मुद्राराक्षसम् (सटीक संस्कृत नाटक)
Mudrarakshasam Natakam with Hindi Commentary
महाकवि विशाखदत्त द्वारा
पृष्ठ 310, कुल 488 में से
संदर्भ में पढ़ेंतृतीयोऽङ्कः । २२३
नन्दैरानन्दयन्तः पितृवननिलयान् प्राणिनः पश्य चैतान्
निर्वान्त्यद्यापि नैते स्रुतबहलवसावाहिनो हव्यवाहाः ॥ २८॥
अन्वयः—पश्य, दीर्घनिष्कम्पपक्षैः आबद्धचक्रं वियति विचलितैः गृध्रैः धूमैः ध्वस्तार्कभासां दिशां मण्डलं सघनमिव दर्शयन्तः पितृवननिलयान् एतान् प्राणिनः नन्दैः आनन्दयन्तः एते स्रुतबहलवसावाहिनः हव्यवाहाः अद्यापि न निर्वान्ति ॥ २८ ॥
व्याख्या—पश्य—अवलोकय, दीर्घनिष्कम्पपक्षैः—दीर्घाः आयताः निष्कम्पाः निश्चलाश्च ये पक्षाः दलाः तैः करणाभूतैः, आबद्धचक्र—आबद्धानि कृतानि चक्राणि मण्डलानि यस्मिन् कर्मणि तत् यथा स्यात् तथा, वियति—गगने, विचलितैः—भ्रमद्भिः, गृध्रैः धूमैः—गृध्ररूपधूमैः, ध्वस्तार्कभासां—ध्वस्ताः तिरोहिताः अर्कभासः—सूर्यकिरणाः यामु तासा, दिशाम्—आशाना, मण्डलं—चक्रवालं, सघनमिव—समेघमिव, दर्शयन्तः—अवभासयन्तः, पितृवननिलयान्—पितृवनं श्मशानं निलयः आवासः येषां ते तथोक्ताः तान्, एतान्, प्राणिनः—जीवान्, नन्दैः—बहलवसावशिष्टैः, आनन्दयन्तः—प्रीणयन्तः, एते—इमे, स्रुतबहलवसावाहिनः—स्रुताः क्षरिताः याः बहलाः प्रचुराः वसाः मज्जाः ताः ये वाहयन्ति स्रोतःक्रमेण निःसारयन्ति तादृशाः, हव्यवाहाः—वह्नयः चिताग्नय इत्यर्थः, अद्यापि—अधुनापि, न निर्वान्ति—न प्रशाम्यन्ति ॥ २८ ॥
हिन्दी अनुवाद—और भी, देखो, लम्बे और निश्चल पंखों से मण्डल बनाकर आकाश में उड़ते हुए गृध्र रूपी धुओ से छिपी हुई सूर्य-किरणो वाली दिशाओं के समूह को मानों मेघों मे आच्छादित दिखलाती हुई और श्मशान में रहने वाले इन प्राणियों को नन्दों से तृप्त करती हुई ये पिघली हुई अत्यधिक चर्बी को बहाने वाली अग्नियां आज भी शान्त नहीं हो रही है ॥ २८ ॥
टिप्पणी—सघनम्—मेघयुक्त । घनेन सहितम् इति सघनम् 'तेन सहेति'—बहुव्रीहि स० । नन्दैः—अत्र करणे तृतीया । स्रुतबहलवसावाहिनः—स्रुतबहलवसा √वह् + णिच् + णिनि कर्तरि साधुकारिणि । हव्यवाहाः—अग्नि । हव्यं वहन्ति देवेभ्यः प्रापयन्ति इति हव्य √वह् + अण् कर्तरि । निर्वान्ति—बुझती हैं । निर् √वा + लट् + अन्ति । इस श्लोक में भाविक अलंकार उत्प्रेक्षा से संसृष्ट है । इसमें भी स्रग्धरा छन्द है ॥ २८ ॥