भारतकोश
मुद्राराक्षसम् (सटीक संस्कृत नाटक)

मुद्राराक्षसम् (सटीक संस्कृत नाटक)

Mudrarakshasam Natakam with Hindi Commentary

महाकवि विशाखदत्त द्वारा

DevanagariSanskritpublished488 पृष्ठ

पृष्ठ 394, कुल 488 में से

संदर्भ में पढ़ें
पृष्ठ 394

पञ्चमोऽङ्कः ३१३

सूत्र से ह्रस्वता हो जाने पर 'व्यूह्य' रूप बनाता है । मध्ययाने—मध्यं यानम् सुप्सुपा स०, अथवा मध्यं यानम् कर्मधारय स० । इस श्लोक मे स्वभावोक्ति अलंकार है और स्रग्धरा छन्द है । स्रग्धरा का लक्षण १,१ में देखिये ॥११॥

प्रियंवदकः—जं अमच्चो आणबेदि । (यदमात्य आज्ञापयति ) [इति निष्क्रान्तः । ]

प्रतीहारी—[प्रविश्य] जेदु जेदु अमच्चो । अमच्च ! इच्छदि तुमं कुमालो प्पेक्खिदुं । (जयतु जयत्वमात्यः । अमात्य ! इच्छति त्वां कुमारः प्रेक्षितुम् । )

राक्षसः—भद्रे ! मुहूर्त्त तिष्ठ । कः कोऽत्र भोः ?

पुरुषः—[प्रविश्य] आणवेदु अमच्चो । ( आज्ञापयत्वमात्यः । )

राक्षसः—भद्र ! उच्यतां शकटदास यथा परिधापिता वयमाभरणं कुमारेण, तन्न युक्तमिदानीमस्माभिरनलङ्कृतैः कुमारदर्शनमनुभवितुम्, अतो यदलङ्करणत्रयं क्रीतं तन्मध्यादेकं दीयतामिति ।

पुरुषः—जं अमच्चो आणबेदि । (यदमात्य आज्ञापयति ।) [इति निष्क्रम्य पुनः प्रविश्य च ] अमच्च ! इदं तं अलङ्करणं । (अमात्य ! इदं तदलङ्करणम् ।)

राक्षसः—[ नाट्येनावलोक्यात्मानमलंकृत्योत्थाय च ] भद्रे ! राजकुलगामिनं मार्गमादेशय ।

प्रतीहारी—एदु एदु अमच्चो । ( एतु एत्वमात्यः । )

राक्षसः—[ स्वगतम् ] अधिकारपदं नाम निर्दोषस्यापि पुरुषस्य महदाशङ्कास्थानम् । कुतः ?—

भयं तावत् सेव्यादभिनिविशते सेवकजनं ततः प्रत्यासन्नाद् भवति हृदयेष्वेव निहितम् । ततोऽध्यारूढानां पदमसुजनद्वेषजननं मतिः सोच्छायाणां पतनमनुकूलं कलयति ॥१२॥

अन्वयः—सेवकजनं तावत् भयं सेव्यात् अभिनिविशते । ततः प्रत्यासन्नात्