मुद्राराक्षसम् (सटीक संस्कृत नाटक)
Mudrarakshasam Natakam with Hindi Commentary
महाकवि विशाखदत्त द्वारा
पृष्ठ 426, कुल 488 में से
संदर्भ में पढ़ेंषष्ठोऽङ्कः । ३४६
सुसिद्धार्थकः—बअस्स ! तहा णाम अमच्चरक्खसो णन्दरज्जप्पच्चाणअणे किदव्ववसाओ णिक्कमिअ सम्पदं अकिदत्थो पुणो बि कहं इमं ज्जेव कुसुमउरं आअदो ? ( वयस्य ! तथा नाम अमात्यराक्षसो नन्दराज्यप्रत्यानयने कृतव्यवसायो निष्क्रम्य साम्प्रतमकृतार्थः पुनरपि कथमिदमेव कुसुमपुरमागतः ? )
सिद्धार्थकः—बअस्स ! तक्केमि, चन्दणदासस्स सिणेहेण त्ति । ( वयस्य ! तर्कयामि, चन्दनदासस्य स्नेहेनेति । )
सुसिद्धार्थकः—बअस्स ! सच्चं चन्दणदासस्स सिणेहेण त्ति ? अध चन्दणदासस्स मोक्खं पेक्खसि ? ( वयस्य ! सत्य चन्दनदासस्य स्नेहेनेति ? अथ चन्दनदासस्य मोक्षं प्रेक्षसे ? )
सिद्धार्थकः—वअस्स ! कुदो से अधण्णस्स मोक्खो ? सो क्खु सम्पदं अज्जचाणक्कस्स आणत्तीए दुवेहिं पि अम्हेहि बज्झट्ठाणं पवेसिअ वावादइदव्वो । ( वयस्य ! कुतोऽस्याधन्यस्य मोक्षः ? स खलु साम्प्रतमार्यचाणक्यस्याऽऽज्ञप्त्या द्वाभ्यामप्यावाभ्यां वध्यस्थानं प्रवेश्य व्यापादयितव्यः । )
सुसिद्धार्थकः [सक्रोधम्] बअस्स ! किं अज्जचाणक्कस्स घादअजणो अण्णो णत्थि, जेण अम्हे ईदिसे णिसंसे कम्मे णिजुज्जीअदि ? (वयस्य ! किलार्यचाणक्यस्य घातकजनोऽन्यो नास्ति, येनावामीदृशे नृशंसे कर्मणि नियुज्यावहे ? )
सिद्धार्थकः—वअस्स ! को जीवलोए जीविदुकामो अज्जचाणक्कस्स आणत्तिं पडिकूलेदि ? ता एहि, चंडालवेसधारिणा भविअ चन्दणदासं वज्झट्ठाणं णेह्म । ( वयस्य ! को जीवलोके जीवितुकामः आर्यचाणक्यस्याज्ञप्ति प्रतिकूलयेत् ? तदेहि, चाण्डालवेशधारिणौ भूत्वा चन्दनदासं वध्यस्थानं नयावः । )
[ इत्युभौ निष्क्रान्तौ ]
प्रवेशकः
हिन्दी अनुवाद—सुसिद्धार्थक— मित्र ! उस प्रकार नन्दराज्य को लौटाने