मुद्राराक्षसम् (सटीक संस्कृत नाटक)
Mudrarakshasam Natakam with Hindi Commentary
महाकवि विशाखदत्त द्वारा
पृष्ठ 474, कुल 488 में से
संदर्भ में पढ़ें. सप्तमोऽङ्कः । ४०३
अन्वयः—(येन महात्मना) दीर्घजागरणहेतुभिः गुरुभिः कल्पनाक्लेशैः मे मतिः वृषलस्य सेना च चिरम् आयासिता ॥८॥
व्याख्या—(येन महात्मना) दीर्घजागरणहेतुभिः—दीर्घस्य सन्ततस्य जागरस्य अनिद्रायाः ये हेतवः निमित्तानि तथाभूतैः, गुरुभिः—महद्भिः, कल्पनाक्लेशैः—उपायोद्भावना कष्टैः पक्षान्तरे सज्जानियन्त्रणैः, मे—मम, मतिः—बुद्धिः, वृषलस्य—मौर्यस्य, सेना—वाहिनी च, चिरम्—दीर्घकालम्, आयासिता—आयासमनुभाविता ॥८॥
हिन्दी अनुवाद—चाणक्य—[देखकर प्रसन्नतापूर्वक], अरे यह अमात्य राक्षस है, जिस महात्मा ने—
सतत जागरण के कारणभूत महान् कल्पना (बुद्धि के पक्ष मे राक्षस को पकड़ने के उपाय-चिन्तन और सेना-पक्ष में सदा तैयार रहने) के क्लेशों से मेरी बुद्धि को और मौर्य की सेना को चिरकाल तक कष्ट का अनुभव कराया ॥८॥
टिप्पणी—कल्पना—√ कृप् + णिच् + युच् कर्मणि। आयासिता— आयासेन कष्टेन योजिता वा आयासं गमिता इति आयास + णिच् (नाम-धातु) + क्त कर्मणि। इस श्लोक में तुल्ययोगिता अलंकार है और अनुष्टुप् छन्द है ॥८॥
[जवनिकामपनीयोपसृत्य च] भो भो अमात्यराक्षस ! विष्णुगुप्तोऽभिवादयते।
राक्षसः—[स्वगतम्] अमात्य इति लज्जाकरमिदानीं विशेषणपदम्। [प्रकाशम्] भो भो विष्णुगुप्त ! न मां श्वपाकस्पर्शदूषितं स्प्रष्टुमर्हसि।
**चाणक्यः—**अमात्य राक्षस ! नायं श्वपाकः। अयं खलु दृष्टपूर्वं एव भवता सिद्धार्थकनामा राजपुरुषः, योऽयमसो द्वितीयः, सोऽपि सुसिद्धार्थकनामा राजपुरुष एव। ताभ्यामेव सह सौहार्दमुत्पाद्य शकटदासोऽपि तपस्वी तं तादृशमजानन्नेव कपटलेखं मयैव लेखितः।
राक्षसः—[आत्मगतम्] दिष्ट्या शकटदासं प्रत्यपनीतो विकल्पः।