नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
DevanagariHindipublished309 पृष्ठ
पृष्ठ 112, कुल 309 में से
संदर्भ में पढ़ेंपृष्ठ 112
( ७८ ) मा णाम तुमम्पि एव्वं दिट्ठा । मा नाम त्वमप्येवं दृष्टा । नायिका — जुज्जइ एदं । किं उण पणअकुविदं पिअअणं युज्यते एतत् । किं पुनः प्रणयकुपितं प्रियजनं हिअए करित्र मंतयदि । हृदये कृत्वा मन्त्रयति । चेटी — भद्दिदारिए ! मा ईरिसिं सङ्क करेहि । पुणोवि भर्तृदारिके ! मा ईदृशां शङ्कां कुरुष्व । पुनरपि दाव सुणाह । तावच्छृणुवः । विदूषकः — (आत्मगतम्) अभिरमदि एसो एदाए कधाए, भोदु एदं जेव्व वड्ढाइस्सं । अभिरमते एष एतया कथया, भवतु एतामेव वर्धयिष्यामि । (प्रकाशम्) भो वअस्स ! तदा सा तुए रुदती किं भणिदा ? भो वयस्य ! तदा सा त्वया रुदती किं भणिता ? नायकः — वयस्य ! इदमुक्ता - निष्यन्दत इवानेन मुखचन्द्रोदयेन ते । एतद् वाष्पाम्बुना सिक्तं चन्द्रकान्तशिलातलम् ॥७॥ नायिका—(सरोषम्) चतुरिए ! अत्थि किं अदो वि अवरं सोदव्वं ? चतुरिके ! अस्ति ¹किमतोऽप्यपरं श्रोतव्यम् ?
श्लोक न० ७, अन्वयः—(तव) वाष्पाम्बुना सिक्तम् एतत् चन्द्रकान्त- शिलातलम अनेन ते मुखचन्द्रोदयेन निष्यन्दते इव ॥