नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 122, कुल 309 में से
संदर्भ में पढ़ें( ८८ ) नायिका-- सुणिस्सं दाव, किं तादेण संदिट्ठं त्ति । श्रोष्यामि तावत्, किं तातेन सन्दिष्टमिति । मित्रावसुः-इदमाह तातः-अस्ति मे मलयवती नाम कन्या जीवितमिवास्य सर्वस्यैव सिद्धराजान्वयस्य । सा मया तुभ्यं प्रतिपाद्यते । प्रतिगृह्यताम्'' इति । चेटी- (विहस्य) - भट्टिदारिए ! किं ण कुप्पसि दाणीं ? भर्तृदारिके ! किं न कुप्यसीदानीम् ? नायिका - (सस्मितं सलज्जं चाधोमुखी स्थित्वा) हज्जे ! हञ्जे ! मा हस । किं विसुमरिदं दे एदस्स अण्णहिअअत्तणं ? मा हस । किं विस्मृतं त एतस्यान्यहृदयत्वम् ? नायकः- (अपवार्य) वयस्य सङ्कटे पतिताः स्मः । विदूषकः- (अपवार्य) भो वअस्स ! जाणामि ण तं वज्जिअ भो वयस्य ! जानामि न तां वर्जयित्वा- अण्णहिं चित्तं दे अहिरमदि, ता जधा तथा जं किम्पि ऽन्यत्र, चित्तं तेऽभिरमते । तयथा तथा यत्किमपि भणिअ विसज्जीअदु एसो । भणित्वा विसृज्यतामेषः । नायिका- (सरोपमात्मगतम्) हदास ! को वो एदं न जाणादि ? हताश¹ ! को चैतन्न जानाति ?