नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 114, कुल 309 में से
संदर्भ में पढ़ें( ८० ) (सास्रम्) ता एहि गच्छम्ह । तदेहि, गच्छावः । चेटी-(हस्ते गृहीत्वा) भद्दिदारिए ! एव्वं मा भण, तुमं एव्व सिविणए दिट्ठा, भर्तृदारिके ! एवं मा भण, त्वमेव स्वप्ने दृष्टा, ण एदस्स अण्णस्सिं दिट्ठी अहिरमदि । नैतस्यान्यस्यां दृष्टिरभिरमति । नायका — ण मे हिअञ्जं पतिआअदि, ता कहावसाणं न मे हृदयं प्रत्येति, तत्कथावसानं जाव पडिवालेम्ह । यावत्प्रतिपालयावः¹ । नायकः- वयस्य ! जाने तामेवास्यां शिलायामालिख्य² तया चित्रगतयात्मानं विनोदयामीति । तदित एव गिरितटान्मनःशिलाशकलान्यादाय गच्छ । विदूषकः—जं भवं आणवेदि । (परिक्रम्य, गृहीत्वोपसृत्य) यद्भावानाज्ञापयति । भो वअस्स, तुए एक्को वण्णओ आणत्तो । मए उण इधः भो वयस्य, त्वयैको वर्णक आज्ञप्तः । मया ³पुनरिह सुलहा पञ्चवण्णआ आणीदा । ता आलिहदु भवं । सुलभाः पञ्चवर्णका आनीताः । तदालिखतु भवान् । [⁴उपनयति]