नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
DevanagariHindipublished309 पृष्ठ
पृष्ठ 182, कुल 309 में से
संदर्भ में पढ़ेंपृष्ठ 182
( १५२ ) निद्रामुद्राऽवबन्धव्यतिकरमनिशं¹ पद्मकोशादपास्य- न्नाशा²पूरैककर्मप्रवणनिजकरप्रीणिताशेषविश्वः । ³दृष्टः सिद्धैः प्रसक्तस्तुतिमुखरमुखैरस्तमप्येष गच्छ- न्नेकः श्लाघ्यो विवस्वान् परहितकरणायैव यस्य प्रयासः॥१८॥ [इति निष्क्रान्ताः सर्वे] इति तृतीयोऽङ्कः । श्लोक नं० १८, अन्वयः — पद्मकोशात् निद्रामुद्रावबन्धव्यतिकरम् अनिशम् अपास्यन् , आशापूरैककर्मप्रवणनिजकरप्रीणिताशेषविश्वः, अस्तमपि गच्छन् प्रसक्तस्तुतिमुखरमुखैः सिद्धैः दृष्टः, एष एकः विवस्वान् (एव) श्लाघ्यः, यस्य प्रयासः परहितकरणाय एव (भवति) ।