नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 128, कुल 309 में से
संदर्भ में पढ़ें( ६४ ) 'ता जम्मन्तरे जहा ण ईरिसी दुक्खभाइणी होमि, तथा करेसि तज्जन्मान्तरे यथा नेदृशी दुःखभागिनी भवामि तथा करिष्यसि। (कण्ठेपाश मपर्यति) चेटी — (दृष्ट्वा ससम्भ्रममुपेत्य) पलित्ताअदु पलित्ताअदु परित्रायतां परित्रायताम् । एसा भट्टिदारिआ उव्वन्धित्र अत्ताणं वावादेदि । एषा भर्तृदारिकोद्वध्य आत्मानं व्यापादयति । नायकः — (ससम्भ्रममुपसृत्य) क्वासौ ? क्वासौ ? चेटी — अअं असोअपादवे । इयमशोकपादपे । नायकः — (सहर्षमवलोक्य) कथं सैवेयमस्मन्मनोरथभूमिः¹ ? (नायिकां पाणौ गृहीत्वा लतापाशमाक्षिपन्)— न खलु न खलु मुग्धे² ! साहसं कार्यमीदृक् व्यपनय करमेतं पल्लवाभं लतायाः । कुसुममपि विचेतुं यो न मन्ये समर्थः कलयति³ स कथं ते पाशमुद्वन्धनाय ॥ ११ ॥ नायिका — (ससाध्वसम्)हज्जे ! को उण एसो ? हञ्जे ! कः पुनरेषः ? श्लोक नं०: ११, अन्वयः— मुग्धे ! न खलु न खलु ईदृक् साहसं कार्य्यम् । पल्लवाभम् एतं करं लतायाः व्यपनय । मन्ये, य ते (करः) कुसुमम् अपि विचेतुं न समर्थः स उद्वन्धनाय पाशं कथं कलयति ?