नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 170, कुल 309 में से
संदर्भ में पढ़ें( १४० ) विदूषकः - ( तथा करोति ) चेटी - (स्वगतम्)- जाव एसो णिमीलिअअच्छो चिट्ठदि यावदेष निमीलिताक्षस्तिष्ठति, दाव णीलरसाणुआरिणा तमालपल्लवरसेण मुहं से तावन्नीलरसानुकारिणा तमालपल्लवरसेन मुखमस्य कालीकरिस्सं । कालीकरिष्यामि । [उत्थाय तमालपल्लवग्रहणं तन्निपीडनं च नाटयति । नायको नायिका च विदूषकं पश्यतः।] नायकः- वयस्य ! धन्यः खल्वसि, योऽस्मासु १ तिष्ठत्सु त्वमेवं वर्ण्यसे । [ चेटी तमालरसेन विदूषकस्य मुखं कालीकरोति, ] नायिका--[सस्मितं विदूषकं दृष्ट्वा नायकं पश्यति] नायकः-(नायिकामुखं दृष्ट्वा)- स्मितपुष्पोद्गमोऽयं ते दृश्यतेऽधरपल्लवे । २ फलं त्वन्यत्रमुग्धाक्षि ! चक्षुषोर्मम पश्यतः ३ ॥ १२ ॥ विदूषकः - भो दे ! किं तुए किदं ? भवति ! कि त्वया कृतम् ? श्लोक नं : १२, अन्वयः- (हे) मुग्धाक्षि ! अधरपल्लवे तेऽयं स्मितपुष्पोद्गमो दृश्यते । (परमस्य पुष्पोद्गमस्य) फलं तु अन्यत्र पश्यतः मम चक्षुषोः (जातम्) ।