नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 140, कुल 309 में से
संदर्भ में पढ़ेंअथ तृतीयोऽङ्कः । I [ततः प्रविशति मत्तो विचित्रविह्वलवेषश्चषकहस्तो विटः स्कन्धारोपितसुराभाण्डश्चेटश्च] विटः—णिच्चं जो पिवइ सुरं जणस्स पिअसङ्गमञ्च जो कुणइ। नित्यं यः पिबति सुरां जनस्य प्रियसङ्गमञ्च यः करोति। मह दे दो अवि देवा बलदेवो कामदेवो अ ॥ १ ॥ मम तौ द्वावपि देवौ बलदेवः कामदेवश्च ॥ (घूर्णन्)—सफलं क्खु मे सेहरअस्स जीविदं । सफलं खलु मे शेखरकस्य जीवितम् । वच्छत्थलम्हि दइआ णीलुप्पलवासिआ मुहे मइरा । वक्षःस्थले दयिता नीलोत्पलवासिता मुखे मदिरा । सीसम्मि अ सेहअरो णिच्चं विअ संठिआ जस्स ॥ २ ॥ शीर्षे च शेखरको नित्यमिव संस्थिता यस्य ॥ (प्रस्खलन्) अरे को मं चालेदि ? (सहर्षम्) अवस्सं अरे! को मां चालयति ? अवश्यं णोमालिआ मं परिहसदि। नवमलिका मां परिहसति । श्लोक नं० १, अन्वयः— यः नित्यं सुरां पिबति, यः च जनस्य प्रियसङ्गमं करोति तौ द्वौ अपि— बलदेवः कामदेवः च— मम देवौ । श्लोक नं० २, अन्वयः— यस्य वक्षःस्थले दयिता, मुखे नीलोत्पलवासिता मदिरा, शीर्षे च शेखरकः नित्यमिव संस्थिताः ।