नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 160, कुल 309 में से
संदर्भ में पढ़ें( १२८ ) नायकः—(मलयवतीमवलोक्य सहर्षम् ) दृष्टा दृष्टिमधो ददाति, कुरुते नालापमाभाषिता, शय्यायां परिवृत्य तिष्ठति, बलादालिङ्गिता वेपते। निर्यान्तीषु सखीषु ^1वासभवनान्निर्गन्तुमेवेहते । जातो ^2वामतयैव मेऽद्य सुतरां प्रीतयै नवोढा प्रिया ॥४॥ (मलयवतीं पश्यन्) हुङ्कारं ददता मया प्रतिवचो यन्मौनमासेवितं, यद्दावानल दीप्तिभिस्तनुरियं चन्द्रातपैस्तापिता ध्यातं यत्सुबहून्यनन्यमनसा नक्तन्दिनानि प्रिये ! तस्यैतत् तपसः फलं मुखमिदं पश्यामि यत्तेऽधुना ॥ ५ ॥ नायिका—(अपवार्य) हञ्जे चतुरिए ! ण केवलं दंसणीओ, हञ्जे चतुरिके ! न केवलं दर्शनीयः, श्लोक नं०: ४, अन्वयः— दृष्टा दृष्टिमधो ददाति, आभाषिता आलापं न कुरुते; शय्यायां परिवृत्य तिष्ठति, बलात् आलिङ्गिता वेपते । वासभवनात् सखीषु निर्यान्तीषु निर्गन्तुम् इव ईहते, वामतया एव अद्य मे नवोढा प्रिया सुतरां प्रीत्यै जाता ॥ श्लोक नं०: ५ अन्वयः— यत् प्रतिवचः हुङ्कारं ददता मया मौनम् आसेवितम् ; यत् दावानलदीप्तिभिः चन्द्रातपैः इयं तनुः तापिता; यत् सुवहूनि नक्तन्दिनानि अनन्यमनसा (मया) ध्यातम्; (हे) प्रिये ! तस्य तपसः एतत् फलं यत् ते इदं मुखं अधुना पश्यामि ॥-