भारतकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 108, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 108

( ७४ ) चेटी—(दृष्ट्वा) भट्टिदारिए ! दिहिट्ठआ वड्ढसि । सो एव्व भर्तृदारिके ! दिष्ट्या वर्धसे । स एव णं दे हिअअवल्लहो जणो । ननु ते हृदयवल्लभो जनः । नायिका—[दृष्ट्वा सहर्षं ससाध्वसञ्च] हञ्जे ! एदं हञ्जे ! एवं पेक्खिअ अदिसाध्वसेण ण सक्कुणोमि इह एव्व आसणे प्रेक्ष्यातिसाध्वसेन न शक्नोमीहैवासने चिट्ठिदुं, कदावि एसो मं पेक्खदि । ता एहि अण्णदो स्थातुं, कदापि एष मां प्रेक्षते । तदेह्यन्यतो गच्छम्ह । (सोत्कण्ठं पदं दत्वा) हञ्जे ! वेवंति मे ऊरुओ । गच्छावः । हञ्जे ! वेपेते मे ऊरू । चेटी—(विहस्य) अइ काअरे ! इह ठिदं तुमं को पेक्खदि ? अयि कातरे ! इह स्थितां त्वां कः प्रेक्षते ? णं विसुमरिदो दे अअं रत्तासोअपादवो, ता इध एव्व ननु विस्मृतस्तेऽयं रक्ताशोकपादपः ? तदिहै- उबविसिअ चिट्ठम्ह । वोपविश्य तिष्ठावः । [तथा कुरुतः] विदूषकः—(निरूप्य) भो वअस्स ! एसा सा चन्दमणिसिला भो वयस्य ! एषा सा चन्द्रमणिशिला । नायकः—(सवाष्पं निःश्वसिति)