नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 158, कुल 309 में से
संदर्भ में पढ़ें( १२६ ) विटः — अहम्पि णं पसादेमि । [पादयोर्निपत्य] मरिसेदु अहम्प्येनं प्रसाद्यामि । मर्षयतु, मरिसेदु अज्जो, जं मए मदपरवसेण अवरद्धं, जेण अहं मर्षयतु, आर्यः, यन्मया मदपरवशेनापराद्धम् ; येनाहं णोमालिए सह आवाणअं गमिस्सं । नवमालिकया सहापानकं गमिष्यामि । विदूषकः—मरिसीदं मए, गच्छ तुम्हे, अहंपि पिअवअस्सं मर्षितं मया, गच्छतं युवाम् । अहमपि प्रियवयस्यं पेक्खामि । प्रेक्षे । [निष्क्रान्तो विटश्चेट्या सह चेटश्च] विदूषकः— अदिक्कंतो बम्हणस्स अकालमित्तू । ता जाव अतिक्रान्तो ब्राह्मणस्याकालमृत्युः । तद्याव- अहंपि मत्तवालअस्सङ्गदूसिदो इध दिग्धिकाए ण्हाइस्सं । दहमपि मत्तवालकसङ्गदूषित इह दीर्घिकायां स्नास्यामि । [तथा करोति । नेपथ्याभिमुखमवलोक्य]—एसो पिअवअस्सोवि एष प्रियवयस्योऽपि रुक्किणीं विअ हरी मलयवदीं अवलम्बिअ इदो जेव्व रुक्मिणीमिव हरिर्मलयवतीमवलम्ब्य इत एव- आगच्छदि । ता जाव पासपरिवित्ती होमि । आगच्छति । तद्यावत्पार्श्ववर्ती भवामि । [ततः प्रविशति गृहीतवरनेपथ्यो नायको मलयवती विभवतश्च परिवारः]