नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 124, कुल 309 में से
संदर्भ में पढ़ें( ६० ) [ना]यकः--मित्रावसो ! क इह नेच्छेद भवद्भिः सह श्लाघ्य- मीदृशं सम्बन्धम् ? किन्तु न शक्यते चित्तमन्यतः प्रवृत्तमन्यतो प्रवर्त्तयितुम् । अतो नाहमेनां प्रतिग्रही- तुमुत्सहे । नायिका - (मूर्च्छां नाटयति) चेटी - समस्ससदु समस्ससदु भट्टिदारिआ ! समाश्वसितु समाश्वसितु भर्तृदारिका ! विदूषकः-भो ! पराधीणो क्खु एसो, किं एदिणा अब्भत्थिदेण ? भो ! पराधीनः खल्वेषः , किमनेनाभ्यर्थितेन ? ता गुरुअणं से गदुअ अब्भड्ढेहि । तद्गुरुजनमस्य गत्वाभ्यर्थय । मित्रावसुः - (आत्मगतम् ) साधूक्तं, नायं गुरुजनवचन- मतिक्रामति । अस्य गुरुरप्यस्मिन्नेव गौर्याश्रमे प्रति- वसति । तद्यावद्गत्वाऽस्य पित्रा मलयवतीं प्रति- ग्राहयामि । नायिका - (समाश्वसिति) मित्रावसुः - (प्रकाशम् ) एवं निवेदितात्मनोऽस्मान् प्रत्या- चक्षाणः कुमार एव बहुतरं जानाति । नायिका - (सरोषं विहस्य) कहं पच्चाक्खाणलहू मित्तावसू पुणो वि मन्तेदि ? कथं ^1प्रत्याख्यानलघुर्मित्रावसुः पुनरपि मन्त्रयते ?