नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 162, कुल 309 में से
संदर्भ में पढ़ें( १३० ) पिअंपि भणितुं जाणादि । प्रियमपि भणितुं जानाति । चेटी - (विहस्य) अयि पडिपक्खवादिणि ! सच्चं जेव एदं, अयि ¹प्रतिपक्षवादिनि ! सत्यमेवैतत् । किं एत्थ पिअवअणं ? किमत्र प्रियवचनम् ? नायकः—चतुरिके ! आदेशय मार्गं कुसुमाकरोद्यानस्य । चेटी - एदु एदु भट्टा । एतु एतु भर्त्ता । नायकः-(परिक्रामन्नायिकां निर्दिश्य) स्वैरं स्वैरमागच्छतु भवती । खेदाय स्तनभार एव, किमु ते मध्यस्य हारोऽपरः ? ²ताम्यत्यूरयुगं नितम्बभरतः, काञ्च्याऽनया किं पुनः ? शक्तिः पादयुगस्य नोरुयुगलं वोढुं, कुतो नूपुरौ ? स्वाङ्गैरैव विभूषिताऽसि, वहसि क्लेशाय किं मण्डनम् ? ॥६॥ चेटी-एदं क्खु तं कुसुमाअरुज्जाणं ता पविसदु भट्टा एतत्खलु तत्कुसुमाकरोद्यानम् । तत्प्रविशतु भर्त्ता । [सर्वे प्रविशन्ति] श्लोक नं०: ६, अन्वयः - स्तनभार एव ते मध्यस्य खेदाय, किमु अपरः हारः ? नितम्बभरतः (एव) ऊरुयुगं ताम्यति, अनया काञ्च्या पुनः किम् ? ऊरुयुगलं वोढुं पादयुगस्य शक्तिः न, कुतो नूपुरौ ? स्वाङ्गैः एव विभूषिताऽसि, (तत् ) क्लेशाय मण्डनं कि वहसि ?