेवां लाघवकारिणीं कृतधियः स्थाने श्ववृत्तिं विदुः ॥ १४ ॥

अन्वयः—नृपतेः भेतव्यम्, ततः सचिवतः, ततो राज्ञो वल्लभात्, अन्येभ्यश्च ये लब्धप्रसादा विटा अस्य भवने वसन्ति । स्थाने कृतधियः दैन्यात् उन्मुखदर्शनापलपनैः पिण्डार्थम् आयस्यतः लाघवकारिणीं सेवां श्ववृत्तिं विदुः ॥ १४ ॥

व्याख्या—नृपतेः—भूपात्, भेतव्यम् — शङ्कितव्यम्, ततः—तदनन्तरं, सचिवतः—अमात्यात्, ततः—तत्पश्चात्, राज्ञः नृपतेः, वल्लभात्—प्रियजनात्, अन्येभ्यश्च—इतरेभ्यश्च ये, लब्धप्रसादाः—प्राप्तानुग्रहाः, विटाः—धूर्ताः, अस्य—राज्ञः, भवने—गृहे, वसन्ति—तिष्ठन्ति । स्थाने—युक्तम् (एव यत्), कृतधियः—कृता शिक्षिता धीः बुद्धिः येषां ते पण्डिता इत्यर्थः, दैन्यात्—दरिद्रतया हेतुना,

मुद्राराक्षसम् (सटीक संस्कृत नाटक) · पृष्ठ 272, कुल 488 में से · BharatKosha