भारतकोश
मुद्राराक्षसम् (सटीक संस्कृत नाटक)

मुद्राराक्षसम् (सटीक संस्कृत नाटक)

Mudrarakshasam Natakam with Hindi Commentary

महाकवि विशाखदत्त द्वारा

DevanagariSanskritpublished488 पृष्ठ

पृष्ठ 388, कुल 488 में से

संदर्भ में पढ़ें
पृष्ठ 388

पञ्चमोऽङ्कः

३०७

टिप्पणी—व्यक्तं चन्द्रगुप्तस्यायं लेखः— चन्द्रगुप्त के लिए यह पत्र लिखा गया है। इसका प्रमाण यह है कि राजा के धारण करने योग्य जो आभूषण मैंने राक्षस के लिए भिजवाया था, वही आभूषण उसने चन्द्रगुप्त के लिए भेजा है। संशयः— संशय्यते असौ इति संशयः सम् √शी + अच् कर्मणि 'एरच्' इत्यनेन । निवेदयामि— अत्र भविष्यत्सामीप्ये लट् । अभयेन— भयस्य अभावः अभयम् अव्ययीभाव स०, तेन । यथावस्थितम्— अवस्थितमनतिक्रम्य यथावस्थितम् अव्ययीभाव स० । याथातथ्येन सर्वं वृत्तमित्यर्थः । निवेद्यताम्— कथ्यताम् ।

सिद्धार्थकः— कुमाल ! संदिट्ठोम्हि अमच्चरक्खसेण, जहा—'एदे मम प्पिअबअस्सा पञ्च राआणो तुए सह पढमसमुप्पण्णसन्धाणा । जहा— कुलूदाहिबो चित्तवम्मा, मलअजणबदाहिबो सिहणादो, कस्सीरदेसणाहो पुक्खरक्खो, सिन्धुराओ सिन्धुसेणो, पारसीआधिबदी मेहक्खो त्ति । एत्थ ज्जेब पढमभणिदा तिणि राआणो मलअकेदुणो बिसअं अहिलसन्ति, इदरे दुवे कोसं हत्थिबलं अ त्ति । ता जहा चाणक्कं णिराकरिअ महाराएण, मम प्पीदी उप्पादिआ, तदा एदाणं पि पढमभणिदो अत्थो संपादइदव्वो' त्ति एत्तिओ बाआसन्देसो त्ति । (कुमार ! सन्दिष्टोऽस्म्यमात्यराक्षसेन, यथा—'एते मम प्रियवयस्याः पञ्च राजानस्त्वया सह प्रथमसमुत्पन्नसन्धानाः । यथा—कुलूताधिपश्चित्रवर्मा, मलयजनपदाधिपः सिंहनाद , काश्मीरदेशाधिपः पुष्कराक्षः, सिन्धुराजः सिन्धुषेनः, पारसीकाधिपतिर्मेघाक्ष इति । अत्रैव प्रथमभणितास्त्रयो राजानः मलयकेतोर्विषयमभिलमषन्ति, इतरौ द्वौ कोषं हस्तिबलञ्चेति । तद्यथा चाणक्यं निराकृत्य महाराजेन मम प्रीतिरुत्पादिता, तथैतेषामपि प्रथमभणितोऽर्थः संपादयितव्यः' इत्येतावान् वाक्सन्देश इति ।)

मलयकेतुः— (स्वगतम्) कथं चित्रवर्मादयोऽपि मामभिद्रुह्यन्ति, अत एवैतेषा राक्षसे निरतिशया प्रीतिः । [प्रकाशम्] विजये ! अमात्यराक्षसं द्रष्टुमिच्छामि ।

प्रतिहारी— जं कुमालो आणवेदि । ( यत् कुमार आज्ञापयति । )
[ इति निष्क्रान्ता । ]

मुद्राराक्षसम् (सटीक संस्कृत नाटक) · पृष्ठ 388, कुल 488 में से · BharatKosha