भारतकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 166, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 166

( १३४ ) नायकः — वयस्य ! चिरादागतोऽसि । विदूषकः —भो वअस्स ! लहुं जेव्व आअदोम्हि । किं उण भो वयस्य ! लघ्वेवागतोऽस्मि । किं¹ पुन- विआहमहूसव मिलिदसिद्धविज्जाहराणं आपाणदंसणकोदूहलेण विवाह महोत्सवमिलितसिद्धविद्याधराणामापानदर्शनकौतूहलेन परिब्भमंतो एत्तिअं वेलं चिट्ठिदोम्हि । ता तुमं पि दाव परिभ्रमन्नेतावतीं वेलां स्थितोऽस्मि । तत्त्वमपि ताव- पेक्ख । त्प्रेक्षस्व । नायकः—एवं यथाह भवान् । (समन्तादवलोकयन् ) वयस्य ! पश्य, पश्य— दिग्धाङ्गा ²हरिचन्दनेन, दधतः सन्तानकानां स्रजो माणिक्याभरणाप्रभाव्यतिकरै³श्चित्रीकृताच्छांशुकाः । सार्धं⁴ सिद्धजनैर्मधूनि दयितापीतावशिष्टान्यमी मिश्रीभूय पिबन्ति चन्दनतरुच्छायासु विद्याधराः ॥६॥ तदेहि वयमपि तां तमालवीथिकां गच्छामः । [सर्वे परिक्रामन्ति] श्लोक नं०: ६, अन्वयः — हरिचन्दनेन दिग्धाङ्गाः, सन्तानकानां स्रजो दधतः, माणिक्याभरणप्रभाव्यतिकरैः चित्रीकृताच्छांशुकाः अमी विद्याधराः सिद्धजनैः सार्धं मिश्रीभूय दयितापीतावशिष्टानि मधूनि चन्दनतरुच्छायासु पिबन्ति ।

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या) · पृष्ठ 166, कुल 309 में से · BharatKosha