नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
DevanagariHindipublished309 पृष्ठ
पृष्ठ 164, कुल 309 में से
संदर्भ में पढ़ेंपृष्ठ 164
( १३२ )
नायकः- (विलोक्य) अहो नु कुसुमाकरोद्यानस्य परा श्रीः ! इह हि- निष्यन्दश्चन्दनानां शिशिरयति लतामण्डपे ^1कुट्टिमान्तान्, आराद् धारागृहाणां ^2 ध्वनिमनु तनुते ताण्डवं नीलकण्ठः। यन्त्रोन्मुक्तश्च वेगाच्चलति विटपिनां पूरयन्नालवालान्, आपातोत्पीडहेलाहृतकुसुमरजः ^3पिञ्जरोऽयं जलौघः ॥७॥ अपि च- अमी गीतारम्भैर्मुखरितलतामण्डपभुवः, परागैः पुष्पाणां ^4प्रकटपटवास^5व्यतिकराः पिबन्तः पर्याप्तं सह सहचरीभिर्मधुरसं, समन्तादापानोत्सवमनुभवन्तीह मधुपाः ॥८॥ विदूषकः- (उपसृत्य) जेदु जेदु भवं । सोत्थि भोदिए । जयतु जयतु भवान् । स्वस्ति भवत्यै ।
श्लोक नं०: ७, अन्वयः- चन्दनानां निष्यन्दः लतामण्डपे कुट्टिमान्तान् शिशिरयति; आराद् धारागृहाणां ध्वनिमनु नीलकण्ठः ताण्डवं तनुते । यन्त्रोन्मुक्तश्च आपातोत्पीडहेलाहृतकुसुमरजः पिञ्जरोऽयं जलौघः विटपिनाम् आलवालान् पूरयन् वेगात् चलति । श्लोक नंः ८, अन्वयः- गीतारम्भैः मुखरितलतामण्डपभुवः, पुष्पाणां परागैः प्रकटपटवासव्यतिकराः, सहचरीभिः सह पर्याप्तं मधुरसं पिबन्तः, अमी मधुपाः इह समन्ताद् आपानोत्सवम् अनुभवन्ति ।