नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 146, कुल 309 में से
संदर्भ में पढ़ें( ११४ ) चेटी-आणत्तम्हि भट्ठिदारिए जणणीए-हञ्जे णोमालिए ! आज्ञप्तास्मि भर्तृदारिकाया जनन्या - हञ्जे नवमालिके ! कुसुमोअरुज्जाणं गदुअ उज्जाणपालिअं पल्लविअं भणाहि - कुसुमाकरोद्यानं गत्वा उद्यानपालिकां पल्लविकां भण- “अज्ज सविसेसं तमालवीहिअं सजीकरेहि । मलयवदी- “अद्य सविशेषं तमालवीथिकां२ सजीकुरु । मलयवती- सहिदेण जामादुएण तत्थ गन्दव्वं' त्ति । आणत्ता च मए सहितेन जामात्रा तत्र गन्तव्यमिति । आज्ञप्ता च मया पल्लविआ । ता जाव रअणीविरहवड्ढिदोत्कण्ठं पल्लविका । तद्यावद्रजनीविरहवर्धितोत्कण्ठं पिअवल्लहं सेहरअं अण्णेसामि । (दृष्ट्वा) एसो सेहरओ ! प्रियवल्लभं शेखरकमन्विष्यामि । एष शेखरकः ! (सरोषम्) कहं अण्णं कम्पि इत्थिअं पसादेदि ! ता इह कथमन्यां कामपि स्त्रियं प्रसादयति ! तदिह ट्ठिदा ज्जेव्व जाणामि का एसेत्ति । स्थितैव जानामि कैषेति । विटः-(सहर्षम्)- हरिहरपिदामहाणं पि गव्विदो जो ण जाणइ णमिदुं हरिहरपितामहानामपि गर्वितो यो न जानाति नन्तुम् । सो सेहरओ चलणेसु तुज्ज णोमालिए ! पडइ ॥३॥ स शेखरकश्चरणयोस्तव नवमालिके ! पतति ॥ श्लोक नंः ३, अन्वयः--- यः गर्वितः हरिहरपितामहानामपि नन्तुं न जानाति स शेखरकः नवमालिके ! तव चरणयोः पतति ।