नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 168, कुल 309 में से
संदर्भ में पढ़ें( १३८ ) चेटी-(सस्मितं विदूषकं निर्दिश्य) सुदं तुए, भद्दिदारिआ कहं वण्णिदेत्ति । श्रुतं त्वया; भर्तृदारिका कथं वर्णितेति । विदूषकः- (सस्मितम् ) चउरिए ! मा एवं गव्वं उव्वह । चतुरिके ! मैवं गर्वमुद्वह । अम्हाणं पि मज्झे दंसणीओ जणो अत्थि एव्व । अस्माकमपि मध्ये दर्शनीयो जनोऽस्त्येव । केवलं मच्छरेण को वि ण वण्णेदि । केवलं मत्सरेण कोऽपि न वर्णयति । चेटी-(सस्मितम्) अज्ज ! अहं तुमं वण्णामि । आर्य ! अहं त्वां वर्णयामि¹ । विदूषकः- (सहर्षम्) भोदि ! जीविदोम्हि । ता करेदु भोदि भवति ! 'जीवितोऽस्मि । तत्करोतु भवती पसादं, जेण एसो मं पुणोवि ण भणादि, जहा- प्रसादं, येनैष मां पुनरपि न भणति, यथा- तुमं ईदिसो तादिसो कविलमंकडाआरो त्ति । त्वमीदृशस्तादृशः कपिङ्गलमर्कटाकार इति । चेटी- अज्ज ! तुमं मए विआहजाअरणे णिद्दाअमाणो आर्य ! त्वं मया विवाहजागरणे निद्रायमाणो णिमीलिअ अच्छो सोहणो दिट्ठो । ता तह ज्जेव्व चिट्ठ, निमीलिताक्षः शोभनो दृष्टः । तत्तथैव तिष्ठ, जेण वण्णेमि । येन वर्णयामि ।