भारतकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 178, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 178

( १४८ ) संसर्पद्भिः समन्तात्कृतसकलवियन्मार्गयानैर्विमानैः कुर्वाणाः प्रावृषीव स्थगितरविरुचः श्यामतां वासरस्य एते याताश्च सद्यस्तव वचनमितः प्राप्य युद्धाय सिद्धाः, सिद्धश्वोद्वृत्तशत्रुक्षयभयविनमद्राजकं ते स्वराज्यम् ॥१५॥ अथवा किं बलौघैः — एकाकिनाऽपि हि मया रभसाऽवकृष्ट- निस्त्रिंशदीधितिसटाभरभासुरेण। आरान्निपत्य हरिणेव मतङ्गजेंद्र- माजौ मतङ्गहतकं हतमेव विद्धि ॥ १६ ॥ नायकः-(कर्णौ पिधाय आत्मगतम् ) अहह दारुणमभिहितम् । अथवा एवं तावत् । (प्रकाशम्) मित्रावसो कियदेतत् ? बहुतरमतोपि बाहुशालिनि त्वयि सम्भाव्यते । श्लोक नं०: १५, अन्वयः — समन्तात् संसर्पद्भिः कृतसकलवियन्मार्गयानैः विमानैः प्रावृषीव स्थगितरविरुचः वासरस्य श्यामतां कुर्वाणाः एते सिद्धाः तव वचनं प्राप्य इतः युद्धाय सद्यः याताश्च उद्वृत्तशत्रुक्षयभयविनमद्राजकं ते स्वराज्यं सिद्धञ्च ॥ श्लोक नं०: १६, अन्वयः — एकाकिनापि हि रभसावकृष्ट-निस्त्रिंशदीधितिसटाभरभासुरेण मया आरात् निपत्य हरिणा इव मतङ्गजेंद्रम् आजौ मतङ्गहतकं हतमेव विद्धि ।

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या) · पृष्ठ 178, कुल 309 में से · BharatKosha