मुद्राराक्षसम् (सटीक संस्कृत नाटक)
Mudrarakshasam Natakam with Hindi Commentary
महाकवि विशाखदत्त द्वारा
पृष्ठ 296, कुल 488 में से
संदर्भ में पढ़ेंतृतीयोऽङ्कः । २०६
ऽनभियुक्तौ इति स्वाधिकाराभ्यामवरोप्य मया स्वजीवनमात्रेणैव स्थापितौवित्यपरक्तौ, गत्वा स्वेन स्वेन चाऽधिकारेण व्यवस्थाप्य मलयकेतुमाश्रितौ। यावेतौ हिङ्गुरातबलगुप्तौ, तावत्यन्तलुब्धप्रकृतौ दत्तं धनमबहुमन्यमानौ 'तत्र बहु लभ्येत' इति मलयकेतुमाश्रितौ। योऽप्यसौ भवतः कुमारसेवको राजसेनः सोऽपि तव प्रसादादतिप्रभूतकोषहस्त्यश्वं सहसैव सुमहदैश्वर्यमवाप्य पुनरुच्छेदशङ्कया मलयकेतुमाश्रितः। योऽयमपरः सेनापतेः सिंहबलस्य कनीयान् भ्राता भागुरायणः, असावपि तत्र काले पर्वतकेन सह समुत्पन्नसौहार्दः तत्प्रीत्या च 'पिता ते चाणक्येन घातितः' इति रहसि त्रासयित्वा मलयकेतुमपवाहितवान्। ततो भवदपथ्यकारिषु चन्दनदासप्रभृतिषु निगृह्यमाणेषु स्वदोषशङ्कयाऽपक्रम्य मलयकेतुमाश्रितः। तेना 'प्यसौ मम प्राणरक्षक' इति कृतज्ञतामनुवर्तमानेन आत्मनोऽन्तरममात्यपदं ग्राहितः। यौ तौ लोहिताक्षविजयवर्माणौ, तावप्यतिमानित्वात् स्वदायादेभ्यस्त्वया दीयमानमसहमानौ मलयकेतुमाश्रितौ—इत्येषामपरागहेतवः।
व्याख्या—एतेषाम्—भद्रभटप्रभृतीनाम्, अपरागहेतून्—विरागकारणानि, श्रोतुम्—आकर्णयितुम्, इच्छामि—वाञ्छामि । अत्र—भद्रभटादिष्वित्यर्थः, यावेतौ, भद्रभटपुरुषदत्तनामानौ, गजाध्यक्षाश्वाध्यक्षौ—हस्तिपालकाश्वपालकौ, एतौ—तौ, स्त्रीमद्यमृगयाशीलौ—नारीमदिराखेटस्वभावौ, हस्त्यश्वावेक्षणे—गजवाजिसंरक्षणे, अनभियुक्तौ—असावधानौ, इति हेतोः, स्वाधिकाराभ्याम्—गजवाजिसंरक्षणात्मकाभ्यामित्यर्थः, अवरोप्य—पृथक्कृत्य, स्वजीवनमात्रेणैव—स्वजीविकानिर्वाहमात्रेणैव, स्थापितौ, इति अपरक्तौ—त्यक्तानुरागौ ( सन्तौ ), गत्वा, स्वेन स्वेन च अधिकारेण—हस्तिपालकत्वेन अश्वपालकत्वेन रूपेणेत्यर्थः, व्यवस्थाप्य—निश्चित्य आत्मानमिति शेषः, मलयकेतुम्—पर्वतकपुत्रम्; आश्रितौ, —अवलम्बितवन्तौ । यावेतौ—यावेतौ—इमौ, हिङ्गुरातबलगुप्तौ—एतदाख्यौ, तौ, अत्यन्तलुब्धप्रकृतौ—परमलोभाविष्टस्वभावौ, दत्तम्—अर्पितम्, धनं—द्रव्यम्, अबहुमन्यमानौ—स्वल्पमवगच्छन्तौ, 'तत्र—मलयकेतुपार्श्वे, बहु—प्रचुरं, लभ्येत—प्राप्येत' इति—अस्मात् कारणात्, मलयकेतुम्, आश्रितौ । योऽप्यसौ—यश्चैषः, भवतः—तव, कुमारसेवकः—बाल्यभृत्यः, राजसेनः, सोऽपि, तव—भवतः, प्रसादात्—अनुग्रहात्, अति प्रभूतकोषहस्त्यश्वं—अति-
मु० रा०—१४