मुद्राराक्षसम् (सटीक संस्कृत नाटक)
Mudrarakshasam Natakam with Hindi Commentary
महाकवि विशाखदत्त द्वारा
पृष्ठ 373, कुल 488 में से
संदर्भ में पढ़ें| २६० | मुद्राराक्षसम् |
|---|
टिप्पणी—निष्क्रमितुकामानाम्—बाहर जाने के इच्छुको को । निष्क्रमितुम् इत्यत्र भावे तुमुन् 'अव्ययकृतो भावे' इति नियमात् । अतएव निष्क्रमितुम् अर्थात् निष्क्रमणे कामः एषाम् इति निष्क्रमितुकामा व्यधिकरणबहुव्रीहि स०, 'तुङ्काममनसोरपि' इति कारिकया मलोप । तेषाम् । मुद्रासम्प्रदानम्—गमनागमनादेशपत्रमित्यर्थः, पारपत्र ( पासपोर्ट ) । निभृतपदसञ्चारा—त्यक्तचरणक्षेपता निवृत्तगमनेति यावत् । पिदधामि—अत्र 'वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयो । आपञ्चापि हलन्ताना यथा वाचा निशा दिशा ॥' इति कारिकया अप्युपसर्गाकारस्य लोप । राक्षसस्य मित्रम् भागुरायण को यह नही मालूम है कि जीवसिद्धि चाणक्य का मित्र एव गुप्तचर है, इसीलिए उसने ऐसा स्वगत कहा है ।
क्षपणक —[ कर्णौ विधाय ] सन्त, पाव, सन्त पाव । सावका ! र्तार्ह ज्जेव गमिस्स जहिं रक्खसस्स पिसाचस्स वा णाम पि ण सुणीअदि । ( शान्तं पाप शान्त पापम् । उपासक ! तत्रैव गमिष्यामि, यत्र राक्षसस्य पिशाचस्य वा नामापि न श्रूयते । )
भागुरायण —भदन्त ! बलीयास्ते सुहृदि प्रणयकोप । तत् किमपराद्धं राक्षसेन भदन्तस्य ?
क्षपणक —सावका ! ण मम किं पि रक्खसेण अवलद्ध, सअ ज्जेव्व मन्दभाओ अत्तणो कम्मसु लज्जामि । ( उपासक ! न मे किमपि राक्षसेनापराद्ध, स्वयमेव मन्दभाग्य आत्मनः कर्मसु लज्जे । )
भागुरायण —भदन्त ! वर्धयसि मे कुतूहलम् ।
मलयकेतु —[ स्वगतम् ] मम च ।
भागुरायण —श्रोतुमिच्छामि ।
मलयकेतु —[ स्वगतम् ] अहमपि ।
क्षपणक —सावका ! कि एदिणा असुणिदव्वेण सुदेण ? (उपासक ! किमेतेनाश्रोतव्येन श्रुतेन ? )
भागुरायण—भदन्त ! यदि रहस्य, तदा तिष्ठतु ।
क्षपणक —सावका ! ण हि रहस्स । (उपासक ! न हि रहस्यम् ।)
भागुरायण —तर्हि कथ्यताम् ।