भारतकोश
मुद्राराक्षसम् (सटीक संस्कृत नाटक)

मुद्राराक्षसम् (सटीक संस्कृत नाटक)

Mudrarakshasam Natakam with Hindi Commentary

महाकवि विशाखदत्त द्वारा

DevanagariSanskritpublished488 पृष्ठ

पृष्ठ 468, कुल 488 में से

संदर्भ में पढ़ें
पृष्ठ 468

सप्तमोऽङ्कः ३६७

राक्षसः— त्वदीयसुचरितैकदेशस्यानुकरणं किल ।

चन्दनदासः— अमच्च ! सव्वं बि मे णिष्फलं एदं प्पआसं करन्तेण ण मे प्पिअं अणुचिट्ठिदं अमच्चेण । (अमात्य ! सर्वमपि मे निष्फलमिमं प्रयासं कुर्वता न मे प्रियमनुष्ठितममात्येन ।)

राक्षसः— सखे चन्दनदास ! कृतमुपालम्भेन, स्वार्थप्रधानो हि जीवलोकः । भद्रमुख ! अयमर्थो निवेद्यतां तावद्दुरात्मने चाणक्याय ।

चण्डालौ— अध किं त्ति ? (अथ किमिति ?)

राक्षसः—

दुष्कालेऽपि कलावसज्जनरुचौ प्राणैः परं रक्षता
नीतं येन यशस्विनातिलघुतामौशीनरीयं यशः ।
बुद्धानामपि चेष्टितं सुचरितैः क्लिष्टं विशुद्धात्मना
पूजार्होऽपि स यत्कृते तव गतो वध्यत्वमेषोऽस्मि सः ॥५॥

अन्वयः— असज्जनरुचौ दुष्काले कलौ अपि प्राणैः परं रक्षता यशस्विना येन औशीनरीयं यशः अतिलघुतां नीतम्; विशुद्धात्मना (येन) सुचरितैः बुद्धानां चेष्टितमपि क्लिष्टम्; सः पूजार्होऽपि यत्कृते तव वध्यत्वं गतः सः एषः अस्मि ॥५॥

व्याख्या— असज्जनरुचौ—असती असाध्वी जनरुचिः लोकप्रवृत्तिः यस्मिन् तस्मिन्, दुष्काले—पापिनि, कलौ अपि—कलियुगे अपि, प्राणैः—असुभिः, परम्—अन्यम्, रक्षता—पालयता, यशस्विना—कीर्तिशालिना, येन—चन्दनदासेन, औशीनरीयम्—औशीनरस्य शिबेः, यशः—कीर्तिः, अतिलघुताम्—अत्यन्ततुच्छताम्, नीतम्—प्रापितम्; विशुद्धात्मना—विमलान्तः करणेन, (येन) सुचरितैः—साधुचरितैः, बुद्धानां—बोधिसत्त्वानाम्, चेष्टितमपि—चरितञ्च, क्लिष्टम्—तिरस्कृतम्; सः—चन्दनदासः, पूजार्होऽपि—अर्च्योऽपि, यत्कृते—यस्य हेतोः, तव—ते, वध्यत्वं—हननीयत्वं, गतः—प्राप्तः, सः—राक्षसः, एषः अस्मि—अयमहम् (ते वशो जातः) ॥५॥

हिन्दी अनुवाद—चन्दनदास—[देखकर आंसू के साथ] अमात्य ! यह आपने क्या किया ?