नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 106, कुल 309 में से
संदर्भ में पढ़ें( ७२ ) चन्द्रकान्तमणिशिलायामुपविष्टा प्रणयकुपिता किमपि मामुपालभमानेव रुदती मया दृष्टा । तदिच्छामि स्वमानुभूतदयितासमागम रम्येऽस्मिंश्चन्दनलतागृहे दिवसशेषमतिवाहयितुम् । तदेहि गच्छावः । [परिक्रामतः] चेटी — (कर्णं दत्वा ससम्भ्रमम् ) भट्टिदारिए ! पदसद्दो वित्र सुणीअदि । भर्तृदारिके ! पदशब्द इव श्रूयते । नायिका- (ससम्भ्रममात्मानं पश्यन्ती) हज्जे ! मा ईरिसं आआरं हञ्जे ! मेदृशमाकारं पेक्खिअ कोवि मे हिअअं तुलीअदु । ता उट्ठेहि, इमिणा प्रेक्ष्य कोऽपि मे हृदयं तुलयतु¹ । तदुत्तिष्ठ, अनेन रत्तासोअपादवेण अंतरिदा पेक्खम्ह दाव को एसो त्ति । रक्ताशोकपादपेनान्तरिते प्रेक्षावहे तावत् 'क एष' इति । [तथा कुरुतः] विदूषकः — एदं चंदणलदाघरअं । ता एहि पविसम्ह । इदं चन्दनलतागृहम् । तदेहि प्रविशावः । [नाट्येन प्रविशतः] नायकः- चन्दनलतागृहमिदं सचन्द्रमणिशिलमपि प्रियं न मम चंद्राननया रहितं चंद्रिकया ²मुखमिव निशायाः ॥५॥ श्लोक नं० ५, अन्वयः- चन्द्राननया रहितं सचन्द्रमणिशिलमपि इदं चन्दनलतागृहं चन्द्रिकया (रहितं) निशायाः मुखमिव मम प्रियं न ॥