मुद्राराक्षसम् (सटीक संस्कृत नाटक)
Mudrarakshasam Natakam with Hindi Commentary
महाकवि विशाखदत्त द्वारा
पृष्ठ 460, कुल 488 में से
संदर्भ में पढ़ेंसप्तमोऽङ्कः ३८७
(भवति पुरुषस्य व्याधिर्मरणं वा सेविते अपथ्येऽपि।
राजापथ्ये पुनः सेविते हि सकलमपि कुलं म्रियते ॥२॥)
अन्वयः—अपथ्ये अपि सेविते पुरुषस्य व्याधिः वा मरणं भवति, पुनः राजापथ्ये सेविते हि सकलमपि कुलं म्रियते ॥२॥
व्याख्या—अपथ्ये अपि—अहितकरे अपि ( वस्तुनि ), सेविते—भुक्ते ( सति ), पुरुषस्य—जनस्य, व्याधिः—रोगः, वा—अथवा, मरणं—मृत्युः, भवति—जायते, पुनः—भूयः, राजापथ्ये--नृपानिष्टकरे ( वस्तुनि ), सेविते—भुक्ते ( सति ), हि—निश्चयेन, सकलमपि—समग्रमपि, कुलं—वंशः, म्रियते—विनश्यति ॥२॥
हिन्दी अनुवाद—और भी—अपथ्य ( वस्तु ) के भी सेवन से मनुष्य को रोग या मृत्यु होती है, फिर राज-द्रोह करने से सम्पूर्ण कुल का भी निश्चित रूप से नाश हो जाता है ॥२॥
टिप्पणी—भवति पुरुषस्य............इस पद्य में व्यतिरेकालंकार है और द्वितीय प्रतीपालंकार की ध्वनि है। इसमें भी आर्या छन्द है ॥२॥
ता जइ ण प्पत्तिआअध, तदा पेक्खध एणं लाआपत्थकारिणं सेट्ठिचन्दणदासं बज्झट्ठाणं आणिअमाणं सपुत्तकलत्तं। [आकाशे] अज्जा ! किं भणाध ? अत्थि किं चन्दनदासस्स मोक्खोबाओ त्ति ? कुदो से अधणस्स मोक्खोबाओ ? एदं उण अत्थि—सो जइ अमच्चरक्खसस्स घरअणं समर्प्पेदि। [पुनराकाशे] किं भणाध ? एसे सरणागदवच्छले अत्तणो जीविदस्स कारणेण ईरिसं अकज्जं ण करिस्सदि त्ति ? अज्जा ! जइ एव्वं, त्तेण हि अबधाणेध से सुभगदिं। किं दाणीं तुह्माणे प्पडीआल-बिआरेण ? (तद्यदि न प्रत्ययध्वं, तदा प्रेक्षध्वमेनं राजापथ्यकारिणं श्रेष्ठिचन्दनदास वध्यस्थानमानीयमानं सपुत्रकलत्रम् । आर्याः ! किं भणथ ? अस्ति किं चन्दनदासस्य मोक्षोपाय इति ? कुतोऽस्याधन्यस्य मोक्षोपायः ? एतत् पुनरस्ति—स यद्यमात्यराक्षसस्य गृहजनं समर्पयति । किं भणथ ? एष शरणागतवत्सल आत्मनो जीवितस्य कारणेनेदृशमकार्यं न करिष्यतीति ? आर्याः ! यद्येवं, तेन ह्यवधत्तास्य शुभगतिम् । किमि-दानीं युष्माकं प्रतीकारविचारेण ? )