भारतकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 136, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 136

( १०२ ) चेटी—(उपसृत्य, सहर्षम्) भट्टिदारिए ! दिट्ठिआ वड्ढसि । भर्तृदारिके ! दिष्ट्या वर्धसे । पडिच्छिदा क्खु तुमं भट्टिणो जीमूदवाहणस्स गुरुहिं । प्रतीष्टा¹ खलु त्वं भर्तुर्जीमूतवाहनस्य गुरुभिः। विदूषकः— (नृत्यन्) ही ही भो! सम्पुण्णा मणोरहा ही ही भोः ! सम्पूर्णा मनोरथाः पिअवअस्स । अहवा णहि णहि, भोदीए मलयवदीए । प्रियवयस्य । अथवा नहि नहि , भवत्या मलयवत्याः । अहवा ण एदाणं। (भोजनमभिनयन् ) मम ज्जेव एक्कस्स बह्मणस्स । अथवा न एतयोः ! ममैव एकस्य ब्राह्मणस्य । चेटी—(नायिकामुद्दिश्य) आणत्तम्हि जुवराअमित्तावसुणा आज्ञप्तास्मि युवराजमित्रावसुना जहा—अज्ज ज्जेव मलयवदीए विवाहो । ता लहुं तं यथा—अद्यैव मलयवत्याः विवाहः। तल्लघु तां गेण्हिअ आगच्छ त्ति । ता एहि गच्छुम्ह । गृहीत्वागच्छ' इति । तदेहि गच्छावः । विदूषकः—आः गदा क्खु तुमं दासीए धीए ! एदं गेण्हिअ । आः गता खलु त्वं, ²दास्याःपुत्रि ! इमां गृहीत्वा । पिअवअस्सेण किं इध ज्जेव अवत्थिदव्वं ? प्रियवयस्येन किमिहैवावस्थातव्यम् ? चेटी—हदास ! मा तुवर । तुम्हाणं पि ण्हवणाअं आगदं जेव । हताश³ ! मा त्वरस्व। युष्माकमपि ⁴स्नपनकमागतमेव ।