मुद्राराक्षसम् (सटीक संस्कृत नाटक)
Mudrarakshasam Natakam with Hindi Commentary
महाकवि विशाखदत्त द्वारा
पृष्ठ 454, कुल 488 में से
संदर्भ में पढ़ेंषष्ठोऽङ्कः ३८१
राक्षस— भद्र ! उठो, उठो । इस समय कालक्षेप करना व्यर्थ है । जिष्णुदास से निवेदन कर दो कि यह राक्षस चन्दनदास को मृत्यु से छुड़ा रहा है । [ 'निस्त्रिंशोऽयम्' इत्यादि ( श्लोक ) पढ़ते हुए तलवार खींचकर घूमता है । ]
टिप्पणी— जीवितं भवति—अत्र भविष्यत्सामीप्ये लट् । भविष्यतीत्यर्थः । **विषमदशाविभागपरिणामपतितः—**असदवस्थाविशेषपरिपाकप्राप्तः । **निश्चितपदम्—**निर्णीतस्थानं त्वामिति शेषः । **प्रतिपत्तुम्—**ज्ञातुम् । **अनुभूतभर्तृ वंशविनाशः—**भर्तुः वंशः, तस्य विनाशः, अनुभूतः भर्तृवंशविनाशः येन सः । **सुहृद्विनाशहेतुः—**सुहृदां कौलूतादीनां सुहृदः चन्दनदासस्य वा यो विनाशः मरणं तस्य हेतुः कारणम् । **दुर्गृहीतनामा—**अपुण्यनामधेया । **यथार्थः—**अन्वर्थः ।
पुरुषः—[ पादयोर्निपत्य ] प्पसीदन्तु प्पसीदन्तु अमच्चरक्खसपादा । अत्थि दाब एत्थ णअरे पढमं चन्दउत्तहदएण अज्जसअड़ासस्स बधो आणत्तो । सो अ केणाबि बज्झट्ठाणादो अबहरिअ, देसन्तरं अब्बाहिदो । तदो चन्दउत्तहदएण कीस प्पमादो किदो त्ति अज्जसअड़ासबधबज्जणाए समुज्जलिदो रोसग्गो घादअजणबधजलेण णिब्बाबिदो । तदो पहुदि घादआ जं कं पि गहीदसत्थं अपुव्वं पुरुसं अग्गदो पच्चादो बा पेक्खन्ति, तदो अद्धबधे ज्जेब अत्तणो जीबिदं परिरक्खन्तो अप्पमत्ता एदे अबाप्तबज्झट्ठाणं बज्झं बाबादेन्ति । ता एव्वं गहीदसत्थेहिं अमच्चपादेहिं तर्हि गच्छन्तेहिं सेट्ठिचन्दणदासस्स बहो तुबराइदो होदि । (प्रसीदन्तु प्रसीदन्त्वमात्यराक्षसपादाः । अस्ति तावदत्र नगरे प्रथमं चन्द्रगुप्तहतकेनाऽऽर्यशकटदासस्य वध आज्ञप्तः । स च केनापि वध्यस्थानादपहृत्य देशान्तरमपवाहितः । ततश्चन्द्रगुप्तहतकेन 'कस्मात् प्रमादः कृतः ?' इति आर्यशकटदासवधवञ्चनया समुज्ज्वलितो रोषाग्निर्घातकजनवधजलेन निर्वापितः । ततः प्रभृति घातका यं कमपि गृहीतशस्त्रम् अपूर्वं पुरुषमग्रतः पश्चाद्वा प्रेक्षन्ते, तदार्धपथे एवात्मनो जीवितं परिरक्षन्तोऽप्रमत्ता एतेऽप्राप्तवध्यस्थानं वध्यं व्यापादयन्ति । तस्मादेवं गृहीतशस्त्रैरमात्यपादैस्तत्र गच्छद्भिः श्रेष्ठिचन्दनदासस्य वधस्त्वरायितो भवति । )
[ इति निष्क्रान्तः । ]