भारतकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 138, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 138

( १०४ ) नायिका—(सानुरागं सलज्जं च नायकं पश्यन्ती सपरिवारा निष्क्रान्ता) [नेपथ्ये वैतालिकः पठति] • वृष्ट्या पिष्टातकस्य १ द्युतिमिह मलये मेरुतुल्यां दधानः सद्यः २ सिन्दूर-दूरीकृतदिवससमारम्भसन्ध्या तपश्रीः । ३ उद्गीतैरङ्गनानां चलचरणरणन्नूपुरह्लादहृद्यै- रुद्वाहस्नानवेलां कथयति भवतः सिद्धये ४ सिद्धलोकः ॥१३॥ विदूषकः— (आकर्ण्य) भो वअस्स ! दिट्ठिआ आगदं ण्हवणअं । भो वयस्य ! दिष्ट्यागतं स्नपनकम् । नायकः—(सहर्षम् )सखे ! यद्येवं तत्किमिदानीमिह स्थितेन । तदागच्छ । तातं नमस्कृत्य स्नानभूमिमेव गच्छावः । ५ अन्योऽन्यदर्शनकृतः समानरूपानुरागकुलवयसाम् । केषाञ्चिदेव मन्ये समागमो भवति ६ पुण्यवताम् ॥ १४ ॥ [निष्क्रान्ताः सर्वे] इति द्वितीयोऽङ्कः ।

श्लोक नंः १३, अन्वयः— पिष्टातकस्य वृष्ट्या इह मलये मेरुतुल्यां द्युतिं दधानः सद्यः सिन्दूरदूरीकृतदिवससमारम्भसन्ध्याऽऽतपश्रीः, अङ्गनानां चलचरणरणन्नूपुरह्लादहृद्यैः उद्गीतैः, सिद्धलोकः भवतः सिद्धये उद्वाहस्नानवेलां कथयति । श्लोक नं०: १४, अन्वयः— मन्ये समानरूपानुरागकुलवयसाम् केषाञ्चिद् पुण्यवताम् एव अन्योऽन्यदर्शनकृतः समागमः भवति ॥