भारतकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 110, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 110

( ७६ ) भट्टिदारिए ! जाणामि सिविणआलावो विअ, भर्तृदारिके ! जानामि स्वप्नालाप इव, तो अवहिदा दाव सुणाम्ह । तदवहिते तावत् शृणुवः । [उभे आकर्णयन्तः] विदूषकः— (हस्तेन चालयन्) भो वअस्स ! णं भणामि, एसा सा चंदमणिसिलेत्ति । भो वयस्य ! ननु भणामि, एषा सा चन्द्रमणिशिलेति । नायकः— (सवाष्पं निःश्वस्य) सम्यगुपलक्षितम् । (हस्तेन निर्दिश्य) शशिमणिशिला सेयं यस्यां विपाण्डुरमाननं करकिसलये कृत्वा वामे घनश्वसितोद्गमा । चिरयति मयि व्यक्ताकूता मनाक्स्फुरितैर्भ्रुवो- र्विरमितमनोमन्युर्दृष्टा मया रुदती प्रिया ॥६॥ ततस्तस्यामेव चन्द्रमणिशिलायामुपविशावः । [उभावुपविशतः] नायिका. (विचिन्त्य) का उण एसा हुविस्सदि ! का पुनरेषा भविष्यति ? चेटी- भट्टिदारिए ! जधा अम्हे ओवारिदा दाव एदं पेक्खम्ह, भर्तृदारिके ! यथावामपवारिते तावदेनं प्रेक्षावहे, श्लोक नं० ६, अन्वयः— इयं सा शशिमणिशिला यस्यां वामे करकिसलये विपाण्डुरम् आननं कृत्वा, घनश्वसितोद्गमा, मयि चिरायति भ्रुवो मनाक् स्फुरितैः व्यक्ताकूता, विरमितमनोमन्युः रुदती प्रिया मया दृष्टा ॥