भारतकोश
मुद्राराक्षसम् (सटीक संस्कृत नाटक)

मुद्राराक्षसम् (सटीक संस्कृत नाटक)

Mudrarakshasam Natakam with Hindi Commentary

महाकवि विशाखदत्त द्वारा

DevanagariSanskritpublished488 पृष्ठ

पृष्ठ 340, कुल 488 में से

संदर्भ में पढ़ें
पृष्ठ 340

चतुर्थोऽङ्कः २५७

निकृतिः अपमानः, न सोढा—न क्षान्ता, सः अयं—प्रसिद्धः, मनस्वी—मानी ( चाणक्यः ) स्वयङ्कृतनराधिपतेः—स्वयम् आत्मना कृतः सम्पादितः यः नराधिपतिः राजा तस्मात्, मौर्यात्—वृषलात्, इमाम्—एताम्, परिभूतिं—पराभवं, कथं नु—केन प्रकारेण, सहेत—मर्षयेत् ? ॥११॥

हिन्दी अनुवाद—जिसने भूतल पर इन्द्रतुल्य महाराज ( नन्द ) के ( द्वारा किये हुए ) अपने अग्रासन से निष्कासनजन्य अपमान का सहन नहीं किया, वह मनस्वी ( चाणक्य ) स्वयं के बनाये हुए राजा मौर्य से इस तिरस्कार को कैसे सहन करेगा ? ॥११॥

टिप्पणीदेवस्य निकृतिः—अत्र कृद्योगे कर्तरि षष्ठी। मनस्वी—प्रशस्तं मनः अस्ति अस्य इति मनस् + विनि मत्वर्थे। मौर्यात्—अत्र अपादाने पञ्चमी। इस श्लोक में अर्थापत्ति अलंकार अतिशयोक्ति अलंकार से संसृष्ट है। इसमें वसन्ततिलका छन्द है। इस छन्द का लक्षण १, ८ में देखिए ॥११॥

मलयकेतुः—सखे भागुरायण ! चाणक्यस्य तपोवनगमने पुनः प्रतिज्ञारोहणे वा काऽस्य स्वार्थसिद्धिः ?

भागुरायणः—कुमार ! नात्यन्तदुर्बोधोऽयमर्थः यावद्यावत् चाणक्यहतकश्चन्द्रगुप्ताद् दूरीभवति तावत्तावदस्य स्वार्थसिद्धिः ।

शकटदासः—अमात्य ! अलमत्यन्तविकल्पितेन, एतदुपपद्यत एव । कुतः ? पश्यत्वमात्यः—

राज्ञां चूडामणीन्दुद्युतिखचितशिखे मूर्ध्नि विन्यस्तपादः स्वैरेवोत्पाद्यमानं किमिति विषहते मौर्य आज्ञाविघातम् ? । कौटिल्यः कोपनोऽपि स्वयमभिचरणज्ञातदुःखः प्रतिज्ञां दैवात् पूर्णप्रतिज्ञः पुनरपि न करोत्यायतिज्यानिभीतः ॥१२॥

अन्वयः—चूडामणीन्दुद्युतिखचितशिखे राज्ञां मूर्ध्नि विन्यस्तपादः मौर्यः स्वैरेव उत्पाद्यमानम् आज्ञाविघात किमिति विषहते ? स्वयमभिचरणज्ञातदुःखः दैवात् पूर्णप्रतिज्ञः कौटिल्यः कोपनोऽपि आयतिज्यानिभीतः ( सन् ) पुनरपि प्रतिज्ञां न करोति ॥१२॥

व्याख्या—चूडामणीन्दुद्युतिखचितशिखे—चूडामणिः शिरोरत्नं तत् इन्दुः

मु० रा०—१७