नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 102, कुल 309 में से
संदर्भ में पढ़ें( ६८ ) नायकः- व्यावृत्यैव सितासितेक्षणरुचा तानाश्रमे शाखिनः कुर्वत्या विटपावसक्तविलसत्कृष्णाजिनौघानिव । यद्दृष्टोऽस्मि तया मुनेरपि पुरस्तेनैव मय्याहते ⁴पुष्पेषो ! भवता मुधैव किमिति क्षिप्यन्त एते शराः ? ॥२॥ विदूषकः- भो वअस्स ! कहिं क्खु गदं दे तं धीरत्तणं ? भो वयस्य ! कुत्र खलु गतं ते तद्धीरत्वम् ? नायकः - वयस्य ! ननु धीर एवास्मि । कुतः ?— नीताः किं न निशाः शशाङ्कधवला नाघ्रातमिन्दीवरं ? किं नोन्मीलितमालतीसुरभयः सोढाः प्रदोषानिलाः ?' झङ्कारः कमलाकरे मधुलिहां किं वा मया न श्रुतो, निर्व्याजं विधुरेष्वधीर इति मां येनाभिधत्से भवान् ? ॥३॥ श्लोक नं० २ः अन्वयः — सितासितेक्षणरुचा आश्रमे तान् शाखिनः विटपावसक्त- विलसत्कृष्णाजिनौघान इव कुर्वत्या तया मुनेरपि पुरा यद् व्यावृत्य एव दृष्टोऽस्मि, तेन एव आहते मयि पुष्पेषो ! भवता मुधा एव एते शराः किमिति क्षिप्यन्ते ॥ श्लोक नं० ३, अन्वयः— किं शशाङ्कधवला निशाः न नीताः ? (किम्) इन्दीवरं न आघ्रातम् ?' किम् उन्मीलितमालतीसुरभयः प्रदोषादिलाः न सोढाः ? किं वा मया कमलाकरे मधुलिहां झङ्कारः न श्रुतः ? येन भवान् निर्व्याजं मां विधुरेषु अधीरः इति अभिधत्ते ॥