मुद्राराक्षसम् (सटीक संस्कृत नाटक)
Mudrarakshasam Natakam with Hindi Commentary
महाकवि विशाखदत्त द्वारा
पृष्ठ 400, कुल 488 में से
संदर्भ में पढ़ेंपञ्चमोऽङ्कः ३२१
**टिप्पणी—परित्यागभूमिः—**दानपात्रम्। अर्थात् वस्तु-विशेष का दान पात्रविशेष को ही देना चाहिए। यह इसका उपयुक्त पात्र नहीं है। **कुतो-वाचिकम्—**यहाँ ‘कुतः’ सूचित करता है भेजने वाले को।
**भागुरायणः—**अलं पुनरात्मानं ताडयित्वा, कथय।
**सिद्धार्थकः—**अज्ज, सअड़दासेण। ( आर्य ! शकटदासेन । )
**राक्षसः—**कुमार ! यदि शकटदासेन लिखितस्तर्हि मयैव लिखितः।
**मलयकेतुः—**विजये ! शकटदासं द्रष्टुमिच्छामि।
**प्रतीहारी—**ज कुमालो आणवेदि। ( यत् कुमार आज्ञापयति । )
भागुरायणः—[ स्वगतम् ] न खल्वनिश्चतायामार्यचाणक्यप्रणिधयोऽभिधास्यन्ति। आगत्य शकटदासो वा ‘सोऽयं लेखः’ इति प्रत्यभिज्ञाय पूर्ववृत्तं प्रकाशयेत्। एवं सति सन्दिहानो मलयकेतुरस्मिन् प्रयोगे श्लथादरो भवेत्। [ प्रकाशम् ] कुमार ! न कदाचिदपि शकटदासोऽमात्यराक्षसस्याग्रतो ‘मया लिखितः’ इति प्रतिपत्स्यते, अतोऽन्यलिखितमस्यानीयतां, यतो वर्णसंवाद एवैतत् सर्वं विभावयिष्यति।
**मलयकेतुः—**विजये ! एवं क्रियताम्।
**भागुरायणः—**कुमार ! मुद्रामप्यानयत्वियम।
**मलयकेतुः—**उभयमप्यानीयताम्।
**प्रतीहारी—**जं कुमालो आणवेदि। ( यत् कुमार आज्ञापयति । )
[ इति निष्क्रम्य पुनः प्रविश्य ] कुमाल ! इदं क्खु तं सअड़दासेण स्सहत्थलिहिदं पत्तं मुद्दा अ। ( कुमार ! इदं खलु तत् शकटदासेन स्वहस्तलिखितं पत्रं मुद्रा च। )
मलयकेतुः—[ उभयमपि नाट्येनावलोक्य ] आर्य ! संवदन्त्यक्षराणि।
राक्षसः—[ स्वगतम् ] संवदन्त्यक्षराणि, शकटदासस्तु मम मित्रमिति च विसंवदन्त्यक्षराणि, तत् किं शकटदासेन लिखितम् ?
स्मृतं स्यात् पुत्रदाराणां विस्मृताः स्वामिभक्तयः।
चलेष्वर्थेषु लुब्धेन न यशःस्वनपायिषु ॥ १४ ॥
मु० रा०—२१