भारतकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 144, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 144

( ११२ ) दासोए पुत्ता महुअरा किं करिस्संति त्ति । दास्याः पुत्रा मधुकराः किं करिष्यन्तीति । [तथा करोति] विटः- निरूप्य सहर्षम्) अरे चेडा ! (अङ्गुल्या निर्दिश्य सहासम्) अरे चेट ! एसा क्खु णोमालिआ मं पेक्खिअ अहं चिरस्स आअदो एषा खलु नवमालिका मां प्रेक्ष्य 'अहं चिरस्यागत' त्ति कुविदा अवगुण्ठनं कडुअ अण्णदो गच्छदि। इति कुपिताऽवगुण्ठनं कृत्वाऽन्यतो गच्छति । ता कण्ठे गेण्हिअ पसादेमि णं । तत्कण्ठे गृहीत्वा प्रसादयाम्येनाम् । [सहसोपसृत्य कण्ठे गृहीत्वा मुखे ताम्बूलं दातुमिच्छति] विदूषकः- (मद्यगन्धं सूचयन्नासिकां गृहीत्वा पराङ्मुखः स्थित्वा) कहं एक्क. णां महुअराणं सकाआदो परिब्भट्ठो कथनेकेषां ¹मधुकराणां सकाशात्परिभ्रष्ट दाणिं अण्णस्स दुट्ठमहुअरस मुहे पडिदोम्हि । इदानीमन्यस्य दुष्टमधुकरस्य मुखे पतितोऽस्मि । विटः- कहं कोवेण परम्मुही भूदा ? कथं कोपेन पराङ्मुखी भूता ? (प्रणामं कुर्वन्, विदूषकस्य चरणमात्मनः शिरसि कृत्वा) पसीद णोमालिए ! पसीद । प्रसीद नवमालिके ! प्रसीद ।