मुद्राराक्षसम् (सटीक संस्कृत नाटक)
Mudrarakshasam Natakam with Hindi Commentary
महाकवि विशाखदत्त द्वारा
पृष्ठ 377, कुल 488 में से
संदर्भ में पढ़ें| २६४ | मुद्राराक्षसम् |
|---|
न करके पर्वतेश्वर के प्रति कर दिया । राक्षस ने इस रहस्य को नहीं समझा । अतएव उसने भाग्य को इसके लिए दोषी ठहराया । सनिकारम्—सापमानम् । निर्वासित —निष्कासित । तादृशम्—पर्वतेश्वरघातनसदृशम् । गूढार्थस्तु मलयकेतुनिग्रहरूपं कार्यम् । जीवलोकात्—संसारात् । प्रतिश्रुतराज्यार्धम्—प्रतिश्रुतं च तद्राज्यार्धम् प्रतिश्रुतराज्यार्धम् = प्रतिज्ञा-तराज्यार्धभागम् । अयच्छता—अददता । अकार्यम्—पर्वतेश्वरघातनात्मकं निन्दितं कर्म ।
मलयकेतुः—
श्रुतं सखे ! श्रवणविदारणं वच सुहृन्मुखाद्रिपुमधिकृत्य भाषितम् । पितुर्वधव्यसनमिदं हि येन मे चिरादपि द्विगुणमिवाद्य वर्धते ॥ ६ ॥
अन्वय — सखे ! रिपुमधिकृत्य भाषितं श्रवणविदारणं वचः सुहृन्मुखात् श्रुतम् येन इदं मे पितुर्वधव्यसनं चिरादपि अद्य द्विगुणमिव वर्धते हि ॥ ३ ॥
व्याख्या— सखे !— मित्र !, रिपुम्—शत्रुम्, अधिकृत्य—उद्दिश्य, भाषित—कथित, श्रवणविदारण—श्रवणयोः कर्णयोः विदारणं भेदकमिव, वच —वचनं सुहृन्मुखात्—सुहृद मित्रस्य शत्रोरेव राक्षसस्य सुहृद जीवसिद्धेः मुखात् आननात्, श्रुतम्—आकर्णितम्, येन—श्रवणेन, इदम्—अनुभूयमान, मे—मम, पितुर्वधव्यसन—तातविनाशजन्यदुःख, चिरादपि चिरकालजातमपि, अद्य—अस्मिन् दिने, द्विगुणमिव—अधिकमिव, वर्धते हि—वृद्धते एव ॥६॥
हिन्दी अनुवाद—मलयकेतु— मित्र ! शत्रु को लक्ष्य करके कहा हुआ कर्णभेदी वचन (राक्षस के) मित्र के मुख से सुन लिया, जिससे यह मेरा पितृ-वध से उत्पन्न दुःख बहुत दिन हो जाने से भी आज मानो दूना बढ़ रहा है ॥६॥
टिप्पणी—श्रवणविदारणम्— कानों को विदीर्ण करने वाला । विदारयति इति वि√दृ + णिच् + ल्युट् कर्तरि बाहुलकात् = विदारणम् । श्रवणयोः विदारणम् षष्ठीतत्० । सुहृन्मुखात्—(राक्षस के) मित्र के मुख से । चूंकि राक्षस