नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 156, कुल 309 में से
संदर्भ में पढ़ें( १२४ ) विटः- जइ तुम बम्हणो, ता कहिं दे बम्हसुत्तं ? यदि त्वं ब्राह्मणः, तत्क्व ते ब्रह्मसूत्रम् ? विदूषकः - (यज्ञोपवीतं स्वशरीरेऽदृष्ट्वा) तं क्खु मे इमिणा तत्खलु मेऽनेन चेटेण कट्टीअमाणं छिन्नं । चेटेन कृष्यमाणं छिन्नम् । चेटो-(विहस्य) जइ एवं ता वेइक्खराईं पि दाव कतिवि उदाहरा यद्येवं तद्वेदाक्षराण्यपि तावत् कत्यप्युदाहर । विदूषकः-भोदि ! इमिणा शीधुगन्धेण पिणद्धाईं मे वेइक्खराईं । भवति ! अनेन शीधुगन्धेन पिद्धानि मे वेदाक्षराणि । अहवा, किं मम भोदीए समं विवादेण । एसो दे अथवा, किं मम भवत्या समं विवादेन । एष ते बम्हणो पादेसु पडदि । ब्राह्मणः पादयोः पतति । [ इति पादयोः पतितुमिच्छति ] चेटो- (हस्ताभ्यां निवार्य) मा क्खु एवं करेदु अज्जो । सेहरअ मा खल्वेवं करोत्वार्यः । शेखरक ! ओसर ओसर । सच्चं बम्हणो क्खु एसो । अपसरापसर । सत्यं ब्राह्मणः खल्वेषः । (विदूषकस्य पादयोः पतति) अज्ज ! ण तुए कुविदव्वं । आर्य ! न त्वया कुपितव्यम् । सम्बन्धिआणुरूओ क्खु एसो मए परिहासो किदो । सम्बन्धिकानुरूपः खल्वेष मया परिहासः कृतः ।