भारतकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 132, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 132

( ६८ ) पडिवादअंतस्सवि मित्तावसुणो णाहं पडिच्छिदेत्ति प्रतिपादयतोऽपि मित्रावसोर्नाहं प्रतीष्टेति जादणिव्वेदाए इमाए एव्वं व्ववसिदं । ¹जातनिर्वेदाऽनयैवं व्यवसितम् । नायकः-(सहर्षमात्मगतम्)-कथमियमेवासौ विश्वावसोर्दुहिता मलयवती ! अथवा रत्नाकरादृते ²कुतश्चन्द्रलेखायाः प्रसूतिः ? हा ! कथं वञ्चितोऽस्म्यनया ? विदूषकः-भोदि ! जइ एवं ता अणवराद्धो दाणी पियवयस्सो। भवति, यद्येवं तदनपराध इदानीं प्रियवयस्यः । अहवा जइ मम ण पत्तिआअदि, तदा सअं ज्जेव्व अथवा यदि मम न प्रत्येति, तदा स्वयमेव गदुअ सिलाअलं पेक्खदु भोदि । गत्वा शिलातलं प्रेक्षतां भवती । नायिका-(सहर्षं सलज्जञ्च नायकं पश्यन्ती हस्तमाक्षेप्तुमिच्छति) मुञ्च मुञ्च मे अग्गहत्थं । मुञ्च मुञ्च मेऽग्रहस्तम् । नायकः-(सस्मितं) न तावन्मुञ्चामि यावन्मम हृदयवल्लभां शिलायामालिखितां न पश्यसि । [ सर्वे चन्दनलतागृहं प्रविशन्ति ] विदूषकः— (कदलीपत्रमपनीय) भोदि ! पेक्ख एदं से हिअवल्लहं जणं । भवति ! प्रेक्षस्व, एतमस्य हृदयवल्लभं जनम् ।

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या) · पृष्ठ 132, कुल 309 में से · BharatKosha