मुद्राराक्षसम् (सटीक संस्कृत नाटक)
Mudrarakshasam Natakam with Hindi Commentary
महाकवि विशाखदत्त द्वारा
पृष्ठ 340, कुल 488 में से
संदर्भ में पढ़ेंचतुर्थोऽङ्कः २५७
निकृतिः अपमानः, न सोढा—न क्षान्ता, सः अयं—प्रसिद्धः, मनस्वी—मानी ( चाणक्यः ) स्वयङ्कृतनराधिपतेः—स्वयम् आत्मना कृतः सम्पादितः यः नराधिपतिः राजा तस्मात्, मौर्यात्—वृषलात्, इमाम्—एताम्, परिभूतिं—पराभवं, कथं नु—केन प्रकारेण, सहेत—मर्षयेत् ? ॥११॥
हिन्दी अनुवाद—जिसने भूतल पर इन्द्रतुल्य महाराज ( नन्द ) के ( द्वारा किये हुए ) अपने अग्रासन से निष्कासनजन्य अपमान का सहन नहीं किया, वह मनस्वी ( चाणक्य ) स्वयं के बनाये हुए राजा मौर्य से इस तिरस्कार को कैसे सहन करेगा ? ॥११॥
टिप्पणी—देवस्य निकृतिः—अत्र कृद्योगे कर्तरि षष्ठी। मनस्वी—प्रशस्तं मनः अस्ति अस्य इति मनस् + विनि मत्वर्थे। मौर्यात्—अत्र अपादाने पञ्चमी। इस श्लोक में अर्थापत्ति अलंकार अतिशयोक्ति अलंकार से संसृष्ट है। इसमें वसन्ततिलका छन्द है। इस छन्द का लक्षण १, ८ में देखिए ॥११॥
मलयकेतुः—सखे भागुरायण ! चाणक्यस्य तपोवनगमने पुनः प्रतिज्ञारोहणे वा काऽस्य स्वार्थसिद्धिः ?
भागुरायणः—कुमार ! नात्यन्तदुर्बोधोऽयमर्थः यावद्यावत् चाणक्यहतकश्चन्द्रगुप्ताद् दूरीभवति तावत्तावदस्य स्वार्थसिद्धिः ।
शकटदासः—अमात्य ! अलमत्यन्तविकल्पितेन, एतदुपपद्यत एव । कुतः ? पश्यत्वमात्यः—
राज्ञां चूडामणीन्दुद्युतिखचितशिखे मूर्ध्नि विन्यस्तपादः स्वैरेवोत्पाद्यमानं किमिति विषहते मौर्य आज्ञाविघातम् ? । कौटिल्यः कोपनोऽपि स्वयमभिचरणज्ञातदुःखः प्रतिज्ञां दैवात् पूर्णप्रतिज्ञः पुनरपि न करोत्यायतिज्यानिभीतः ॥१२॥
अन्वयः—चूडामणीन्दुद्युतिखचितशिखे राज्ञां मूर्ध्नि विन्यस्तपादः मौर्यः स्वैरेव उत्पाद्यमानम् आज्ञाविघात किमिति विषहते ? स्वयमभिचरणज्ञातदुःखः दैवात् पूर्णप्रतिज्ञः कौटिल्यः कोपनोऽपि आयतिज्यानिभीतः ( सन् ) पुनरपि प्रतिज्ञां न करोति ॥१२॥
व्याख्या—चूडामणीन्दुद्युतिखचितशिखे—चूडामणिः शिरोरत्नं तत् इन्दुः
मु० रा०—१७